शुक्रवार, 2 अप्रैल 2021

इन्द्रसहस्रनामस्तोत्रं गणपतेः कृतिः

 

इन्द्रसहस्रनामस्तोत्रं गणपतेः कृतिः

इन्द्रो देवतमोऽनीलः सुपर्णः पूर्णबन्धुरः । विश्वस्य दमिता विश्वश्येशानो विश्वचर्षणिः ॥ १॥ विश्वानि चक्रिर्विश्वस्मादुत्तरो विश्वभूर्बृहन् । चेकितानो वर्तमानः स्वधयाऽचक्रया परः ॥ २॥ विश्वानरो विश्वरूपो विश्वायुर्विश्वतस्पृथुः । विश्वकर्मा विश्वदेवो व्ह्श्वतो धीरनिष्कृतः ॥ ३॥ त्रिषुजातस्तिग्मश‍ृङ्गो देवो ब्रध्नोऽरुषश्चरन् । रुचानः परमो विद्वान् अरुचो रोचयन्नजः ॥ ४॥ ज्येष्ठो जनानां वॄषभो ज्योतिर्ज्येष्ठं सहोमहि । अभिक्रतूनां दमिता धर्ता विश्वस्य कर्मणः ॥ ५॥ धर्ता धनानं धातॄणां धाता धिरो धियेषितः । यज्ञस्य साधनो यज्ञो यज्ञवाहा अपामजः ॥ ६॥ यज्ञं जुषाणो यजतो युक्तग्राव्णोऽवितेषिरः । सुवज्ज्रश्च्यवनो योद्धा यशसो यज्ञियो यहुः ॥ ७॥ अवयाता दुर्मतीनां हन्ता पापस्य रक्षसः । कृशस्य चोदिता कृत्रुः कृतब्रह्मा धृतव्रतः ॥ ८॥ धृणवोजा अविताधीनां धनानां सञ्जिदच्युतः । विहन्ता तमसस्त्वष्टा तनूपास्तरुतातुरः ॥ ९॥ त्वेषनृम्णस्त्वेष्संदृक् तुराषाडपराजितः । तुग्य्रावृधोदस्मतमः तुविकूर्मितमस्तुजः ॥ १०॥ वृषप्रभर्मा विश्वानि विद्वानादङ्क्षर्दिरस्तवाः । मन्द्रो मतीनां वॄषभो मरुत्वान्मरुतामृषिः ॥ ११॥ महाहस्ती गणपतिर्धियं जिन्वो बृहस्पतिः । माहिनो मधवा मन्दी मर्कोऽर्को मेधिरो महान् ॥ १२॥ ॥ इति प्रथमं नामशतकम् ॥
प्रतिरूपः परोमात्रः पुरुरूपः पुरुष्टुतः । पुरुहूतः पुरः स्थाताः पुरुमायः पुरन्दरः ॥ १३॥ पुरुप्रशस्तः पुरुकृत् पुरां दर्ता पुरूतमः । पुरुगूर्तः पृत्सुजेता पुरुवर्पाः प्रवेपनी ॥ १४॥ पप्रिः प्रचेतः परिभूः पनीयानप्रतिष्कुतः । प्रवृद्धः प्रवयाः पाता पूषण्वानन्तरा भरः ॥ १५॥ पुरुशाकः पाञ्चजन्यः पुरुभोजाः पुरुवसुः । पिशङ्गरातिः पपुरिः पुरोयोधः पृथुज्रया ॥ १६॥ प्ररिक्व प्रदिवः पूर्व्यः पुरोभूः पूर्वजा ऋषिः । प्रणेता प्रमतिः पन्यः पूर्वयावा प्रभूवसुः ॥ १७॥ प्रयज्युः पावकः पूषा पदवीः पथिकृत्पतिः । पुरुत्मा पलितोहेता प्रहेता प्राविता पिता ॥ १८॥ पुरुनृम्णः पर्वतेष्ठाः प्राचामन्युः पुरोहितः । पुरांभिन्दुरनाधृष्यः पुराजाः पप्रथिन्तमः ॥ १९॥ पृतनाषाड् बाहुशर्धी बृहद्रेणुरनिष्टृतः । अभिभूतिरयोपाष्टिः बृहद्रेरपिधानवान् ॥ २०॥ ब्रह्मप्रियो ब्रह्मजूतो ब्रह्मवाहा अरङ्गमः । बोधिन्मना अवक्रक्षी बृहद्भानुरमित्रहा ॥ २१॥ भूरिकर्मा भरेकृत्नुर्भद्रकृद् भार्वरोभृमिः । भरेषु हव्यो भूर्योजाः पुरोहा प्राशुषात् प्रषाट् ॥ २२॥ प्रभङ्गीमहिषो भीमो भूर्यासुतिरशस्तिहा । प्रसक्षी विश्पतिर्वीरः परस्पाः शवस्सस्पतिः ॥ २३॥ ॥ इति द्वितीयं नामशतकम् ॥
