बुधवार, 28 अप्रैल 2021

कल्किस्तोत्रम्

कल्किस्तोत्रम्

श्रीगणेशाय नमः । सुशान्तोवाच । जय हरेऽमराधीशसेवितं तव पदांबुजं भूरिभूषणम् । कुरु ममाग्रतः साधुसत्कृतं त्यज महामते मोहमात्मनः ॥ १॥ तव वपुर्जगद्रूपसम्पदा विरचितं सतां मानसे स्थितम् । रतिपतेर्मनो मोहदायकं कुरु विचेष्टितं कामलंपटम् ॥ २॥ तव यशोजगच्छोकनाशकं मृदुकथामृतं प्रीतिदायकम् । स्मितसुधोक्षितं चन्द्रवन्मुखं तव करोत्यलं लोकमङ्गलम् ॥ ३॥ मम पतिस्त्वयं सर्वदुर्जयो यदि तवाप्रियं कर्मणाऽऽचरेत् । जहि तदात्मनः शत्रुमुद्यतं कुरु कृपां न चेदीदृगीश्वरः ॥ ४॥ महदहंयुतं पञ्चमात्रया प्रकृतिजायया निर्मितं वपुः । तव निरीक्षणाल्लीलया जगत्स्थितिलयोदयं ब्रह्मकल्पितम् ॥ ५॥ भूवियन्मरुद्वारितेजसां राशिभिः शरीरेन्द्रियाश्रितैः । त्रिगुणया स्वया मायया विभो कुरु कृपां भवत्सेवनार्थिनाम् ॥ ६॥ तव गुणालयं नाम पावनं कलिमलापहं कीर्तयन्ति ये । भवभयक्षयं तापतापिता मुहुरहो जनाः संसरन्ति नो ॥ ७॥ तव जनुः सतां मानवर्धनं जिनकुलक्षयं देवपालकम् । कृतयुगार्पकं धर्मपूरकं कलिकुलान्तकं शं तनोतु मे ॥ ८॥ मम गृहं पतिपुत्रनप्तृकं गजरथैर्ध्वजैश्चामरैर्धनैः । मणिवरासनं सत्कृतिं विना तव पदाब्जयोः शोभयन्ति किम् ॥ ९॥ तव जगद्वपुः सुन्दरस्मितं मुखमनिन्दितं सुन्दरत्विषम् । यदि न मे प्रियं वल्गुचेष्टितं परिकरोत्यहो मृत्युरस्त्विह ॥ १०॥ हयवर भयहर करहरशरणखरतरवरशर दशबलदमन । जय हतपरभरभववरनाशन शशधर शतसमरसभरमदन ॥ ११॥ इति श्रीकल्किपुराणे सुशान्ताकृतं कल्किस्तोत्रं सम्पूर्णम् ।

 

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

एक खतरनाक साजिश की सच्चाई

  🔸“संयुक्त परिवार को तोड़कर उपभोक्ता बनाया गया भारत: एक खतरनाक साजिश की सच्चाई* ⚡“जब परिवार टूटते हैं, तभी बाजार फलते हैं” — ये सिर्फ विच...