सोमवार, 5 अप्रैल 2021

उज्ज्वलवेङ्कटनाथस्तोत्रम्

 

उज्ज्वलवेङ्कटनाथस्तोत्रम्

रङ्गे तुङ्गे कवेराचलजकनकनद्यन्तरङ्गे भुजङ्गे शेषे शेषे विचिन्वन् जगदवननयं भात्यशेषेऽपि दोषे । निद्रामुद्रां दधानो निखिलजनगुणध्यानसान्द्रामतन्द्रां चिन्तां यां तां वृषाद्रौ विरचयसि रमाकान्त कान्तां शुभान्ताम् ॥ १॥ तां चिन्तां रङ्गक्लृप्तां वृषगिरिशिखरे सार्थयन् रङ्गनाथ श्रीवत्सं वा विभूषां व्रणकिणमहिराट्सूरिक्लृप्तापराधम् । धृत्वा वात्सल्यमत्युज्ज्वलयितुमवने सत्क्रतौ बद्धदीक्षो बध्नन्स्वीयाङ्घ्रियूपे निखिलनरपशून् गौणरज्ज्वाऽसि यज्वा ॥ २॥ ज्वालारावप्रनष्टासुरनिवहमहाश्रीरथाङ्गाब्जहस्तं श्रीरङ्गे चिन्तितार्थान्निजजनविषये योक्तुकामं तदर्हान् । द्रष्टुं दृष्ट्या समन्ताज्जगति वृषगिरेस्तुङ्गश‍ृङ्गाधिरूढं दुष्टादुष्टानवन्तं निरुपधिकृपया श्रीनिवासं भजेऽन्तः ॥ ३॥ अन्तः कान्तश्श्रियो नस्सकरुणविलसद्दृक्तरङ्गैरपाङ्गैः सिञ्चन्मुञ्चन्कृपाम्भःकणगणभरितान्प्रेमपूरानपारान् । रूपं चापादचूडं विशदमुपनयन् पङ्कजाक्षं समक्षं धत्तां हृत्तापशान्त्यै शिशिरमृदुलतानिर्जिताब्जे पदाब्जे ॥ ४॥ अब्जेन सदृशि सन्ततमिन्धे हृत्पुण्डरीककुण्डे यः । जडिमार्त आश्रयेऽद्भुतपावकमेतं निरिन्धनं ज्वलितम् ॥ ५॥ ज्वलितनानानागश‍ृङ्गगमणिगणोदितसुपरभागक घननिभाभाभासुराङ्गक वृषगिरीश्वर वितर शं मम सुजनतातातायिताखिलहितसुशीतलगुणगणालय विसृमरारारादुदित्वररिपुभयङ्करकरसुदर्शन । सकलपापापारभीकरघनरवाकरसुदर सादरम् अवतु मामामाघसम्भृतमगणनोचितगुण रमेश्वर तव कृपा पापाटवीहतिदवहुताशनसमहिमा ध्रुवम् इतरथाथाथारमस्त्यघगणविमोचनमिह न किञ्चन ॥ ६॥ नगधराराराधने तव वृषगिरीश्वर य इह सादर- रचितनानानामकौसुमतरुलसन्निजवनविभागज- सुमकृतां तां तां शुभस्रजमुपहरन् सुखमहिपतिर्गुरुः अतिरयायायासदायकभवभयानकशठरिपोः किल । निगमगा गा गायता यतिपरिबृढेन तु रचय पूरुष जितसभो भो भोगिराङ्गिरिपतिपदार्चनमिति नियोजितः इह परं रंरम्यते स्म च तदुदितव्रणचुबुकभूषणे इह रमे मे मेघरोचिषि भवति हारिणि हृदयरङ्गग ॥ ७॥ गतभये ये ये पदे तव रुचियुता भुवि वृषगिरीश्वर विदधते ते ते पदार्चनमितरथा गतिविरहिता इति मतिमता तातायिते त्वयि शरणतां हृदि कलयता परि- चरणया यायाऽऽयता तव फणिगणाधिपगुरुवरेण तु । विरचितां तांतां वनावलिमुपगते त्वयि विहरति द्रुम- नहनगाङ्गां गामिव श्रियमरचयत्तव स गुरुरस्य च तदनु तान्तां तां रमां परिजनगिरा द्रुतमवयतो निज- शिशुदशाशाशालिनीमपि वितरतो वर वितर शं मम ॥ ८॥ ममतया यायाऽऽविला मतिरुदयते मम सपदि तां हर करुणया याया शुभा मम वितर तामयि वृषगिरीश्वर सदुदयायायासमृच्छसि न दरमप्यरिविदलनादिषु मदुदयायायासमीप्ससि न तु कथं मम रिपुजयाय च । मयि दयाया यासि केन तु न पदतां ननु निगद तन्मम मम विभो भो भोगिनायकशयन मे मतमरिजयं दिश परम याया या दया तव निरवधिं मयि झटिति तामयि सुमहिमा मा माधव क्षतिमुपगमत्तव मम कृतेऽनघ ॥ ९॥ घटितपापापारदुर्भटपटलदुर्घटनिधनकारण रणधरारारात्पलायननिजनिदर्शितबहुबलायन दरवरारारावनाशन मधुविनाशन मम मनोधन रिपुलयायायाहि पाहि न इदमरं मम कलय पावन । सुतरसासासारदृक्ततिरतिशुभा तव निपततान्मयि सहरमो मोमोत्तु सन्ततमयि भवान्मयि वृषगिरावपि प्रतिदिनं नंनम्यते मम मन उपेक्षिततदपरं त्वयि तदरिपापापासनं कुरु वृषगिरीश्वर सततमुज्ज्वल ॥ १०॥ उज्ज्वलवेङ्कटनाथस्तोत्रं पठतां ध्रुवाऽरिविजयश्रीः श्रीरङ्गोक्तं लसति यदमृतं सारज्ञहृदयसारङ्गे ॥ ११॥ ॥ इति उज्ज्वलवेङ्कटनाथस्तोत्रं संपूर्णम् ॥

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

एक खतरनाक साजिश की सच्चाई

  🔸“संयुक्त परिवार को तोड़कर उपभोक्ता बनाया गया भारत: एक खतरनाक साजिश की सच्चाई* ⚡“जब परिवार टूटते हैं, तभी बाजार फलते हैं” — ये सिर्फ विच...