रविवार, 25 अप्रैल 2021

ककारादिकालीशतनामस्तोत्रम्

 

ककारादिकालीशतनामस्तोत्रम्

श्रीदेव्युवाच- नमस्ते पार्वतीनाथ विश्वनाथ दयामय । ज्ञानात् परतरं नास्ति श्रुतं विश्वेश्वर प्रभो ॥ १॥ दीनवन्धो दयासिन्धो विश्वेश्वर जगत्पते । इदानीं श्रोतुमिच्छामि गोप्यं परमकारणम् । रहस्यं कालिकायश्च तारायाश्च सुरोत्तम ॥ २॥ श्रीशिव उवाच- रहस्यं किं वदिष्यामि पञ्चवक्त्रैर्महेश्वरी । जिह्वाकोटिसहस्रैस्तु वक्त्रकोटिशतैरपि ॥ ३॥ वक्तुं न शक्यते तस्य माहात्म्यं वै कथञ्चन । तस्या रहस्यं गोप्यञ्च किं न जानासि शङ्करी ॥ ४॥ स्वस्यैव चरितं वक्तुं समर्था स्वयमेव हि । अन्यथा नैव देवेशि ज्ञायते तत् कथञ्चन ॥ ५॥ कालिकायाः शतं नाम नाना तन्त्रे त्वया श्रुतम् । रहस्यं गोपनीयञ्च तत्रेऽस्मिन् जगदम्बिके ॥ ६॥ करालवदना काली कामिनी कमला कला । क्रियावती कोटराक्षी कामाक्ष्या कामसुन्दरी ॥ ७॥ कपाला च कराला च काली कात्यायनी कुहुः । कङ्काला कालदमना करुणा कमलार्च्चिता ॥ ८॥ कादम्बरी कालहरा कौतुकी कारणप्रिया । कृष्णा कृष्णप्रिया कृष्णपूजिता कृष्णवल्लभा ॥ ९॥ कृष्णापराजिता कृष्णप्रिया च कृष्णरूपिनी । कालिका कालरात्रीश्च कुलजा कुलपण्डिता ॥ १०॥ कुलधर्मप्रिया कामा काम्यकर्मविभूषिता । कुलप्रिया कुलरता कुलीनपरिपूजिता ॥ ११॥ कुलज्ञा कमलापूज्या कैलासनगभूषिता । कूटजा केशिनी काम्या कामदा कामपण्डिता ॥ १२॥ करालास्या च कन्दर्पकामिनी रूपशोभिता । कोलम्बका कोलरता केशिनी केशभूषिता ॥ १३॥ केशवस्यप्रिया काशा काश्मीरा केशवार्च्चिता । कामेश्वरी कामरुपा कामदानविभूषिता ॥ १४॥ कालहन्त्री कूर्ममांसप्रिया कूर्मादिपूजिता । कोलिनी करकाकारा करकर्मनिषेविणी ॥ १५॥ कटकेश्वरमध्यस्था कटकी कटकार्च्चिता । कटप्रिया कटरता कटकर्मनिषेविणी ॥ १६॥ कुमारीपूजनरता कुमारीगणसेविता । कुलाचारप्रिया कौलप्रिया कौलनिषेविणी ॥ १७॥ कुलीना कुलधर्मज्ञा कुलभीतिविमर्द्दिनी । कालधर्मप्रिया काम्य-नित्या कामस्वरूपिणी ॥ १८॥ कामरूपा कामहरा काममन्दिरपूजिता । कामागारस्वरूपा च कालाख्या कालभूषिता ॥ १९॥ क्रियाभक्तिरता काम्यानाञ्चैव कामदायिनी । कोलपुष्पम्बरा कोला निकोला कालहान्तरा ॥ २०॥ कौषिकी केतकी कुन्ती कुन्तलादिविभूषिता । इत्येवं श‍ृणु चार्वङ्गि रहस्यं सर्वमङ्गलम् ॥ २१॥ फलश्रुति- यः पठेत् परया भक्त्या स शिवो नात्र संशयः । शतनामप्रसादेन किं न सिद्धति भूतले ॥ २२॥ ब्रह्मा विष्णुश्च रुद्रश्च वासवाद्या दिवौकसः । रहस्यपठनाद्देवि सर्वे च विगतज्वराः ॥ २३॥ त्रिषु लोकेशु विश्वेशि सत्यं गोप्यमतः परम् । नास्ति नास्ति महामाये तन्त्रमध्ये कथञ्चन ॥ २४॥ सत्यं वचि महेशानि नातःपरतरं प्रिये । न गोलोके न वैकुण्ठे न च कैलासमन्दिरे ॥ २५॥ रात्रिवापि दिवाभागे यदि देवि सुरेश्वरी । प्रजपेद् भक्तिभावेन रहस्यस्तवमुत्तमम् ॥ २६॥ शतनाम प्रसादेन मन्त्रसिद्धिः प्रजायते । कुजवारे चतुर्द्दश्यां निशाभागे जपेत्तु यः ॥ २७॥ स कृती सर्वशास्त्रज्ञः स कुलीनः सदा शुचिः । स कुलज्ञः स कालज्ञः स धर्मज्ञो महीतले ॥ २८॥ रहस्य पठनात् कोटि-पुरश्चरणजं फलम् । प्राप्नोति देवदेवेशि सत्यं परमसुन्दरी ॥ २९॥ स्तवपाठाद् वरारोहे किं न सिद्धति भूतले । अणिमाद्यष्टसिद्धिश्च भवेत्येव न संशयः ॥ ३०॥ रात्रौ बिल्वतलेऽश्वथ्थमूलेऽपराजितातले । प्रपठेत् कालिका-स्तोत्रं यथाशक्त्या महेश्वरी ॥ ३१॥ शतवारप्रपठनान्मन्त्रसिद्धिर्भवेद्ध्रूवम् । नानातन्त्रं श्रुतं देवि मम वक्त्रात् सुरेश्वरी ॥ ३२॥ मुण्डमालामहामन्त्रं महामन्त्रस्य साधनम् । भक्त्या भगवतीं दुर्गां दुःखदारिद्र्यनाशिनीम् ॥ ३३॥ संस्मरेद् यो जपेद्ध्यायेत् स मुक्तो नात्र संशय । जीवन्मुक्तः स विज्ञेयस्तन्त्रभक्तिपरायणः ॥ ३४॥ स साधको महाज्ञानी यश्च दुर्गापदानुगः । न च भक्तिर्न वाहभक्तिर्न मुक्तिनगनन्दिनि ॥ ३५॥ विना दुर्गां जगद्धात्री निष्फलं जीवनं भभेत् । शक्तिमार्गरतो भूत्वा योहन्यमार्गे प्रधावति ॥ ३६॥ न च शाक्तास्तस्य वक्त्रं परिपश्यन्ति शङ्करी । विना तन्त्राद् विना मन्त्राद् विना यन्त्रान्महेश्वरी ॥ ३७॥ न च भुक्तिश्च मुक्तिश्च जायते वरवर्णिनी । यथा गुरुर्महेशानि यथा च परमो गुरुः ॥ ३८॥ तन्त्रावक्ता गुरुः साक्षाद् यथा च ज्ञानदः शिवः । तन्त्रञ्च तन्त्रवक्तारं निन्दन्ति तान्त्रीकीं क्रियाम् ॥ ३९॥ ये जना भैरवास्तेषां मांसास्थिचर्वणोद्यताः । अतएव च तन्त्रज्ञं स निन्दन्ति कदाचन । न हस्तन्ति न हिंसन्ति न वदन्त्यन्यथा बुधा ॥ ४०॥ ॥ इति मुण्डमालातन्त्रेऽष्टमपटले देवीश्वर संवादे कालीशतनामस्तोत्रं सम्पूर्णम् ॥

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

एक खतरनाक साजिश की सच्चाई

  🔸“संयुक्त परिवार को तोड़कर उपभोक्ता बनाया गया भारत: एक खतरनाक साजिश की सच्चाई* ⚡“जब परिवार टूटते हैं, तभी बाजार फलते हैं” — ये सिर्फ विच...