शनिवार, 24 अप्रैल 2021

ककारादि कालीसहस्रनामस्तोत्रम्

 

ककारादि कालीसहस्रनामस्तोत्रम्

काळ्याः मेधासाम्राज्यप्रदसहस्रनामस्तोत्रम् श्री गणेशाय नमः । कैलासशिखरे रम्ये नानादेवगणावृते । नानावृक्षलताकीर्णे नानापुष्पैरलङ्कृते ॥ १॥ चतुर्मण्डलसंयुक्ते श‍ृङ्गारमण्डपे स्थिते । समाधौ संस्थितं शान्तं क्रीडन्तं योगिनीप्रियम् ॥ २॥ तत्र मौनधरं दृष्ट्वा देवी पृच्छति शङ्करम् । देव्युवाच । किं त्वया जप्यते देव किं त्वया स्मर्य्यते सदा ॥ ३॥ सृष्टिः कुत्र विलीनास्ति पुनः कुत्र प्रजायते । ब्रह्माण्डकारणं यत्तत् किमाद्यं कारणं महत् ॥ ४॥ मनोरथमयी सिद्धिस्तथा वाञ्छामयी शिव । तृतीया कल्पनासिद्धिः कोटिसिद्धीश्वरात्मकम् ॥ ५॥ शक्तिपाताष्टदशकं चराचरपुरीगतिः । महेन्द्रजालमिन्द्रादिजालानां रचना तथा ॥ ६॥ अणिमाद्यष्टकं देव परकायप्रवेशनम् । नवीनसृष्टिकरणं समुद्रशोषणं तथा ॥ ७॥ अमायां चन्द्रसन्दर्शो दिवा चन्द्रप्रकाशनम् । चन्द्राष्टकं चाष्टदिक्षु तथा सूर्याष्टकं शिव ॥ ८॥ जले जलमयत्वं च वह्नौ वह्निमयत्वकम् । ब्रह्म-विष्ण्वादि-निर्माणमिन्द्राणां कारणं करे ॥ ९॥ पातालगुटिका-यक्ष-वेतालपञ्चकं तथा । रसायनं तथा गुप्तिस्तथैव चाखिलाञ्जनम् ॥ १०॥ महामधुमती सिद्धिस्तथा पद्मावती शिव । तथा भोगवती सिद्धिर्यावत्यः सन्ति सिद्धयः ॥ ११॥ केन मन्त्रेण तपसा कलौ पापसमाकुले । आयुष्यं पुण्यरहिते कथं भवति तद्वद ॥ १२॥ श्रीशिव उवाच । विना मन्त्रं विना स्तोत्रं विनैव तपसा प्रिये । विना बलिं विना न्यासं भूतशुद्धिं विना प्रिये ॥ १३॥ विना ध्यानं विना यन्त्रं विना पूजादिना प्रिये । विना क्लेशादिभिर्देवि देहदुःखादिभिर्विना ॥ १४॥ सिद्धिराशु भवेद्येन तदेवं कथ्यते मया । शून्ये ब्रह्मण्डगोले तु पञ्चाशच्छून्यमध्यके ॥ १५॥ पञ्चशून्यस्थिता तारा सर्वान्ते कालिका स्थिता । अनन्त-कोटि ब्रह्माण्ड राजदण्डाग्रके शिवे ॥ १६॥ स्थाप्य शून्यालयं कृत्वा कृष्णवर्णं विधाय च । महानिर्गुणरूपा च वाचातीता परा कला ॥ १७॥ क्रीडायां संस्थिता देवी शून्यरूपा प्रकल्पयेत् । सृष्टेरारम्भकार्यार्थं दृष्टा छाया तया यदा ॥ १८॥ इच्छाशक्तिस्तु सा जाता तथा कालो विनिर्मितः । प्रतिबिम्बं तत्र दृष्टं जाता ज्ञानाभिधा तु सा ॥ १९॥ इदमेतत्किंविशिष्टं जातं विज्ञानकं मुदा । तदा क्रियाऽभिधा जाता तदीच्छातो महेश्वरि ॥ २०॥ ब्रह्माण्डगोले देवेशि राजदण्डस्थितं च यत् । सा क्रिया स्थापयामास स्व-स्वस्थानक्रमेण च ॥ २१॥ तत्रैव स्वेच्छया देवि सामरस्यपरायणा । तदिच्छा कथ्यते देवि यथावदवधारय ॥ २२॥ युगादिसमये देवि शिवं परगुणोत्तमम् । तदिच्छा निर्गुणं शान्तं सच्चिदानन्दविग्रहम् ॥ २३॥ शाश्वतं सुन्दरं शुद्धं सर्वदेवयुतं वरम् । आदिनाथं गुणातीतं काल्या संयुतमीश्वरम् ॥ २४॥ विपरीतरतं देवं सामरस्यपरायणम् । पूजार्थमागतं देव-गन्धर्वाऽप्सरसां गणम् ॥ २५॥ यक्षिणीं किन्नरीकन्यामुर्वश्याद्यां तिलोत्तमाम् । वीक्ष्य तन्मायया प्राह सुन्दरी प्राणवल्लभा ॥ २६॥ त्रैलोक्यसुन्दरी प्राणस्वामिनी प्राणरञ्जिनी । किमागतं भवत्याऽद्य मम भाग्यार्णवो महान् ॥ २७॥ उक्त्वा मौनधरं शम्भुं पूजयन्त्यप्सरोगणाः । अप्सरस ऊचुः । संसारात्तारितं देव त्वया विश्वजनप्रिय ॥ २८॥ सृष्टेरारम्भकार्य्यार्थमुद्युक्तोऽसि महाप्रभो । वेश्याकृत्यमिदं देव मङ्गलार्थप्रगायनम् ॥ २९॥ प्रयाणोत्सवकाले तु समारम्भे प्रगायनम् । गुणाद्यारम्भकाले हि वर्त्तते शिवशङ्कर ॥ ३०॥ इन्द्राणीकोटयः सन्ति तस्याः प्रसवबिन्दुतः । ब्रह्माणी वैष्णवी चैव माहेशी कोटिकोटयः ॥ ३१॥ तव सामरसानन्द दर्शनार्थं समुद्भवाः । सञ्जाताश्चाग्रतो देव चास्माकं सौख्यसागर ॥ ३२॥ रतिं हित्वा कामिनीनां नाऽन्यत् सौख्यं महेश्वर । सा रतिर्दृश्यतेऽस्माभिर्महत्सौख्यार्थकारिका ॥ ३३॥ एवमेतत्तु चास्माभिः कर्तव्यं भर्तृणा सह । एवं श्रुत्वा महादेवो ध्यानावस्थितमानसः ॥ ३४॥ ध्यानं हित्वा मायया तु प्रोवाच कालिकां प्रति । कालि कालि रुण्डमाले प्रिये भैरववादिनी ॥ ३५॥ शिवारूपधरे क्रूरे घोरद्रंष्टे भयानके । त्रैलोक्यसुन्दरकरी सुन्दर्य्यः सन्ति मेऽग्रतः ॥ ३६॥ सुन्दरीवीक्षणं कर्म कुरु कालि प्रिये शिवे । ध्यानं मुञ्च महादेवि ता गच्छन्ति गृहं प्रति ॥ ३७॥ तव रूपं महाकालि महाकालप्रियङ्करम् । एतासां सुन्दरं रूपं त्रैलोक्यप्रियकारकम् ॥ ३८॥ एवं मायाभ्रमाविष्टो महाकालो वदन्निति । इति कालवचः श्रुत्वा कालं प्राह च कालिका ॥ ३९॥ माययाऽऽच्छाद्य चात्मानं निजस्त्रीरूपधारिणी । इतः प्रभृति स्त्रीमात्रं भविष्यति युगे युगे ॥ ४०॥ वल्ल्याद्यौषधयो देवि दिवा वल्लीस्वरूपताम् । रात्रौ स्त्रीरूपमासाद्य रतिकेलिः परस्परम् ॥ ४१॥ अज्ञानं चैव सर्वेषां भविष्यति युगे युगे । एवं शापं च दत्वा तु पुनः प्रोवाच कालिका ॥ ४२॥ विपरीतरतिं कृत्वा चिन्तयन्ति मनन्ति ये । तेषां वरं प्रदास्यामि नित्यं तत्र वसाम्यहम् ॥ ४३॥ इत्युक्त्वा कालिका विद्या तत्रैवान्तरधीयत । त्रिंशत्-त्रिखर्व-षड्वृन्द-नवत्यर्बुदकोटयः ॥ ४४॥ दर्शनार्थं तपस्तेपे सा वै कुत्र गता प्रिया । मम प्राणप्रिया देवी हाहा प्राणप्रिये शिवे ॥ ४५॥ किं करोमि क्व गच्छामि इत्येवं भ्रमसङ्कुलः । तस्याः काल्या दया जाता मम चिन्तापरः शिवः ॥ ४६॥ यन्त्रप्रस्तारबुद्धिस्तु काल्या दत्तातिसत्वरम् । यन्त्रयागं तदारभ्य पूर्वं चिद्घनगोचरा ॥ ४७॥ श्रीचक्रं यन्त्रप्रस्ताररचनाभ्यासतत्परः । इतस्ततो भ्रम्यमाणस्त्रैलोक्यं चक्रमध्यकम् ॥ ४८॥ चक्रपारदर्शनार्थं कोट्यर्बुदयुगं गतम् । भक्तप्राणप्रिया देवी महाश्रीचक्रनायिका ॥ ४९॥ तत्र बिन्दौ परं रूपं सुन्दरं सुमनोहरम् । रूपं जातं महेशानि जाग्रत्त्रिपुरसुन्दरि ॥ ५०॥ रूपं दृष्ट्वा महादेवो राजराजेश्वरोऽभवत् । तस्याः कटाक्षमात्रेण तस्या रूपधरः शिवः ॥ ५१॥ विना श‍ृङ्गारसंयुक्ता तदा जाता महेश्वरी । विना काल्यंशतो देवि जगत्स्थावरजङ्गमम् ॥ ५२॥ न श‍ृङ्गारो न शक्तित्वं क्वापि नास्ति महेश्वरी । सुन्दर्य्या प्रार्थिता काली तुष्टा प्रोवाच कालिका ॥ ५३॥ सर्वासां नेत्रकेशेषु ममांशोऽत्र भविष्यति । पूर्वावस्थासु देवेशि ममांशस्तिष्ठति प्रिये ॥ ५४॥ सावस्था तरुणाख्या तु तदन्ते नैव तिष्ठति । मद्भक्तानां महेशानि सदा तिष्ठति निश्चितम् ॥ ५५॥ शक्तिस्तु कुण्ठिता जाता तथा रूपं न सुन्दरम् । चिन्ताविष्टा तु मलिना जाता तत्र च सुन्दरी ॥ ५६॥ क्षणं स्थित्वा ध्यानपरा काली चिन्तनतत्परा । तदा काली प्रसन्नाऽभूत् क्षणार्द्धेन महेश्वरी ॥ ५७॥ वरं ब्रूहि वरं ब्रूहि वरं ब्रूहीति सादरम् । सुन्दर्युवाच । मम सिद्धिवरं देहि वरोऽयं प्रार्थ्यते मया ॥ ५८॥ तादृगुपायं कथय येन शक्तिर्भविष्यति । श्रीकाल्युवाच । मम नामसाहस्रं च मया पूर्वं विनिर्मितम् ॥ ५९॥ मत्स्वरूपं ककाराख्यं मेधासाम्राज्यनामकम् । वरदानाभिधं नाम क्षणार्द्धाद्वरदायकम् ॥ ६०॥ तत्पठस्व महामाये तव शक्तिर्भविष्यति । ततः प्रभृति श्रीविद्या तन्नामपाठतत्परा ॥ ६१॥ तदेव नामसाहस्रं सुन्दरीशक्तिदायकम् । कथ्यते परया भक्त्या साधये सुमहेश्वरि ॥ ६२॥ मद्येर्मांसैस्तथा शुक्रैर्बहुरक्तैरपि प्रिये । तर्पयेत् पूजयेत् कालीं विपरीतरतिं चरेत् ॥ ६३॥ विपरीतरतौ देवि काली तिष्ठति नित्यशः । माध्वीकपुष्पशुक्रान्नमैथुनाद्या विरागिणी ॥ ६४॥ वैष्णवी व्यापिका विद्या श्मशानवासिनी परा । वीरसाधनसन्तुष्टा वीरास्फालननादिनी ॥ ६५॥ शिवाबलिप्रहृष्टात्मा शिवारूपाद्यचण्डिका । कामस्तोत्रप्रियात्युग्रमानसा कामरूपिणी ॥ ६६॥ ब्रह्मानन्दपरा शम्भु मैथुनानन्दतोषिता । योगीन्द्रहृदयागारा दिवा निशि विपर्यया ॥ ६७॥ क्षणं तुष्टा च प्रत्यक्षा दन्तमालाजपप्रिया । शय्यायां चुम्बनाङ्गः सन् वेश्यासङ्गपरायणः ॥ ६८॥ खड्गहस्तो मुक्तकेशो दिगम्बरविभूषितः । पठेन्नामसहस्राख्यं मेधासाम्राज्यनामकम् ॥ ६९॥ यथा दिव्यामृतैर्देवाः प्रसन्ना क्षणमात्रतः । तथाऽनेन महाकाली प्रसन्ना पाठमात्रतः ॥ ७०॥ कथ्यते नामसाहस्रं सावधानमनाः श‍ृणु । सर्वसाम्राज्यमेधाख्यनामसाहस्रकस्य च ॥ ७१॥ महाकाल ऋषिः प्रोक्त उष्णिक्छन्दः प्रकीर्तितम् । देवता दक्षिणा काली मायाबीजं प्रकीर्तितम् ॥ ७२॥ ह्रूँ शक्तिः कालिकाबीजं कीलकं परिकीर्तितम् । कालिका वरदानादि-स्वेष्टार्थे विनियोगतः ॥ ७३॥ कीलकेन षडङ्गानि षड्दीर्घाबीजेन कारयेत् । ध्यानं च पूर्ववत्कृत्वा साधयेदिष्टसाधनम् ॥ ७४॥ ॐ अस्य श्रीसर्वसाम्राज्यमेधाकालीस्वरूप- ककारात्मकसहस्रनामस्तोत्रमन्त्रस्य महाकाल- ऋषिरुष्णिक्छन्दः, श्रीदक्षिणकाली देवता, ह्रीं बीजम्, ह्रूँ शक्तिः, क्रीं कीलकं, कालीवरदानादिस्वेष्टार्थे जपे विनियोगः । ॐ महाकाल ऋषये नमः शिरसि । उष्णिक्छन्दसे नमः मुखे । श्री दक्षिणकालीदेवतायै नमः हृदये । ह्रीं बीजाय नमः गुह्ये । ह्रूँ शक्तये नमः पादयोः । क्रीं कीलकाय नमः नाभौ । विनियोगायनमः सर्वाङ्गे । इति ऋष्यादिन्यासः । ॐ क्रां अङ्गुष्ठाभ्यां नमः । ॐ क्रीं तर्जनीभ्यां नमः । ॐ क्रूं मध्यमाभ्यां नमः । ॐ क्रैं अनामिकाभ्यां नमः । ॐ क्रौं कनिष्ठिकाभ्यां नमः । ॐ क्रः करतलकरपृष्ठाभ्यां नमः । इति कराङ्गन्यासः । ॐ क्रां हृदयाय नमः । ॐ क्रीं शिरसे स्वाहा । ॐ क्रूं शिखायै वषट् । ॐ क्रैं कवचाय हुं । ॐ क्रौं नेत्रत्रयाय वौषट् । ॐ क्रः अस्त्राय फट् । इति हृदयादि षडङ्गन्यासः । अथ ध्यानम् । ॐ करालवदनां घोरां मुक्तकेशीं चतुर्भुजाम् । कालिकां दक्षिणां दिव्यां मुण्डमालाविभूषिताम् ॥ सद्यश्छिन्नशिरःखड्गवामोर्ध्वाधःकराम्बुजाम् । अभयं वरदं चैव दक्षिणाधोर्ध्वपाणिकाम् ॥ महामेघप्रभां श्यामां तथा चैव दिगम्बराम् । कण्ठावसक्तमुण्डालीगलद्रुधिरचर्चिताम् ॥ कर्णावतंसतानीतशवयुग्मभयानकाम् । घोरदंष्ट्राकरालास्यां पीनोन्नतपयोधराम् ॥ शवानां करसङ्घातैः कृतकाञ्चीं हसन्मुखीम् । सृक्कद्वयगलद्रक्तधाराविस्फुरिताननाम् ॥ घोररूपां महारौद्रीं श्मशानालयवासिनीम् । दन्तुरां दक्षिणव्यापिमुक्तलम्बकचोच्चयाम् ॥ शवरूपमहादेवहृदयोपरि संस्थिताम् । शिवाभिर्घोररूपाभिश्चतुर्दिक्षु समन्विताम् ॥ महाकालेन सार्धोर्धमुपविष्टरतातुराम् । सुखप्रसन्नवदनां स्मेराननसरोरुहाम् ॥ एवं सङ्चिन्तयेद्देवीं श्मशानालयवासिनीम् ॥ अथ सहस्रनामस्तोत्र प्रारम्भः । ॐ क्रीं काली क्रूँ कराली च कल्याणी कमला कला । कलावती कलाढ्या च कलापूज्या कलात्मिका ॥ १॥ कलादृष्टा कलापुष्टा कलामस्ता कलाधरा । कलाकोटि कलाभासा कलाकोटिप्रपूजिता ॥ २॥ कलाकर्मकलाधारा कलापारा कलागमा । कलाधारा कमलिनी ककारा करुणा कविः ॥ ३॥ ककारवर्णसर्वाङ्गी कलाकोटिविभूषिता । ककारकोटिगुणिता कलाकोटिविभूषणा ॥ ४॥ ककारवर्णहृदया ककारमनुमण्डिता । ककारवर्णनिलया काकशब्दपरायणा ॥ ५॥ ककारवर्णमुकुटा ककारवर्णभूषणा । ककारवर्णरूपा च ककशब्दपरायणा ॥ ६॥ ककवीरास्फालरता कमलाकरपूजिता । कमलाकरनाथा च कमलाकररूपधृक् ॥ ७॥ कमलाकरसिद्धिस्था कमलाकरपारदा । कमलाकरमध्यस्था कमलाकरतोषिता ॥ ८॥ कथङ्कारपरालापा कथङ्कारपरायणा । कथङ्कारपदान्तस्था कथङ्कारपदार्थभूः ॥ ९॥ कमलाक्षी कमलजा कमलाक्षप्रपूजिता । कमलाक्षवरोद्युक्ता ककारा कर्बुराक्षरा ॥ १०॥ करतारा करच्छिन्ना करश्यामा करार्णवा । करपूज्या कररता करदा करपूजिता ॥ ११॥ करतोया करामर्षा कर्मनाशा करप्रिया । करप्राणा करकजा करका करकान्तरा ॥ १२॥ करकाचलरूपा च करकाचलशोभिनी । करकाचलपुत्री च करकाचलतोषिता ॥ १३॥ करकाचलगेहस्था करकाचलरक्षिणी । करकाचलसम्मान्या करकाचलकारिणी ॥ १४॥ करकाचलवर्षाढ्या करकाचलरञ्जिता । करकाचलकान्तारा करकाचलमालिनी ॥ १५॥ करकाचलभोज्या च करकाचलरूपिणी । करामलकसंस्था च करामलकसिद्धिदा ॥ १६॥ करामलकसम्पूज्या करामलकतारिणी । करामलककाली च करामलकरोचिनी ॥ १७॥ करामलकमाता च करामलकसेविनी । करामलकबद्ध्येया करामलकदायिनी ॥ १८॥ कञ्जनेत्रा कञ्जगतिः कञ्जस्था कञ्जधारिणी । कञ्जमालाप्रियकरी कञ्जरूपा च कञ्जना ॥ १९॥ कञ्जजातिः कञ्जगतिः कञ्जहोमपरायणा । कञ्जमण्डलमध्यस्था कञ्जाभरणभूषिता ॥ २०॥ कञ्जसम्माननिरता कञ्जोत्पत्तिपरायणा । कञ्जराशिसमाकारा कञ्जारण्यनिवासिनी ॥ २१॥ करञ्जवृक्षमध्यस्था करञ्जवृक्षवासिनी । करञ्जफलभूषाढ्या करञ्जारण्यवासिनी ॥ २२॥ करञ्जमालाभरणा करवालपरायणा । करवालप्रहृष्टात्मा करवालप्रिया गतिः ॥ २३॥ करवालप्रिया कन्या करवालविहारिणी । करवालमयी कर्मा करवालप्रियङ्करी ॥ २४॥ कबन्धमालाभरणा कबन्धराशिमध्यगा । कबन्धकूटसंस्थाना कबन्धानन्तभूषणा ॥ २५॥ कबन्धनादसन्तुष्टा कबन्धासनधारिणी । कबन्धगृहमध्यस्था कबन्धवनवासिनी ॥ २६॥ कबन्धकाञ्चीकरणी कबन्धराशिभूषणा । कबन्धमालाजयदा कबन्धदेहवासिनी ॥ २७॥ कबन्धासनमान्या च कपालाकल्पधारिणी । कपालमालामध्यस्था कपालव्रततोषिता ॥ २८॥ कपालदीपसन्तुष्टा कपालदीपरूपिणी । कपालदीपवरदा कपालकज्जलस्थिता ॥ २९॥ कपालमालाजयदा कपालजपतोषिणी । कपालसिद्धिसंहृष्टा कपालभोजनोद्यता ॥ ३०॥ कपालव्रतसंस्थाना कपालकमलालया । कवित्वामृतसारा च कवित्वामृतसागरा ॥ ३१॥ कवित्वसिद्धिसंहृष्टा कवित्वादानकारिणी । कविपृज्या कविगतिः कविरूपा कविप्रिया ॥ ३२॥ कविब्रह्मानन्दरूपा कवित्वव्रततोषिता । कविमानससंस्थाना कविवाञ्च्छाप्रपूरिणी ॥ ३३॥ कविकण्ठस्थिता कं ह्रीं कंकंकं कविपूर्तिदा । कज्जला कज्जलादानमानसा कज्जलप्रिया ॥ ३४॥ कपालकज्जलसमा कज्जलेशप्रपूजिता । कज्जलार्णवमध्यस्था कज्जलानन्दरूपिणी ॥ ३५॥ कज्जलप्रियसन्तुष्टा कज्जलप्रियतोषिणी । कपालमालाभरणा कपालकरभूषणा ॥ ३६॥ कपालकरभूषाढ्या कपालचक्रमण्डिता । कपालकोटिनिलया कपालदुर्गकारिणी ॥ ३७॥ कपालगिरिसंस्थाना कपालचक्रवासिनी । कपालपात्रसन्तुष्टा कपालार्घ्यपरायणा ॥ ३८॥ कपालार्घ्यप्रियप्राणा कपालार्घ्यवरप्रदा । कपालचक्ररूपा च कपालरूपमात्रगा ॥ ३९॥ कदली कदलीरूपा कदलीवनवासिनी । कदलीपुष्पसम्प्रीता कदलीफलमानसा ॥ ४०॥ कदलीहोमसन्तुष्टा कदलीदर्शनोद्यता । कदलीगर्भमध्यस्था कदलीवनसुन्दरी ॥ ४१॥ कदम्बपुष्पनिलया कदम्बवनमध्यगा । कदम्बकुसुमामोदा कदम्बवनतोषिणी ॥ ४२॥ कदम्बपुष्पसम्पूज्या कदम्बपुष्पहोमदा । कदम्बपुष्पमध्यस्था कदम्बफलभोजिनी ॥ ४३॥ कदम्बकाननान्तःस्था कदम्बाचलवासिनी । कच्छपा कच्छपाराध्या कच्छपासनसंस्थिता ॥ ४४॥ कर्णपूरा कर्णनासा कर्णाढ्या कालभैरवी । कलप्रीता कलहदा कलहा कलहातुरा ॥ ४५॥ कर्णयक्षी कर्णवार्ता कथिनी कर्णसुन्दरी । कर्णपिशाचिनी कर्णमञ्जरी कविकक्षदा ॥ ४६॥ कविकक्षाविरूपाढ्या कविकक्षस्वरूपिणी । कस्तूरीमृगसंस्थाना कस्तूरीमृगरूपिणी ॥ ४७॥ कस्तूरीमृगसन्तोषा कस्तूरीमृगमध्यगा । कस्तूरीरसनीलाङ्गी कस्तूरीगन्धतोषिता ॥ ४८॥ कस्तूरीपूजकप्राणा कस्तूरीपूजकप्रिया । कस्तूरीप्रेमसन्तुष्टा कस्तूरीप्राणधारिणी ॥ ४९॥ कस्तूरीपूजकानन्दा कस्तूरीगन्धरूपिणी । कस्तूरीमालिकारूपा कस्तूरीभोजनप्रिया ॥ ५०॥ कस्तूरीतिलकानन्दा कस्तूरीतिलकप्रिया । कस्तूरीहोमसन्तुष्टा कस्तूरीतर्पणोद्यता ॥ ५१॥ कस्तूरीमार्जनोद्युक्ता कस्तूरीचक्रपूजिता । कस्तूरीपुष्पसम्पूज्या कस्तूरीचर्वणोद्यता ॥ ५२॥ कस्तूरीगर्भमध्यस्था कस्तूरीवस्त्रधारिणी । कस्तूरीकामोदरता कस्तूरीवनवासिनी ॥ ५३॥ कस्तूरीवनसंरक्षा कस्तूरीप्रेमधारिणी । कस्तूरीशक्तिनिलया कस्तूरीशक्तिकुण्डगा ॥ ५४॥ कस्तूरीकुण्डसंस्नाता कस्तूरीकुण्डमज्जना । कस्तूरीजीवसन्तुष्टा कस्तूरीजीवधारिणी ॥ ५५॥ कस्तूरीपरमामोदा कस्तूरीजीवनक्षमा । कस्तूरीजातिभावस्था कस्तूरीगन्धचुम्बना ॥ ५६॥ कसतूरीगन्धसंशोभाविराजितकपालभूः । कस्तूरीमदनान्तःस्था कस्तूरीमदहर्षदा ॥ ५७॥ कस्तूरीकवितानाढ्या कस्तूरीगृहमध्यगा । कस्तूरीस्पर्शकप्राणा कस्तूरीविन्दकान्तका ॥ ५८॥ कस्तूर्य्यामोदरसिका कस्तूरीक्रीडनोद्यता । कस्तूरीदाननिरता कस्तूरीवरदायिनी ॥ ५९॥ कस्तूरीस्थापनासक्ता कस्तूरीस्थानरञ्जिनी । कस्तूरीकुशलप्रश्ना कस्तूरीस्तुतिवन्दिता ॥ ६०॥ कस्तूरीवन्दकाराध्या कस्तूरीस्थानवासिनी । कहरूपा कहाढ्या च कहानन्दा कहात्मभूः ॥ ६१॥ कहपूज्या कहाख्या च कहहेया कहात्मिका । कहमालाकण्ठभूषा कहमन्त्रजपोद्यता ॥ ६२॥ कहनामस्मृतिपरा कहनामपरायणा । कहपरायणरता कहदेवी कहेश्वरी ॥ ६३॥ कहहेतु कहानन्दा कहनादपरायणा । कहमाता कहान्तःस्था कहमन्त्रा कहेश्वरी ॥ ६४॥ कहज्ञेया कहाराध्या कहध्यानपरायणा । कहतन्त्रा कहकहा कहचर्य्यापरायणा ॥ ६५॥ कहाचारा कहगतिः कहताण्डवकारिणी । कहारण्या कहरतिः कहशक्तिपरायणा ॥ ६६॥ कहराज्यनता कर्मसाक्षिणी कर्मसुन्दरी । कर्मविद्या कर्मगतिः कर्मतन्त्रपरायणा ॥ ६७॥ कर्ममात्रा कर्मगात्रा कर्मधर्मपरायणा । कर्मरेखानाशकर्त्री कर्मरेखाविनोदिनी ॥ ६८॥ कर्मरेखामोहकरी कर्मकीर्तिपरायणा । कर्मविद्या कर्मसारा कर्माधारा च कर्मभूः ॥ ६९॥ कर्मकारी कर्महारी कर्मकौतुकसुन्दरी । कर्मकाली कर्मतारा कर्मच्छिन्ना च कर्मदा ॥ ७०॥ कर्मचाण्डालिनी कर्मवेदमाता च कर्मभूः । कर्मकाण्डरतानन्ता कर्मकाण्डानुमानिता ॥ ७१॥ कर्मकाण्डपरीणाहा कमठी कमठाकृतिः । कमठाराध्यहृदया कमठाकण्ठसुन्दरी ॥ ७२॥ कमठासनसंसेव्या कमठी कर्मतत्परा । करुणाकरकान्ता च करुणाकरवन्दिता ॥ ७३॥ कठोरा करमाला च कठोरकुचधारिणी । कपर्दिनी कपटिनी कठिना कङ्कभूषणा ॥ ७४॥ करभोरूः कठिनदा करभा करभालया । कलभाषामयी कल्पा कल्पना कल्पदायिनी ॥ ७५॥ कमलस्था कलामाला कमलास्या क्कणत्प्रभा । ककुद्मिनी कष्टवती करणीयकथार्चिता ॥ ७६॥ कचार्चिता कचतनुः कचसुन्दरधारिणी । कठोरकुचसंलग्ना कटिसूत्रविराजिता ॥ ७७॥ कर्णमक्षप्रिया कन्दा कथाकन्दगतिः कलिः । कलिघ्नी कलिदूती च कविनायक-पूजिता ॥ ७८॥ कणकक्षानियन्त्री च कश्चित्कविवरार्चिता । कर्त्री च कर्तृका भूषाकारिणी कर्णशत्रुपा ॥ ७९॥ करणेशी करणपा कलवाचा कलानिधिः । कलना कलनाधारा कलना कारिका करा ॥ ८०॥ कलगेया कर्कराशिः कर्कराशि-प्रपूजिता । कन्याराशिः कन्यका च कन्यकाप्रियभाषिणी ॥ ८१॥ कन्यकादानसन्तुष्टा कन्यकादानतोषिणी । कन्यादानकरानन्दा कन्यादानग्रहेष्टदा ॥ ८२॥ कर्षणा कक्षदहना कामिता कमलासना । करमालानन्दकर्त्री करमालाप्रपोषिता ॥ ८३॥ करमालाशयानन्दा करमालासमागमा । करमालासिद्धिदात्री करमालाकरप्रिया ॥ ८४॥ करप्रिया कररता करदानपरायणा । कलानन्दा कलिगतिः कलिपूज्या कलिप्रसूः ॥ ८५॥ कलनादनिनादस्था कलनादवरप्रदा । कलनादसमाजस्था कहोला च कहोलदा ॥ ८६॥ कहोलगेहमध्यस्था कहोलवरदायिनी । कहोलकविताधारा कहोलऋषिमानिता ॥ ८७॥ कहोलमानसाराध्या कहोलवाक्यकारिणी । कर्तृरूपा कर्तृमयी कर्तृमाता च कर्तरी ॥ ८८॥ कनीया कनकाराध्या कनीनकमयी तथा । कनीयानन्दनिलया कनकानन्दतोषिता ॥ ८९॥ कनीयककराकाष्ठा कथार्णवकरी करी । करिगम्या करिगतिः करिध्वजपरायणा ॥ ९०॥ करिनाथप्रियाकण्ठा कथानकप्रतोषिता । कमनीया कमनका कमनीयविभूषणा ॥ ९१॥ कमनीयसमाजस्था कमनीयव्रतप्रिया । कमनीयगुणाराध्या कपिला कपिलेश्वरी ॥ ९२॥ कपिलाराध्यहृदया कपिलाप्रियवादिनी । कहचक्रमन्त्रवर्णा कहचक्रप्रसूनका ॥ ९३॥ कए‍ईलह्रींस्वरूपा च कए‍ईलह्रींवरप्रदा । कए‍ईलह्रींसिद्धिदात्री कए‍ईलह्रींस्वरूपिणी ॥ ९४॥ कए‍ईलह्रींमन्त्रवर्णा कए‍ईलह्रींप्रसूकला । कवर्गा च कपाटस्था कपाटोद्घाटनक्षमा ॥ ९५॥ कङ्काली च कपाली च कङ्कालप्रियभाषिणी । कङ्कालभैरवाराध्या कङ्कालमानसंस्थिता ॥ ९६॥ कङ्कालमोहनिरता कङ्कालमोहदायिनी । कलुषघ्नी कलुषहा कलुषार्तिविनाशिनी ॥ ९७॥ कलिपुष्पा कलादाना कशिपुः कश्यपार्चिता । कश्यपा कश्यपाराध्या कलिपूर्णकलेवरा ॥ ९८॥ कलेश्वरकरी काञ्ची कवर्गा च करालका । करालभैरवाराध्या करालभैरवेश्वरी ॥ ९९॥ कराला कलनाधारा कपर्दीशवरप्रदा । कपर्दीशप्रेमलता कपर्दिमालिकायुता ॥ १००॥ कपर्दिजपमालाढ्या करवीरप्रसूनदा । करवीरप्रियप्राणा करवीरप्रपूजिता ॥ १०१॥ कर्णिकारसमाकारा कर्णिकारप्रपूजिता । करिषाग्निस्थिता कर्षा कर्षमात्रसुवर्णदा ॥ १०२॥ कलशा कलशाराध्या कषाया करिगानदा । कपिला कलकण्ठी च कलिकल्पलता मता ॥ १०३॥ कल्पलता कल्पमाता कल्पकारी च कल्पभूः । कर्पूरामोदरुचिरा कर्पूरामोदधारिणी ॥ १०४॥ कर्पूरमालाभरणा कर्पूरवासपूर्तिदा । कर्पूरमालाजयदा कर्पूरार्णवमध्यगा ॥ १०५॥ कर्पूरतर्पणरता कटकाम्बरधारिणी । कपटेश्ववरसम्पूज्या कपटेश्वररूपिणी ॥ १०६॥ कटुः कपिध्वजाराध्या कलापपुष्पधारिणी । कलापपुष्परुचिरा कलापपुष्पपूजिता ॥ १०७॥ क्रकचा क्रकचाराध्या कथम्ब्रूमा करालता । कथङ्कारविनिर्मुक्ता काली कालक्रिया क्रतुः ॥ १०८॥ कामिनी कामिनीपूज्या कामिनीपुष्पधारिणी । कामिनीपुष्पनिलया कामिनीपुष्पपूर्णिमा ॥ १०९॥ कामिनीपुष्पपूजार्हा कामिनीपुष्पभूषणा । कामिनीपुष्पतिलका कामिनीकुण्डचुम्बना ॥ ११०॥ कामिनीयोगसन्तुष्टा कामिनीयोगभोगदा । कामिनीकुण्डसम्मग्ना कामिनीकुण्डमध्यगा ॥ १११॥ कामिनीमानसाराध्या कामिनीमानतोषिता । कामिनीमानसञ्चारा कालिका कालकालिका ॥ ११२॥ कामा च कामदेवी च कामेशी कामसम्भवा । कामभावा कामरता कामार्ता काममञ्जरी ॥ ११३॥ काममञ्जीररणिता कामदेवप्रियान्तरा । कामकाली कामकला कालिका कमलार्चिता ॥ ११४॥ कादिका कमला काली कालानलसमप्रभा । कल्पान्तदहना कान्ता कान्तारप्रियवासिनी ॥ ११५॥ कालपूज्या कालरता कालमाता च कालिनी । कालवीरा कालघोरा कालसिद्धा च कालदा ॥ ११६॥ कालञ्जनसमाकारा कालञ्जरनिवासिनी । कालऋद्धिः कालवृद्धिः कारागृहविमोचिनी ॥ ११७॥ कादिविद्या कादिमाता कादिस्था कादिसुन्दरी । काशी काञ्ची च काञ्चीशा काशीशवरदायिनी ॥ ११८॥ क्रां बीजा चैव क्रीं बीजा हृदयाय नमस्स्मृता । काम्या काम्यगतिः काम्यसिद्धिदात्री च कामभूः ॥ ११९॥ कामाख्या कामरूपा च कामचापविमोचिनी । कामदेवकलारामा कामदेवकलालया ॥ १२०॥ कामरात्रिः कामदात्री कान्ताराचलवासिनी । कामरूपा कालगतिः कामयोगपरायणा ॥ १२१॥ कामसम्मर्दनरता कामगेहविकासिनी । कालभैरवभार्या च कालभैरवकामिनी ॥ १२२॥ कालभैरवयोगस्था कालभैरवभोगदा । कामधेनुः कामदोग्ध्री काममाता च कान्तिदा ॥ १२३॥ कामुका कामुकाराध्या कामुकानन्दवर्द्धिनी । कार्त्तवीर्य्या कार्त्तिकेया कार्त्तिकेयप्रपूजिता ॥ १२४॥ कार्य्या कारणदा कार्य्यकारिणी कारणान्तरा । कान्तिगम्या कान्तिमयी कात्या कात्यायनी च का ॥ १२५॥ कामसारा च काश्मीरा काश्मीराचारतत्परा । कामरूपाचाररता कामरूपप्रियंवदा ॥ १२६॥ कामरूपाचारसिद्धिः कामरूपमनोमयी । कार्त्तिकी कार्त्तिकाराध्या काञ्चनारप्रसूनभूः ॥ १२७॥ काञ्चनारप्रसूनाभा काञ्चनारप्रपूजिता । काञ्चरूपा काञ्चभूमिः कांस्यपात्रप्रभोजिनी ॥ १२८॥ कांस्यध्वनिमयी कामसुन्दरी कामचुम्बना । काशपुष्पप्रतीकाशा कामद्रुमसमागमा ॥ १२९॥ कामपुष्पा कामभूमिः कामपूज्या च कामदा । कामदेहा कामगेहा कामबीजपरायणा ॥ १३०॥ कामध्वजसमारूढा कामध्वजसमास्थिता । काश्यपी काश्यपाराध्या काश्यपानन्ददायिनी ॥ १३१॥ कालिन्दीजलसङ्काशा कालिन्दीजलपूजिता । कादेवपूजानिरता कादेवपरमार्थदा ॥ १३२॥ कर्मणा कर्मणाकारा कामकर्मणकारिणी । कार्म्मणत्रोटनकरी काकिनी कारणाह्वया ॥ १३३॥ काव्यामृता च कालिङ्गा कालिङ्गमर्दनोद्यता । कालागरुविभूषाढ्या कालागरुविभूतिदा ॥ १३४॥ कालागरुसुगन्धा च कालागरुप्रतर्पणा । कावेरीनीरसम्प्रीता कावेरीतीरवासिनी ॥ १३५॥ कालचक्रभ्रमाकारा कालचक्रनिवासिनी । कानना काननाधारा कारुः कारुणिकामयी ॥ १३६॥ काम्पिल्यवासिनी काष्ठा कामपत्नी च कामभूः । कादम्बरीपानरता तथा कादम्बरीकला ॥ १३७॥ कामवन्द्या च कामेशी कामराजप्रपूजिता । कामराजेश्वरीविद्या कामकौतुकसुन्दरी ॥ १३८॥ काम्बोजजा काञ्छिनदा कांस्यकाञ्चनकारिणी । काञ्चनाद्रिसमाकारा काञ्चनाद्रिप्रदानदा ॥ १३९॥ कामकीर्तिः कामकेशी कारिका कान्तराश्रया । कामभेदी च कामार्तिनाशिनी कामभूमिका ॥ १४०॥ कालानलाशिनी काव्यवनिता कामरूपिणी । कायस्था कामसन्दीप्तिः काव्यदा कालसुन्दरी ॥ १४१॥ कामेशी कारणवरा कामेशीपूजनोद्यता । काञ्ची-नूपुरभूषाढ्या-कुङ्कुमाभरणान्विता ॥ १४२॥ कालचक्रा कालगतिः कालचक्रामनोभवा । कुन्दमध्या कुन्दपुष्पा कुन्दपुष्पप्रिया कुजा ॥ १४३॥ कुजमाता कुजाराध्या कुठारवरधारिणी । कुञ्चरस्था कुशरता कुशेशयविलोचना ॥ १४४॥ कुमठी कुररी कुद्रा कुरङ्गी कुटजाश्रया । कुम्भीनसविभूषा च कुम्भीनसवधोद्यता ॥ १४५॥ कुम्भकर्णमनोल्लासा कुलचूडामणिः कुला । कुलालगृहकन्या च कुलचूडामणिप्रिया ॥ १४६॥ कुलपूज्या कुलाराध्या कुलपूजापरायणा । कुलभूषा तथा कुक्षिः कुररीगणसेविता ॥ १४७॥ कुलपुष्पा कुलरता कुलपुष्पपरायणा । कुलवस्त्रा कुलाराध्या कुलकुण्डसमप्रभा ॥ १४८॥ कुलकुण्डसमोल्लासा कुण्डपुष्पपरायणा । कुण्डपुष्पप्रसन्नास्या कुण्डगोलोद्भवात्मिका ॥ १४९॥ कुण्डगोलोद्भवाधारा कुण्डगोलमयी कुहूः । कुण्डगोलप्रियप्राणा कुण्डगोलप्रपूजिता ॥ १५०॥ कुण्डगोलमनोल्लासा कुण्डगोलबलप्रदा । कुण्डदेवरता क्रुद्धा कुलसिद्धिकरा परा ॥ १५१॥ कुलकुण्डसमाकारा कुलकुण्डसमानभूः । कुण्डसिद्धिः कुण्डऋद्धिः कुमारीपूजनोद्यता ॥ १५२॥ कुमारीपूजकप्राणा कुमारीपूजकालया । कुमारीकामसन्तुष्टा कुमारीपूजनोत्सुका ॥ १५३॥ कुमारीव्रतसन्तुष्टा कुमारीरूपधारिणी । कुमारीभोजनप्रीता कुमारी च कुमारदा ॥ १५४॥ कुमारमाता कुलदा कुलयोनिः कुलेश्वरी । कुललिङ्गा कुलानन्दा कुलरम्या कुतर्कधृक् ॥ १५५॥ कुन्ती च कुलकान्ता च कुलमार्गपरायणा । कुल्ला च कुरुकुल्ला च कुल्लुका कुलकामदा ॥ १५६॥ कुलिशाङ्गी कुब्जिका च कुब्जिकानन्दवर्द्धिनी । कुलीना कुञ्जरगतिः कुञ्जरेश्वरगामिनी ॥ १५७॥ कुलपाली कुलवती तथैव कुलदीपिका । कुलयोगेश्वरी कुण्डा कुङ्कुमारुणविग्रहा ॥ १५८॥ कुङ्कुमानन्दसन्तोषा कुङ्कुमार्णववासिनी । कुसुमा कुसुमप्रीता कुलभूः कुलसुन्दरी ॥ १५९॥ कुमुद्वती कुमुदिनी कुशला कुलटालया । कुलटालयमध्यस्था कुलटासङ्गतोषिता ॥ १६०॥ कुलटाभवनोद्युक्ता कुशावर्ता कुलार्णवा । कुलार्णवाचाररता कुण्डली कुण्डलाकृतिः ॥ १६१॥ कुमतिश्च कुलश्रेष्ठा कुलचक्रपरायणा । कूटस्था कूटदृष्टिश्च कुन्तला कुन्तलाकृतिः ॥ १६२॥ कुशलाकृतिरूपा च कूर्चबीजधरा च कूः । कुं कुं कुं कुं शब्दरता क्रूं क्रूं क्रूं क्रूं परायणा ॥ १६३॥ कुं कुं कुं शब्दनिलया कुक्कुरालयवासिनी । कुक्कुरासङ्गसंयुक्ता कुक्कुरानन्तविग्रहा ॥ १६४॥ कूर्चारम्भा कूर्चबीजा कूर्चजापपरायणा । कुलिनी कुलसंस्थाना कूर्चकण्ठपरागतिः ॥ १६५॥ कूर्चवीणाभालदेशा कूर्चमस्तकभूषिता । कुलवृक्षगता कूर्मा कूर्माचलनिवासिनी ॥ १६६॥ कुलबिन्दुः कुलशिवा कुलशक्तिपरायणा । कुलबिन्दुमणिप्रख्या कुङ्कुमद्रुमवासिनी ॥ १६७॥ कुचमर्दनसन्तुष्टा कुचजापपरायणा । कुचस्पर्शनसन्तुष्टा कुचालिङ्गनहर्षदा ॥ १६८॥ कुमतिघ्नी कुबेरार्च्या कुचभूः कुलनायिका । कुगायना कुचधरा कुमाता कुन्ददन्तिनी ॥ १६९॥ कुगेया कुहराभासा कुगेया कुघ्नदारिभा । कीर्तिः किरातिनी क्लिन्ना किन्नरा किन्नरीक्रिया ॥ १७०॥ क्रीङ्कारा क्रीञ्जपासक्ता क्रीं हूँ स्त्रीं मन्त्ररूपिणी । किर्मीरितदृशापाङ्गी किशोरी च किरीटिनी ॥ १७१॥ कीटभाषा कीटयोनिः कीटमाता च कीटदा । किंशुका कीरभाषा च क्रियासारा क्रियावती ॥ १७२॥ कींकींशब्दपरा क्लां क्लीं क्लूँ क्लैं क्लौं मन्त्ररूपिणी । काँ कीं कूँ कैं स्वरूपा च कः फट् मन्त्रस्वरूपिणी ॥ १७३॥ केतकीभूषणानन्दा केतकीभरणान्विता । कैकदा केशिनी केशी केशीसूदनतत्परा ॥ १७४॥ केशरूपा केशमुक्ता कैकेयी कौशिकी तथा । कैरवा कैरवाह्लादा केशरा केतुरूपिणी ॥ १७५॥ केशवाराध्यहृदया केशवासक्तमानसा । क्लैब्यविनाशिनी क्लैं च क्लैं बीजजपतोषिता ॥ १७६॥ कौशल्या कोशलाक्षी च कोशा च कोमला तथा । कोलापुरनिवासा च कोलासुरविनाशिनी ॥ १७७॥ कोटिरूपा कोटिरता क्रोधिनी क्रोधरूपिणी । केका च कोकिला कोटिः कोटिमन्त्रपरायणा ॥ १७८॥ कोट्यानन्तमन्त्रयुक्ता कैरूपा केरलाश्रया । केरलाचारनिपुणा केरलेन्द्रगृहस्थिता ॥ १७९॥ केदाराश्रमसंस्था च केदारेश्वरपूजिता । क्रोधरूपा क्रोधपदा क्रोधमाता च कौशिकी ॥ १८०॥ कोदण्डधारिणी क्रौञ्चा कौशल्या कौलमार्गगा । कौलिनी कौलिकाराध्या कौलिकागारवासिनी ॥ १८१॥ कौतुकी कौमुदी कौला कुमारी कौरवार्चिता । कौण्डिन्या कौशिकी क्रोधा ज्वालाभासुररूपिणी ॥ १८२॥ कोटिकालानलज्वाला कोटिमार्त्तण्डविग्रहा । कृत्तिका कृष्णवर्णा च कृष्णा कृत्या क्रियातुरा ॥ १८३॥ कृशाङ्गी कृतकृत्या च क्रः फट्स्वाहास्वरूपिणी । क्रौं क्रौं हूँ फट्मन्त्रवर्णा क्रां ह्रीं ह्रूँ फट्स्वरूपिणी ॥ १८४॥ क्रींक्रींह्रींह्रीं तथा ह्रूँ हूँफट्स्वाहामन्त्ररूपिणी । इति श्रीसर्वसाम्राज्यमेधानाम सहस्रकम् ॥ १८५॥ सुन्दरीशक्तिदानाख्यं स्वरूपार्भिधमेव च । कथितं दक्षिणाकाल्याः सुन्दर्यै प्रीतियोगतः ॥ १॥ वरदानप्रसङ्गेन रहस्यमपि दर्शितम् । गोपनीयं सदा भक्त्या पठनीयं परात्परम् ॥ २॥ प्रातर्मध्याह्नकाले च मध्यार्द्धरात्रयोरपि । यज्ञकाले जपान्ते च पठनीयं विशेषतः ॥ ३॥ यः पठेत् साधको धीरः कालीरूपो हि वर्षतः । पठेद्वा पाठयेद्वापि श‍ृणोति श्रावयेदपि ॥ ४॥ वाचकं तोषयेद्वापि स भवेत् कालिकातनुः । सहेलं वा सलीलं वा यश्चैनं मानवः पठेत् ॥ ५॥ सर्वदुःखविनिर्मुक्तस्त्रैलोक्यविजयी कविः । मृतवन्ध्या काकवन्ध्या कन्यावन्ध्या च वन्ध्यका ॥ ६॥ पुष्पवन्ध्या शूलवन्ध्या श‍ृणुयात् स्तोत्रमुत्तमम् । सर्वसिद्धिप्रदातारं सत्कविं चिरजीविनम् ॥ ७॥ पाण्डित्यकीर्तिसंयुक्तं लभते नात्र संशयः । यं यं काममुपस्कृत्य कालीं ध्यात्वा जपेत्स्तवम् ॥ ८॥ तं तं कामं करे कृत्वा मन्त्री भवति नाऽन्यथा । योनिपुष्पैर्लिङ्गपुष्पैः कुण्डगोलोद्भवैरपि ॥ ९॥ संयोगामृतपुष्पैश्च वस्त्रदेवीप्रसूनकैः । कालिपुष्पैः पीठतोयैर्योनिक्षालनतोयकैः ॥ १०॥ कस्तूरीकुङ्कुमैर्देवीं नखकालागरुक्रमात् । अष्टगन्धैर्धूपदीपर्यवयावकसंयुतैः ॥ ११॥ रक्तचन्दनसिन्दूरैर्मत्स्यमांसादिभूषणैः । मधुभिः पायसैः क्षीरैः शोधितैः शोणितैरपि ॥ १२॥ महोपचारै रक्तैश्च नैवेद्यैः सुरसान्वितैः । पूजयित्वा महाकालीं महाकालेन लालिताम् ॥ १३॥ विद्याराज्ञीं कुल्लुकाञ्च जप्त्वा स्तोत्रं जपेच्छिवे । कालीभक्तस्त्वेकचित्तः सिन्दूरतिलकान्वितः ॥ १४॥ ताम्बूलपूरितमुखो मुक्तकेशो दिगम्बरः । शवयोनिस्थितो वीरः श्मशानसुरतान्वितः ॥ १५॥ शून्यालये बिन्दुपीठे पुष्पाकीर्णे शिवानने । शयनोत्थप्रभुञ्जानः कालीदर्शनमाप्नुयात् ॥ १६॥ तत्र यद्यत्कृतं कर्म तदनन्तफलं भवेत् । ऐश्वर्ये कमला साक्षात् सिद्धौ श्रीकालिकाम्बिका ॥ १७॥ कवित्वे तारिणीतुल्यः सौन्दर्ये सुन्दरीसमः । सिन्धोर्द्धारासमः कार्ये श्रुतौ श्रुतिधरस्तथा ॥ १८॥ वज्रास्त्रमिव दुर्धर्षस्त्रैलोक्यविजयास्त्रभृत् । शत्रुहन्ता काव्यकर्ता भवेच्छिवसमः कलौ ॥ १९॥ दिग्विदिक्चन्द्रकर्ता च दिवारात्रिविपर्य्ययी । महादेवसमो योगी त्रैलोक्यस्तम्भकः क्षणात् ॥ २०॥ गानेन तुम्बुरुः साक्षाद्दाने कर्णसमो भवेत् । गजाऽश्वरथपत्तीनामस्त्राणामधिपः कृती ॥ २१॥ आयुष्येषु भुशुण्डी च जरापलितनाशकः । वर्षषोडशवान् भूयात् सर्वकाले महेश्वरी ॥ २२॥ ब्रह्माण्डगोले देवेशि न तस्य दुर्लभं क्वचित् । सर्वं हस्तगतं भूयान्नात्र कार्य्या विचारणा ॥ २३॥ कुलपुष्पयुतं दृष्ट्वा तत्र कालीं विचिन्त्य च । विद्याराज्ञीं तु सम्पूज्य पठेन्नामसहस्रकम् ॥ २४॥ मनोरथमयी सिद्धिस्तस्य हस्ते सदा भवेत् । परदारान् समालिङ्गय सम्पूज्य परमेश्वरीम् ॥ २५॥ हस्ताहस्तिकया योगं कृत्वा जप्त्वा स्तवं पठेत् । योनिं वीक्ष्य जपेत् स्तोत्रं कुबेरादधिको भवेत् ॥ २६॥ कुण्डगोलोद्भवं गृह्यवर्णाक्तं होमयेन्निशि । पितृभूमौ महेशानि विधिरेखां प्रमार्जयेत् ॥ २७॥ तरुणीं सुन्दरीं रम्यां चञ्चलां कामगर्विताम् । समानीय प्रयत्नेन संशोध्य न्यासयोगतः ॥ २८॥ प्रसूनमञ्चे संस्थाप्य पृथिवीं वशमानयेत् । मूलचक्रं तु सम्भाव्य देव्याश्चरणसंयुतम् ॥ २९॥ सम्मूज्य परमेशानीं सङ्कल्प्य तु महेश्वरि । जप्त्वा स्तुत्वा महेशानीं प्रणवं संस्मरेच्छिवे ॥ ३०॥ अष्टोत्तरशतैर्योनिं प्रमन्त्र्याचुम्ब्य यत्नतः । संयोगीभूय जप्तव्यं सर्वविद्याधिपो भवेत् ॥ ३१॥ शून्यागारे शिवारण्ये शिवदेवालये तथा । शून्यदेशे तडागे च गङ्गागर्भे चतुष्पथे ॥ ३२॥ श्मशाने पर्वतप्रान्ते एकलिङ्गे शिवामुखे । मुण्डयोनौ ऋतौ स्नात्वा गेहे वेश्यागृहे तथा ॥ ३३॥ कुट्टिनीगृहमध्ये च कदलीमण्डपे तथा । पठेत्सहस्रनामाख्यं स्तोत्रं सर्वार्थसिद्धये ॥ ३४॥ अरण्ये शून्यगर्ते च रणे शत्रुसमागमे । प्रजपेच्च ततो नाम काल्याश्चैव सहस्रकम् ॥ ३५॥ बालानन्दपरो भूत्वा पठित्वा कालिकास्तवम् । कालीं सञ्चिन्त्य प्रजपेत् पठेन्नामसहस्रकम् ॥ ३६॥ सर्वसिद्धीश्वरो भूयाद्वाञ्छासिद्धीश्वरो भवेत् । मुण्डचूडकयोर्योनि त्वचि वा कोमले शिवे ॥ ३७॥ विष्टरे शववस्त्रे वा पुष्पवस्त्रासनेऽपि वा । मुक्तकेशो दिशावासो मैथुनी शयने स्थितः ॥ ३८॥ जप्त्वाकालीं पठेत् स्तोत्रं खेचरीसिद्धिभाग् भवेत् । चिकुरं योगमासाद्य शुक्रोत्सारणमेव च ॥ ३९॥ जप्त्वा श्रीदक्षिणां कालीं शक्तिपातशतं भवेत् । लतां स्पृशन् जपित्वा च रमित्वा त्वर्चयन्नपि ॥ ४०॥ आह्लादयन्दिगावासः परशक्तिं विशेषतः । स्तुत्वा श्रीदक्षिणां कालीं योनिं स्वकरगाञ्चरेत् ॥ ४१॥ पठेन्नामसहस्रं यः स शिवादधिको भवेत् । लतान्तरेषु जप्तव्यं स्तुत्वा कालीं निराकुलः ॥ ४२॥ दशावधानो भवति मासमात्रेण साधकः । कालरात्र्यां महारात्र्यां वीररात्र्यामपि प्रिये ॥ ४३॥ महारात्र्यां चतुर्दश्यामष्टम्यां संक्रमेऽपि वा । कुहूपूर्णेन्दुशुक्रेषु भौमामायां निशामुखे ॥ ४४॥ नवम्यां मङ्गलदिने तथा कुलतिथौ शिवै । कुलक्षेत्रे प्रयत्नेन पठेन्नामसहस्रकम् ॥ ४५॥ सुदर्शनो भवेदाशु किन्नरीसिद्धिभाग्भवेत् । पश्मिमाभिमुखं लिङ्गं वृषशून्यं पुरातनम् ॥ ४६॥ तत्र स्थित्वा जपेत् स्तोत्रं सर्वकामाप्तये शिवे । भौमवारे निशीथे वा अमावस्यादिने शुभे ॥ ४७॥ माषभक्तबलिं छागं कृसरान्नं च पायसम् । दग्धमीनं शोणितञ्च दधि दुग्ध गुडार्द्रकम् ॥ ४८॥ बलिं दत्वा जपेत् तत्र त्वष्टोत्तरसहस्रकम् । देव-गन्धर्व-सिद्धौधैः सेवितां सुरसुन्दरीम् ॥ ४९॥ लभेद्देवेशि मासेन तस्य चासन संहतिः । हस्तत्रयं भवेदूर्ध्वं नात्र कार्या विचारणा ॥ ५०॥ हेलया लीलया भक्त्या कालीं स्तौति नरस्तु यः । ब्रह्मादींस्सतम्भयेद्देवि माहेशीं मोहयेत्क्षणात् ॥ ५१॥ आकर्षयेन्महाविद्यां दशपूर्वान् त्रियामतः । कुर्वीत विष्णुनिर्म्माणं यमादीनां तु मारणम् ॥ ५२॥ ध्रुवमुच्चाटयेन्नूनं सृष्टिनूतनतां नरः । मेषमाहिषमार्जारखरच्छागनरादिकैः ॥ ५३॥ खङ्गिशूकरकापोतैष्टिट्टिभैः शशकैः पलैः । शोणितैः सास्थिमांसैश्च कारण्डैर्दुग्धपायसैः ॥ ५४॥ कादम्बरीसिन्धुमद्यैः सुरारिष्टैश्च सासवैः । योनिक्षालिततोयैश्च योनिलिङ्गामृतैरपि ॥ ५५॥ स्वजातकुसुमैः पूज्या जपान्ते तर्पयेच्छिवाम् । सर्वसाम्राज्यनाम्ना तु स्तुत्वा नत्वा स्वशक्तितः ॥ ५६॥ शक्त्या लभन् पठेत् स्तोत्रं कालीरूपो दिनत्रयात् । दक्षिणाकालिका तस्य गेहे तिष्ठति नान्यथा ॥ ५७॥ वेश्यालतागृहे गत्वा तस्याश्चुम्बनतत्परः । तस्या योनौ मुखं दत्वा तद्रसं विलिहञ्जपेत् ॥ ५८॥ तदन्ते नाम साहस्रं पठेद्भक्तिपरायणः । कालिकादर्शनं तस्य भवेद्देवि त्रियामतः ॥ ५९॥ नृत्यपात्रगृहे गत्वा मकारपञ्चकान्वितः । प्रसूनमञ्चे संस्थाप्य शक्तिन्यासपरायणः ॥ ६०॥ पात्राणां साधनं कृत्वा दिग्वस्त्रां तां समाचरेत् । सम्भाव्य चक्रं तन्मूले तत्र सावरणां जपेत् ॥ ६१॥ शतं भाले शतं केशे शतं सिन्दूरमण्डले । शतत्रयं कुचद्वन्द्वे शतं नाभौ महेश्वरि ॥ ६२॥ शतं योनौ महेशानि संयोगे च शतत्रयम् । जपेत्तत्र महेशानि तदन्ते प्रपठेत्स्तवम् ॥ ६३॥ शतावधानो भवति मासमात्रेण साधकः । मातङ्गिनीं समानीय किं वा कापालिनीं शिवे ॥ ६४॥ दन्तमाला जपे कार्या गले धार्या नृमुण्डजा । नेत्रपद्मे योनिचक्रं शक्तिचक्रं स्ववक्त्रके ॥ ६५॥ कृत्वा जपेन्महेशानि मुण्डयन्त्रं प्रपूजयेत् । मुण्डासनस्थितो वीरो मकारपञ्चकान्वितः ॥ ६६॥ अन्यामालिङ्गय प्रजपेदन्यां सञ्चुम्ब्य वै पठेत् । अन्यां सम्पूजयेत्तत्र त्वन्यां सम्मर्द्दयन् जपेत् ॥ ६७॥ अन्ययोनौ शिवं दत्वा पुनः पूर्ववदाचरेत् । अवधानसहस्रेषु शक्तिपातशतेषु च ॥ ६८॥ राजा भवति देवेशि मासपञ्चकयोगतः । यवनीशक्तिमानीय गानशक्तिपरायणम् ॥ ६९॥ कुलाचारमतेनैव तस्या योनिं विकासयेत् । तत्र प्रदाय जिह्वां तु जपेन्नामसहस्रकम् ॥ ७०॥ नृकपाले तत्र दीपं जपेत्प्रज्वाल्य यत्नतः । महाकविवरो भूयान्नात्र कार्या विचारणा ॥ ७१॥ कामार्तां शक्तिमानीय योनौ तु मूलचक्रकम् । विलिख्य परमेशानि तत्र मन्त्रं लिखेच्छिवे ॥ ७२॥ तल्लिहन् प्रजपेद्देवि सर्वशास्त्रार्थतत्ववित् । अश्रुतानि च शास्त्राणि वेदादीन् पाठयेद् ध्रुवम् ॥ ७३॥ विना न्यासैर्विना पाठैर्विनाध्यानादिभिः प्रिये । चतुर्वेदाधिपो भूत्वा त्रिकालज्ञस्त्रिवर्षतः ॥ ७४॥ चतुर्विधं च पाण्डित्यं तस्य हस्तगतं क्षणात् । शिवाबलिः प्रदातव्यः सर्वदा शून्यमण्डले ॥ ७५॥ कालीध्यानं मन्त्रर्चिता नीलसाधनमेव च । सहस्रनामपाठश्च कालीनामप्रकीर्तनम् ॥ ७६॥ भक्तस्य कार्यमेतावदन्यदभ्युदयं विदुः । वीरसाधनकं कर्म शिवापूजा बलिस्तथा ॥ ७७॥ सिन्दूरतिलको देवि वेश्यालापो निरन्तरम् । वेश्यागृहे निशाचारो रात्रौ पर्यटनं तथा ॥ ७८॥ शक्तिपूजा योनिदृष्टिः खङ्गहस्तो दिगम्बरः । मुक्तकेशो वीरवेषः कुलमूर्तिधरो नरः ॥ ७९॥ कालीभक्तो भवेद्देवि नान्यथा क्षेममाप्नुयात् । दुग्धास्वादी योनिलेही संविदासवघूर्णितः ॥ ८०॥ वेश्यालतासमायोगान्मासात्कल्पलता स्वयम् । वेश्याचक्रसमायोगात्कालीचक्रसमः स्वयम् ॥ ८१॥ वेश्यादेहसमायोगात् कालीदेहसमः स्वयम् । वेश्यामध्यगतं वीरं कदा पश्यामि साधकम् ॥ ८२॥ एवं वदति सा काली तस्माद्वेश्या वरा मता । वेश्या कन्या तथा पीठजातिभेदकुलक्रमात् ॥ ८३॥ अकुलक्रमभेदेन ज्ञात्वा चापि कुमारिकाम् । कुमारीं पूजयेद्भक्त्या जपान्ते भवने प्रिये ॥ ८४॥ पठेन्नामसहस्रं यः कालीदर्शनभाग् भवेत् । भक्त्या कुमारीं सम्पूज्य वैश्याकुल समुद्भवाम् ॥ ८५॥ वस्त्र हेमादिभिस्तोष्या यत्नात्स्तोत्रं पठेच्छिवे । त्रैलोक्य विजयी भूयाद्दिवा चन्द्रप्रकाशकः ॥ ८६॥ यद्यद्दत्तं कुमार्यै तु तदनन्तफलं भवेत् । कुमारीपूजनफलं मया वक्तुं न शक्यते ॥ ८७॥ चाञ्चल्याद्दुरितं किञ्चित्क्षम्यतामयमञ्जलिः । एका चेत्पूजिता बाला द्वितीया पूजिता भवेत् ॥ ८८॥ कुमार्यः शक्तयश्चैव सर्वमेतचराचरम् । शक्तिमानीय तद्गात्रे न्यासजालं प्रविन्यसेत् ॥ ८९॥ वामभागे च संस्थाप्य जपेन्नामसहस्रकम् । सर्वसिद्धीश्वरो भूयान्नात्र कार्य्या विचारणा ॥ ९०॥ श्मशानस्थो भवेत्स्वस्थो गलितं चिकुरं चरेत् । दिगम्बरः सहस्रं च सूर्यपुष्पं समानयेत् ॥ ९१॥ स्ववीर्येण प्लुतं कृत्वा प्रत्येकं प्रजपन् हुनेत् । पूज्य ध्यात्वा महाभक्त्या क्षमापालो नरः पठेत् ॥ ९२॥ नखं केशं स्ववीर्यं च यद्यत्सम्मार्जनीगतम् । मुक्तकेशो दिशावासो मूलमन्त्रपुरःसरः ॥ ९३॥ कुजवारे मध्यरात्रे होमं कृत्वा श्मशानके । पठेन्नामसहस्रं यः पृथ्वीशाकर्षको भवेत् ॥ ९४॥ पुष्पयुक्ते भगे देवि संयोगानन्दतत्परः । पुनश्चिकुरमासाद्य मूलमन्त्रं जपन् शिवे ॥ ९५॥ चितावह्नौ मध्यरात्रे वीर्यमुत्सार्य यत्नतः । कालिकां पूजयेत्तत्र पठेन्नाम सहस्रकम् ॥ ९६॥ पृथ्वीशाकर्षणं कुर्यान्नात्र कार्या विचारणा । कदली वनमासाद्य लक्षमन्त्रं जपेन्नरः ॥ ९७॥ मधुमत्या स्वयं देव्या सेव्यमानः स्मरोपमः । श्रीमधुमतीत्युक्त्वा तथा स्थावरजङ्गमान् ॥ ९८॥ आकर्षिणीं समुच्चार्य ठंठं स्वाहा समुच्चरेत् । त्रैलोक्याकर्षिणी विद्या तस्य हस्ते सदा भवेत् ॥ ९९॥ नदीं पुरीं च रत्नानि हेमस्त्रीशैलभूरुहान् । आकर्षयत्यम्बुनिधिं सुमेरुं च दिगन्ततः ॥ १००॥ अलभ्यानि च वस्तूनि दूराद्भूमितलादपि । वृत्तान्तं च सुरस्थानाद्रहस्ये विदुषामपि ॥ १०१॥ राज्ञां च कथयत्येषा सत्यं सत्वरमादिशेत् । द्वितीयवर्षपाठेन भवेत्पद्मावती शुभा ॥ १०२॥ ॐ ह्रींपद्मावति पदं ततस्त्रैलोक्यनाम च । वार्तां च कथय द्वन्द्वं स्वाहान्तो मन्त्र ईरितः ॥ १०३॥ ब्रह्मविष्ण्वादिकानां च त्रैलोक्ये यादृशी भवेत् । सर्व वदति देवेशी त्रिकालज्ञः कविश्शुभः ॥ १०४॥ त्रिवर्षं सम्पठन्देवि लभेद्भोगवतीं कलाम् । महाकालेन दृष्टोऽपि चितामध्यगतोऽपि वा ॥ १०५॥ तस्या दर्शनमात्रेण चिरञ्जीवी नरो भवेत् । मृतसञ्जीविनीत्युक्त्वा मृतमुत्थापय द्वयम् ॥ १०६॥ स्वाहान्तो मनुराख्यातो मृतसञ्जीवनात्मकः । चतुर्वर्षं पठेद्यस्तु स्वप्नसिद्धिस्ततो भवेत् ॥ १०७॥ ॐ ह्रीं स्वप्नवाराहि कालिस्वप्ने कथयोच्चरेत् । अमुकस्याऽमुकं देहि क्लीं स्वाहान्तो मनुर्मतः ॥ १०८॥ स्वप्नसिद्धा चतुर्वर्षात्तस्य स्वप्ने सदा स्थिता । चतुर्वर्षस्य पाठेन चतुर्वेदाधिपो भवेत् ॥ १०९॥ तद्धस्तजलसंयोगान्मूर्खः काव्यं करोति च । तस्य वाक्यपरिचयान्मूर्तिर्विन्दति काव्यताम् ॥ ११०॥ मस्तके तु करं कृत्वा वद वाणीमिति ब्रुवन् । साधको वाञ्छया कुर्यात्तत्तथैव भविष्यति ॥ १११॥ ब्रह्माण्डगोलके याश्च याः काश्चिज्जगतीतले । समस्ताः सिद्धयो देवि करामलकवत्सदा ॥ ११२॥ साधकस्मृतिमात्रेण यावन्त्यः सन्ति सिद्धयः । स्वयमायान्ति पुरतो जपादीनां तु का कथा ॥ ११३॥ विदेशवर्तिनो भूत्वा वर्तन्ते चेटका इव । अमायां चन्द्रसन्दर्शश्चन्द्रग्रहणमेव च ॥ ११४॥ अष्टम्यां पूर्णचन्द्रत्वं चन्द्रसूर्याष्टकं तथा । अष्टदिक्षु तथाष्टौ च करोत्येव महेश्वरि ॥ ११५॥ अणिमा खेचरत्वं च चराचरपुरीगतम् । पादुकाखङ्गवेतालयक्षिणीगुह्यकादयः ॥ ११६॥ तिलकोगुप्ततादृश्यं चराचरकथानकम् । मृतसञ्जीविनीसिद्धिर्गुटिका च रसायनम् ॥ ११७॥ उड्डीनसिद्धिर्देवेशि षष्टिसिद्धीश्वरत्वकम् । तस्य हस्ते वसेद्देवि नात्र कार्या विचारणा ॥ ११८॥ केतौ वा दुन्दुभौ वस्त्रे विताने वेष्टनेगृहे । भित्तौ च फलके देवि लेख्यं पूज्यं च यत्नतः ॥ ११९॥ मध्ये चक्रं दशाङ्गोक्तं परितो नामलेखनम् । तद्धारणान्महेशानि त्रैलोक्यविजयी भवेत् ॥ १२०॥ एको हि शतसाहस्रं निर्जित्य च रणाङ्गणे । पुनरायाति च सुखं स्वगृहं प्रति पार्वती ॥ १२१॥ एको हि शतसन्दर्शी लोकानां भवति ध्रुवम् । कलशं स्थाप्य यत्नेन नामसाहस्रकं पठेत् ॥ १२२॥ सेकः कार्यो महेशानि सर्वापत्तिनिवारणे । भूतप्रेतग्रहादीनां राक्षसां ब्रह्मराक्षसाम् ॥ १२३॥ वेतालानां भैरवाणां स्कन्दवैनायकादिकान् । नाशयेत् क्षणमात्रेण नात्र कार्या विचारणा ॥ १२४॥ भस्मभिर्मन्त्रितं कृत्वा ग्रहग्रस्तं विलेपयेत् । भस्मसंक्षेपणादेव सर्वग्रहविनाशनम् ॥ १२५॥ नवनीतं चाभिमन्त्र्य स्त्रीभ्यो दद्यान्महेश्वरि । वन्ध्या पुत्रप्रदां देवि नात्र कार्या विचारणा ॥ १२६॥ कण्ठे वा वामबाहौ वा योनौ वा धारणाच्छिवे । बहुपुत्रवती नारी सुभगा जायते ध्रुवम् ॥ १२७॥ पुरुषो दक्षिणाङ्गे तु धारयेत्सर्वसिद्धये । बलवान्कीर्तिमान धन्योधार्मिकः साधकः कृती ॥ १२८॥ बहुपुत्री रथानां च गजानामधिपः सुधीः । कामिनीकर्षणोद्युक्तः क्रीं च दक्षिणकालिके ॥ १२९॥ क्रीं स्वाहा प्रजपेन्मन्त्रमयुतं नामपाठकः । आकर्षणं चरेद्देवि जलखेचरभूगतान् ॥ १३०॥ वशीकरणकामो हि हूँ हूँ ह्रीं ह्रीं च दक्षिणे । कालिके पूर्वबीजानि पूर्ववत्प्रजपन् पठेत् ॥ १३१॥ उर्वशीमपि वसयेन्नात्र कार्या विचारणा । क्रीं च दक्षिणकालिके स्वाहा युक्तं जपेन्नरः ॥ १३२॥ पठेन्नामसहस्रं तु त्रैलोक्यं मारयेद्ध्रुवम् । सद्भक्ताय प्रदातव्या विद्या राज्ञि शुभे दिने ॥ १३३॥ सद्विनीताय शान्ताय दान्तायातिगुणाय च । भक्ताय ज्येष्ठपुत्राय गुरुभक्तिपराय च ॥ १३४॥ वैष्णवाय प्रशुद्धाय शिवाबलिरताय च । वेश्यापूजनयुक्ताय कुमारीपूजकाय च ॥ १३५॥ दुर्गाभक्ताय रौद्राय महाकालप्रजापिने । अद्वैतभावयुक्ताय कालीभक्तिपराय च ॥ १३६॥ देयं सहस्रनामाख्यं स्वयं काल्या प्रकाशितम् । गुरुदैवतमन्त्राणां महेशस्यापि पार्वति ॥ १३७॥ अभेदेन स्मरेन्मन्त्रं स शिवः स गणाधिपः । यो मन्त्रं भावयेन्मन्त्री स शिवो नात्र संशयः ॥ १३८॥ स शाक्तो वैष्णवस्सौरः स एवं पूर्णदीक्षितः । अयोग्याय न दातव्यं सिद्धिरोधः प्रजायते ॥ १३९॥ वेश्यास्त्रीनिन्दकायाथ सुरासंवित्प्रनिन्दके । सुरामुखो मनुं स्मृत्वा सुराचार्यो भविष्यति ॥ १४०॥ वाग्देवता घोरे आसापरघारे च हूँ वदेत् । घोररूपे महाघोरे मुखीभीमपदं वदेत् ॥ १४१॥ भीषण्यमुष्यषष्ठ्यन्तं हेतुर्वामयुगे शिवे । शिववह्नियुगास्त्रं हूँ हूँ कवचमनुर्भवेत् ॥ १४२॥ एतस्य स्मरणादेव दुष्टानां च मुखे सुरा । अवतीर्णा भवद्देवि दुष्टानां भद्रनाशिनी ॥ १४३॥ खलाय परतन्त्राय परनिन्दापराय च । भ्रष्टाय दुष्टसत्वाय परवादरताय च ॥ १४४॥ शिवाभक्ताय दुष्टाय परदाररताय च । न स्तोत्रं दर्शयेद्देवि शिवहत्याकरो भवेत् ॥ १४५॥ कालिकानन्दहृदयः कालिकाभक्तिमानसः । कालीभक्तो भवेत्सोऽयं धन्यरूपः स एव तु ॥ १४६॥ कलौ काली कलौ काली कलौ काली वरप्रदा । कलौ काली कलौ काली कलौ काली तु केवला ॥ १४७॥ बिल्वपत्रसहस्राणि करवीराणि वै तथा । प्रतिनाम्ना पूजयेद्धि तेन काली वरप्रदा ॥ १४८॥ कमलानां सहस्रं तु प्रतिनाम्ना समर्पयेत् । चक्रं सम्पूज्य देवेशि कालिकावरमाप्नुयात् ॥ १४९॥ मन्त्रक्षोभयुतो नैव कलशस्थजलेन च । नाम्ना प्रसेचयेद्देवि सर्वक्षोभविनाशकृत् ॥ १५०॥ तथा दमनकं देवि सहस्रमाहरेद्व्रती । सहस्रनाम्ना सम्पूज्य कालीवरमवाप्नुयात् ॥ १५१॥ चक्रं विलिख्य देहस्थं धारयेत्कालिकातनुः । काल्यै निवेदितं यद्यत्तदंशं भक्षयेच्छिवे ॥ १५२॥ दिव्यदेहधरो भूत्वा कालीदेहे स्थितो भवेत् । नैवेद्यनिन्दकान् दुष्टान् दृष्ट्वा नृत्यन्ति भैरवा ॥ १५३॥ योगिन्यश्च महावीरा रक्तपानोद्यताः प्रिये । मांसास्थिचर्मणोद्युक्ता भक्षयन्ति न संशयः ॥ १५४॥ तस्मान्न निन्दयेद्देवि मनसा कर्मणा गिरा । अन्यथा कुरुते यस्तु तस्य नाशो भविष्यति ॥ १५५॥ क्रमदीक्षायुतानां च सिद्धिर्भवति नान्यथा । मन्त्रक्षोभश्च वा भूयात् क्षीणायुर्वा भवेद्ध्रुवम् ॥ १५६॥ पुत्रहारी स्त्रियोहारी राज्यहारी भवेद्ध्रुवम् । क्रमदीक्षायुतो देवि क्रमाद्राज्यमवाप्नुयात् ॥ १५७॥ एकवारं पठेद्देवि सर्वपापविनाशनम् । द्विवारं च पठेद्यो हि वाञ्छां विन्दति नित्यशः ॥ १५८॥ त्रिवारं च पठेद्यस्तु वागीशसमतां व्रजेत् । चतुर्वारं पठेद्देवि चतुर्वर्णाधिपो भवेत् ॥ १५९॥ पञ्चवारं पठेद्देवि पञ्चकामाधिपो भवेत् । षड्वारं च पठेद्देवि षडैश्वर्याधिपो भवेत् ॥ १६०॥ सप्तवारं पठेत्सप्तकामनां चिन्तितं लभेत् । वसुवारं पठेद्देवि दिगीशो भवति ध्रुवम् ॥ १६१॥ नववारं पठेद्देवि नवनाथसमो भवेत् । दशवारं कीर्त्तयेद्यो दशार्हः खेचरेश्वरः ॥ १६२॥ विंशतिवारं कीर्तयेद्यः सर्वैश्वर्यमयो भवेत् । पञ्चविंशतिवारैस्तु सर्वचिन्ताविनाशकः ॥ १६३॥ पञ्चाशद्वारमावर्त्य पञ्चभूतेश्वरो भवेत् । शतवारं कीर्त्तयेद्यः शताननसमानधीः ॥ १६४॥ शतपञ्चकमावर्त्य राजराजेश्वरो भवेत् । सहस्रावर्तनाद्देवि लक्ष्मीरावृणुते स्वयम् ॥ १६५॥ त्रिसहस्रं समावर्त्य त्रिनेत्रसदृशो भवेत् । पञ्च साहस्रमावर्त्य कामकोटि विमोहनः ॥ १६६॥ दशसाहस्रमावर्त्य भवेद्दशमुखेश्वरः । पञ्चविंशतिसाहस्रै च चतुर्विंशतिसिद्धिधृक् ॥ १६७॥ लक्षावर्तनमात्रेण लक्ष्मीपतिसमो भवेत् । लक्षत्रयावर्त्तनात्तु महादेवं विजेष्यति ॥ १६८॥ लक्षपञ्चकमावर्त्य कलापञ्चकसंयुतः । दशलक्षावर्त्तनात्तु दशविद्याप्तिरुत्तमा ॥ १६९॥ पञ्चविंशतिलक्षैस्तु दशविद्येश्वरो भवेत् । पञ्चाशल्लक्षमावृत्य महाकालसमो भवेत् ॥ १७०॥ कोटिमावर्त्तयेद्यस्तु कालीं पश्यति चक्षुषा । वरदानोद्युक्तकरां महाकालसमन्विताम् ॥ १७१॥ प्रत्यक्षं पश्यति शिवे तस्या देहो भवेद्ध्रुवम् । श्रीविद्याकालिकातारात्रिशक्तिविजयी भवेत् ॥ १७२॥ विधेर्लिपिं च सम्मार्ज्य किङ्करत्वं विसृज्य च । महाराज्यमवाप्नोति नात्र कार्या विचारणा ॥ १७३॥ त्रिशक्तिविषये देविक्रमदीक्षा प्रकीर्तिता । क्रमदीक्षायुतो देवि राजा भवति निश्चितम् ॥ १७४॥ क्रमदीक्षाविहीनस्य फलं पूर्वमिहेरितम् । क्रमदीक्षायुतो देवि शिव एव न चापरः ॥ १७५॥ क्रमदीक्षासमायुक्तः काल्युक्तसिद्धिभाग्भवेत् । क्रमदीक्षाविहीनस्य सिद्धिहानिः पदे पदे ॥ १७६॥ अहो जन्मवतां मध्ये धन्यः क्रमयुतः कलौ । तत्रापि धन्यो देवेशि नामसाहस्रपाठकः ॥ १७७॥ दशकालीविद्यौ देवि स्तोत्रमेतत्सदा पठेत् । सिद्धिं विन्दति देवेशि नात्र कार्या विचारणा ॥ १७८॥ काकी काली महाविद्या कलौ काली च सिद्धिदा । कलौ काली च सिद्धा च कलौ काली वरप्रदा ॥ १७९॥ कलौ काली साधकस्य दर्शनार्थं समुद्यता । कलौ काली केवला स्यान्नात्र कार्या विचारणा ॥ १८०॥ नान्यविद्या नान्यविद्या नान्यविद्या कलौ भवेत् । कलौ कालीं विहायाथ यः कश्चित्सिद्धिकामुकः ॥ १८१॥ स तु शक्तिं विना देवि रतिसम्भोगमिच्छति । कलौ कालीं विना देवि यः कश्चित्सिद्धिमिच्छति ॥ १८२॥ स नीलसाधनं त्यक्त्वा परिभ्रमति सर्वतः । कलौ काली विहायाथ यः कश्चिन्मोक्षमिच्छति ॥ १८३॥ गुरुध्यानं परित्यज्य सिद्धिमिच्छति साधकः । कलौ काली विहायाथ यः कश्चिद्राज्यमिच्छति ॥ १८४॥ स भोजन परित्यज्य भिक्षुवृत्तिमभीप्सति । स धन्यः स च विज्ञानी स एव सुरपूजितः ॥ १८५॥ स दीक्षितः सुखी साधुः सत्यवादी जितेन्द्रियः । स वेदवक्ता स्वाध्यायी नात्र कार्या विचारणा ॥ १८६॥ शिवरूपं गुरुं ध्यात्वा शिवरूपं गुरुं स्मरेत् । सदाशिवः स एव स्यानात्र कार्या विचारणा ॥ १८७॥ स्वस्मिन् कालीं तु सम्भाव्य पूजयेज्जगदम्बिकाम् । त्रैलोक्यविजयी भूयान्नात्र कार्य्या विचारणा ॥ १८८॥ गोपनीयं गोपनीयं गोपनीयं प्रयत्नतः । रहस्यातिरहस्यं च रहस्यातिरहस्यकम् ॥ १८९॥ श्लोकार्द्धं पादमात्रं वा पादादर्धं च तदर्धकम् । नामार्धं यः पठेद्देवि न वन्ध्यदिवसं न्यसेत् ॥ १९०॥ पुस्तकं पूजयेद्भक्त्या त्वरितं फलसिद्धये । न च मारीभयं तत्र न चाग्निर्वायुसम्भवम् ॥ १९१॥ न भूतादिभयं तत्र सर्वत्र सुखमेधते । कुङ्कुमाऽलक्तकेनैव रोचनाऽगरुयोगतः ॥ १९२॥ भूर्जपत्रे लिखेत् पुस्तं सर्वकामार्थसिद्धये । इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥ १९३॥ इति गदितमशेषं कालिकावर्णरूपं । प्रपठति यदि भक्त्या सर्वसिद्धीश्वरः स्यात् ॥ १९४॥ अभिनवसुखकामः सर्वविद्याभिरामो भवति सकलसिद्धिधः सर्ववीरासमृद्धिः ॥ १९५॥ ॥ इति श्रीमदादिनाथमहाकालविरचितायां महाकालसंहितायां कालकालीसंवादे सुन्दरीशक्तिदानाख्यं कालीस्वरूप मेधासाम्राज्यप्रदं सहस्रनामस्तोत्रं सम्पूर्णम् ॥

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

एक खतरनाक साजिश की सच्चाई

  🔸“संयुक्त परिवार को तोड़कर उपभोक्ता बनाया गया भारत: एक खतरनाक साजिश की सच्चाई* ⚡“जब परिवार टूटते हैं, तभी बाजार फलते हैं” — ये सिर्फ विच...