रविवार, 11 अप्रैल 2021

ऋणमोचन अङ्गारकस्तोत्रम्

 

ऋणमोचन अङ्गारकस्तोत्रम्

। श्रीरस्तु । श्रीपरमात्मने नमः । अथ ऋणग्रस्तस्य ऋणविमोचनार्थं अङ्गारकस्तोत्रम् । स्कन्द उवाच । ऋणग्रस्तनराणां तु ऋणमुक्तिः कथं भवेत् । ब्रह्मोवाच । वक्ष्येऽहं सर्वलोकानां हितार्थं हितकामदम् । अस्य श्री अङ्गारकमहामन्त्रस्य गौतम ऋषिः । अनुष्टुप्छन्दः । अङ्गारको देवता । मम ऋणविमोचनार्थे अङ्गारकमन्त्रजपे विनियोगः । ध्यानम् । रक्तमाल्याम्बरधरः शूलशक्तिगदाधरः । चतुर्भुजो मेषगतो वरदश्च धरासुतः ॥ १॥ मङ्गलो भूमिपुत्रश्च ऋणहर्ता धनप्रदः । स्थिरासनो महाकायो सर्वकामफलप्रदः ॥ २॥ लोहितो लोहिताक्षश्च सामगानां कृपाकरः । धरात्मजः कुजो भौमो भूमिदो भूमिनन्दनः ॥ ३॥ अङ्गारको यमश्चैव सर्वरोगापहारकः । सृष्टेः कर्ता च हर्ता च सर्वदेशैश्च पूजितः ॥ ४॥ एतानि कुजनामानि नित्यं यः प्रयतः पठेत् । ऋणं न जायते तस्य श्रियं प्राप्नोत्यसंशयः ॥ ५॥ अङ्गारक महीपुत्र भगवन् भक्तवत्सल । नमोऽस्तु ते ममाशेषं ऋणमाशु विनाशय ॥ ६॥ रक्तगन्धैश्च पुष्पैश्च धूपदीपैर्गुडोदनैः । मङ्गलं पूजयित्वा तु मङ्गलाहनि सर्वदा ॥ ७॥ एकविंशति नामानि पठित्वा तु तदन्तिके । ऋणरेखा प्रकर्तव्या अङ्गारेण तदग्रतः ॥ ८॥ ताश्च प्रमार्जयेन्नित्यं वामपादेन संस्मरन् । एवं कृते न सन्देहः ऋणान्मुक्तः सुखी भवेत् ॥ ९॥ महतीं श्रियमाप्नोति धनदेन समो भवेत् । भूमिं च लभते विद्वान् पुत्रानायुश्च विन्दति ॥ १०॥ मूलमन्त्रः। अङ्गारक महीपुत्र भगवन् भक्तवत्सल । नमस्तेऽस्तु महाभाग ऋणमाशु विनाशय ॥ ११॥ अर्घ्यम् । भूमिपुत्र महातेजः स्वेदोद्भव पिनाकिनः । ऋणार्थस्त्वां प्रपन्नोऽस्मि गृहाणार्घ्यं नमोऽस्तु ते ॥ १२॥ इति ऋणमोचन अङ्गारकस्तोत्रं सम्पूर्णम् ।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

एक खतरनाक साजिश की सच्चाई

  🔸“संयुक्त परिवार को तोड़कर उपभोक्ता बनाया गया भारत: एक खतरनाक साजिश की सच्चाई* ⚡“जब परिवार टूटते हैं, तभी बाजार फलते हैं” — ये सिर्फ विच...