शनिवार, 3 अप्रैल 2021

इन्द्राक्षीस्तोत्रम्

इन्द्राक्षीस्तोत्रम्

श्रीगणेशाय नमः । पूर्वन्यासः अस्य श्री इन्द्राक्षीस्तोत्रमहामन्त्रस्य, शचीपुरन्दर ऋषिः, अनुष्टुप् छन्दः, इन्द्राक्षी दुर्गा देवता, लक्ष्मीर्बीजं, भुवनेश्वरीति शक्तिः, भवानीति कीलकम् , इन्द्राक्षीप्रसादसिद्ध्यर्थे जपे विनियोगः । करन्यासः ॐ इन्द्राक्षीत्यङ्गुष्ठाभ्यां नमः । ॐ महालक्ष्मीति तर्जनीभ्यां नमः । ॐ माहेश्वरीति मध्यमाभ्यां नमः । ॐ अम्बुजाक्षीत्यनामिकाभ्यां नमः । ॐ कात्यायनीति कनिष्ठिकाभ्यां नमः । ॐ कौमारीति करतलकरपृष्ठाभ्यां नमः । अङ्गन्यासः ॐ इन्द्राक्षीति हृदयाय नमः । ॐ महालक्ष्मीति शिरसे स्वाहा । ॐ माहेश्वरीति शिखायै वषट् । ॐ अम्बुजाक्षीति कवचाय हुम् । ॐ कात्यायनीति नेत्रत्रयाय वौषट् । ॐ कौमारीति अस्त्राय फट् । ॐ भूर्भुवः स्वरोम् इति दिग्बन्धः ॥ ध्यानम्- नेत्राणां दशभिश्शतैः परिवृतामत्युग्रचर्माम्बरां हेमाभां महतीं विलम्बितशिखामामुक्तकेशान्विताम् । घण्टामण्डित-पादपद्मयुगलां नागेन्द्र-कुम्भस्तनीम् इन्द्राक्षीं परिचिन्तयामि मनसा कल्पोक्तसिद्धिप्रदाम् ॥ इन्द्राक्षीं द्विभुजां देवीं पीतवस्त्रद्वयान्विताम् । वामहस्ते वज्रधरां दक्षिणेन वरप्रदाम् ॥ इन्द्राक्षीं सहस्रयुवतीं नानालङ्कार-भूषिताम् । प्रसन्नवदनाम्भोजामप्सरोगण-सेविताम् ॥ द्विभुजां सौम्यवदनां पाशाङ्कुशधरां पराम् । त्रैलोक्यमोहिनीं देवीमिन्द्राक्षीनामकीर्तिताम् ॥ पीताम्बरां वज्रधरैकहस्तां नानाविधालङ्करणां प्रसन्नाम् । त्वामप्सरस्सेवित-पादपद्मामिन्द्राक्षि वन्दे शिवधर्मपत्नीम् ॥ इन्द्रादिभिः सुरैर्वन्द्यां वन्दे शङ्करवल्लभाम् । एवं ध्यात्वा महादेवीं जपेत् सर्वार्थसिद्धये ॥ लं पृथिव्यात्मने गन्धं समर्पयामि । हं आकाशात्मने पुष्पैः पूजयामि । यं वाय्वात्मने धूपमाघ्रापयामि । रं अग्न्यात्मने दीपं दर्शयामि । वं अमृतात्मने अमृतं महानैवेद्यं निवेदयामि । सं सर्वात्मने सर्वोपचार-पूजां समर्पयामि । वज्रिणी पूर्वतः पातु चाग्नेय्यां परमेश्वरी । दण्डिनी दक्षिणे पातु नैरॄत्यां पातु खड्गिनी ॥ १॥ पश्चिमे पाशधारी च ध्वजस्था वायु-दिङ्मुखे । कौमोदकी तथोदीच्यां पात्वैशान्यां महेश्वरी ॥ २॥ उर्ध्वदेशे पद्मिनी मामधस्तात् पातु वैष्णवी । एवं दश-दिशो रक्षेत् सर्वदा भुवनेश्वरी ॥ ३॥ इन्द्र उवाच । इन्द्राक्षी नाम सा देवी दैवतैः समुदाहृता । गौरी शाकम्भरी देवी दुर्गा नाम्नीति विश्रुता ॥ ४॥ नित्यानन्दा निराहारा निष्कलायै नमोऽस्तु ते । कात्यायनी महादेवी चन्द्रघण्टा महातपाः ॥ ५॥ सावित्री सा च गायत्री ब्रह्माणी ब्रह्मवादिनी । नारायणी भद्रकाली रुद्राणी कृष्णपिङ्गला ॥ ६॥ अग्निज्वाला रौद्रमुखी कालरात्रिस्तपस्विनी । मेघस्श्यामा सहस्राक्षी विकटाङ्गी जडोदरी ॥ ७॥ महोदरी मुक्तकेशी घोररूपा महाबला । अजिता भद्रदानन्ता रोगहर्त्री शिवप्रदा ॥ ८॥ शिवदूती कराली च प्रत्यक्ष-परमेश्वरी । इन्द्राणी इन्द्ररूपा च इन्द्रशक्तिः परायणा ॥ ९॥ सदा सम्मोहिनी देवी सुन्दरी भुवनेश्वरी । एकाक्षरी परब्रह्मस्थूलसूक्ष्म-प्रवर्धिनी ॥ १०॥ रक्षाकरी रक्तदन्ता रक्तमाल्याम्बरा परा । महिषासुर-हन्त्री च चामुण्डा खड्गधारिणी ॥ ११॥ वाराही नारसिंही च भीमा भैरवनादिनी । श्रुतिः स्मृतिर्धृतिर्मेधा विद्या लक्ष्मीः सरस्वती ॥ १२॥ अनन्ता विजयापर्णा मानस्तोकापराजिता । भवानी पार्वती दुर्गा हैमवत्यम्बिका शिवा ॥ १३॥ शिवा भवानी रुद्राणी शङ्करार्ध-शरीरिणी । ऐरावतगजारूढा वज्रहस्ता वरप्रदा ॥ १४॥ नित्या सकल-कल्याणी सर्वैश्वर्य-प्रदायिनी । दाक्षायणी पद्महस्ता भारती सर्वमङ्गला ॥ १५॥ कल्याणी जननी दुर्गा सर्वदुर्गविनाशिनी । इन्द्राक्षी सर्वभूतेशी सर्वरूपा मनोन्मनी ॥ १६॥ महिषमस्तक-नृत्य-विनोदन-स्फुटरणन्मणि-नूपुर-पादुका । जनन-रक्षण-मोक्षविधायिनी जयतु शुम्भ-निशुम्भ-निषूदिनी ॥ १७॥ सर्वमङ्गल-माङ्गल्ये शिवे सर्वार्थ-साधिके । शरण्ये त्र्यम्बके देवि नारायणि नमोऽस्तुते ॥ १८॥ ॐ ह्रीं श्रीं इन्द्राक्ष्यै नमः। ॐ नमो भगवति, इन्द्राक्षि, सर्वजन-सम्मोहिनि, कालरात्रि, नारसिंहि, सर्वशत्रुसंहारिणि । अनले, अभये, अजिते, अपराजिते, महासिंहवाहिनि, महिषासुरमर्दिनि । हन हन, मर्दय मर्दय, मारय मारय, शोषय शोषय, दाहय दाहय, महाग्रहान् संहर संहर ॥ १९॥ यक्षग्रह-राक्षसग्रह-स्कन्धग्रह-विनायकग्रह-बालग्रह-कुमारग्रह- भूतग्रह-प्रेतग्रह-पिशाचग्रहादीन् मर्दय मर्दय ॥ २०॥ भूतज्वर-प्रेतज्वर-पिशाचज्वरान् संहर संहर । धूमभूतान् सन्द्रावय सन्द्रावय । शिरश्शूल-कटिशूलाङ्गशूल-पार्श्वशूल- पाण्डुरोगादीन् संहर संहर ॥ २१॥ य-र-ल-व-श-ष-स-ह, सर्वग्रहान् तापय तापय, संहर संहर, छेदय छेदय ह्रां ह्रीं ह्रूं फट् स्वाहा ॥ २२॥ गुह्यात्-गुह्य-गोप्त्री त्वं गृहाणास्मत्कृतं जपम् । सिद्धिर्भवतु मे देवि त्वत्प्रसादान्मयि स्थिरा ॥ २३॥ फलश्रुतिः नारायण उवाच ॥ एवं नामवरैर्देवी स्तुता शक्रेण धीमता । आयुरारोग्यमैश्वर्यमपमृत्यु-भयापहम् ॥ १॥ वरं प्रादान्महेन्द्राय देवराज्यं च शाश्वतम् । इन्द्रस्तोत्रमिदं पुण्यं महदैश्वर्य-कारणम् ॥ २ ॥ क्षयापस्मार-कुष्ठादि-तापज्वर-निवारणम् । चोर-व्याघ्र-भयारिष्ठ-वैष्णव-ज्वर-वारणम् ॥ ३॥ माहेश्वरमहामारी-सर्वज्वर-निवारणम् । शीत-पैत्तक-वातादि-सर्वरोग-निवारणम् ॥ ४॥ शतमावर्तयेद्यस्तु मुच्यते व्याधिबन्धनात् । आवर्तन-सहस्रात्तु लभते वाञ्छितं फलम् ॥ ५॥ राजानं च समाप्नोति इन्द्राक्षीं नात्र संशय । नाभिमात्रे जले स्थित्वा सहस्रपरिसंख्यया ॥ ६॥ जपेत् स्तोत्रमिदं मन्त्रं वाचासिद्धिर्भवेद्ध्रुवम् । सायं प्रातः पठेन्नित्यं षण्मासैः सिद्धिरुच्यते ॥ ७॥ संवत्सरमुपाश्रित्य सर्वकामार्थसिद्धये । अनेन विधिना भक्त्या मन्त्रसिद्धिः प्रजायते ॥ ८॥ सन्तुष्टा च भवेद्देवी प्रत्यक्षा सम्प्रजायते । अष्टम्यां च चतुर्दश्यामिदं स्तोत्रं पठेन्नरः ॥ ९॥ धावतस्तस्य नश्यन्ति विघ्नसंख्या न संशयः । कारागृहे यदा बद्धो मध्यरात्रे तदा जपेत् ॥ १०॥ दिवसत्रयमात्रेण मुच्यते नात्र संशयः । सकामो जपते स्तोत्रं मन्त्रपूजाविचारतः ॥ ११॥ पञ्चाधिकैर्दशादित्यैरियं सिद्धिस्तु जायते । रक्तपुष्पै रक्तवस्त्रै रक्तचन्दनचर्चितैः ॥ १२॥ धूपदीपैश्च नैवेद्यैः प्रसन्ना भगवती भवेत् । एवं सम्पूज्य इन्द्राक्षीमिन्द्रेण परमात्मना ॥ १३॥ वरं लब्धं दितेः पुत्रा भगवत्याः प्रसादतः । एतत् स्त्रोत्रं महापुण्यं जप्यमायुष्यवर्धनम् ॥ १४॥ ज्वरातिसार-रोगाणामपमृत्योर्हराय च । द्विजैर्नित्यमिदं जप्यं भाग्यारोग्यमभीप्सुभिः ॥ १५॥ ॥ इति इन्द्राक्षी-स्तोत्रं सम्पूर्णम् ॥

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

एक खतरनाक साजिश की सच्चाई

  🔸“संयुक्त परिवार को तोड़कर उपभोक्ता बनाया गया भारत: एक खतरनाक साजिश की सच्चाई* ⚡“जब परिवार टूटते हैं, तभी बाजार फलते हैं” — ये सिर्फ विच...