पुरुदत्रः पितृतमः पुरुक्षुर्भीगुः पणिः । प्रत्वाक्षाणः पुरां दर्मापनस्युर्भिमातिहा ॥ २४॥ पृथिव्या वृषभः प्रत्नः प्रमन्दी प्रथमः पृथुः । त्यः समुद्रव्यचाः पायुः प्रकेतश्चर्षणीसहः ॥ २५॥ कारुधायाः कविवृधः कनीनः क्रतुमान्क्रतुः । क्षपावस्ता कवितमो गिर्वाहाः कीरिचोदनः ॥ २६॥ क्षपावान्कौशिकः कारी राजाक्षम्यस्य गोपतिः । गौर्गोर्दुरो दुरोऽश्चस्य यवस्यदुर आदुरिः ॥ २७॥ चन्द्रबुध्नश्चर्षणिप्राश्चकृत्यश्चोदयन्मतिः । चन्द्रभानुश्चित्रतमश्चम्रीषश्चचक्रमासजः ॥ २८॥ तुविशुष्मस्तुविद्युम्नस्तुविजातस्तुवीमधः । तुविकूर्मिस्तुविम्रक्षस्तुविशग्मस्तुविप्रतिः ॥ २९॥ तुविनृम्णस्तुविग्रीवस्तुविराधास्तुविक्रतुः । तुविमात्रस्तुविग्राभस्तुविदेष्णस्तुविष्वणिः ॥ ३०॥ तूतुजित्स्तवसस्तक्वस्तुविग्रिस्तुर्वणिस्त्रदः । रथेष्ठस्तरणिस्तुम्रस्त्विषीमाननपच्युतः ॥ ३१॥ तोदस्तरुत्रस्तविषी मुषाणस्तविषस्तुरा । तितिर्वा ततुरिस्त्राता भूर्णिस्तूर्णिस्तवस्तरः ॥ ३२॥ यज्ञवृद्धो यज्ञियानां प्रथमो यज्वनो वृधः । अमित्रखादोऽनिमिषो विषुणोऽसुन्वन्तोऽजुरः ॥ ३३॥ अक्षितोतिर्दाभ्योऽर्यः शिप्रिणीवानगोरुढः । आश्रुत्कर्णोऽन्तरिक्षप्रा अमितौजा अरिष्टुतः ॥ ३४॥ ॥ इति तृतीयं नामशतकम् ॥
अदृष्ट एकराडूर्ध्व ऊर्ध्वसानः सनाद्युवा । स्थिरः सूर्यः स्वभूत्योजाः सत्यराधाः सनश्रुतः ॥ ३५॥ प्रकल्पः सत्त्वानां केतुरच्युतच्युदुरुव्यचाः । शवसी स्वपतिः स्वोजाः शचीवानविदीधयुः ॥ ३६॥ सत्यशुष्मः सत्यसत्वा सूनुः सत्यस्य सोमपाः । दस्योर्हन्ता दिवो धर्ता राजा दिव्यस्य चेतनः ॥ ३७॥ ऋग्मियोऽर्वा रोचमानो रभोदा ऋतपा ऋतः । ऋजीषी रणकृद्रेवा नृत्वियो रध्रचोदनः ॥ ३८॥ ऋष्वोरायोऽवनीराजा रयिस्थानो रदावसुः । ऋभुक्षा अनिमानोऽश्चः सहमानः समुद्रियः ॥ ३९॥ ऋणकातिर्गिर्वर्णस्युः कीजः खिद्वाखजङ्करः । ऋजीषो वसुविद्वेन्यो वाजेषु दधृषः कविः ॥ ४०॥ विरप्शी वीलितो विप्रो विश्ववेदा ऋतावृधः । ऋतयुग्धर्मकृद्धेनुर्धनजिद्धामवर्मवाट् ॥ ४१॥ ऋतेजाः सक्षणिः सोम्यः संसृष्टिजिदृभुष्ठिरः । ऋतयुः सबलः सह्युर्वज्रवाहा ऋचीषमः ॥ ४२॥ ऋग्मीदधृष्वानृष्वौजाः सुगोपाः स्वयशस्तरः । स्वभिष्टिसुम्नः सेहानः सुनीतिः सुकृतः शुचिः ॥ ४२॥ ऋणयाः सहसः सूनुः सुदानुः सगणो वसुः । स्तोम्यः समद्वा सत्राहा स्तोमवाहा ऋतीषहः ॥ ४४॥ ॥ इति चतुर्थं नामशतकम् ॥
शविष्ठः शवसः पुत्रः शतमन्युः शतक्रतुः । शक्रः शिक्षानरः शुष्मी श्रुत्कर्णः श्रवयत्सखा ॥ ४५॥ शतमूतिः शर्धनीतिः शतनीथः शतामघः । श्लोकी शिवतमः श्रुत्यं नामबिभ्रदनानतः ॥ ४६॥ शूरः शिप्री सहस्रोतिः शुभ्रः श‍ृङ्क्षङ्गवृषोनपात् । शासः शाकी श्रवस्कामः शवसावानहंसनः ॥ ४७॥ सुरूपकृत्रुरीशानः शूशुवानः शचीपतिः । सतीनसत्वा सनिता शक्तीवानमितक्रतुः ॥ ४८॥ सहस्रचेताः सुमनाः श्रुत्यः शुद्धः श्रुतामघः । सत्रादावा सोमपावा सुक्रतुः श्मश्रुषु श्रितः ॥ ४९॥ चोदप्रवृद्धो विश्वस्य जगतः प्राणतस्पतिः । चौत्रः सुप्रकरस्रोना चक्रमानः सदावृधः ॥ ५०॥ स्वभिष्टिः सत्पतिः सत्यश्चारुर्वीरतमश्चती । चित्रश्चिकित्वानाज्ञाता प्रतिमानं सतः सतः ॥ ५१॥ स्थाताः सचेताः सदिवः सुदंसाः सुश्रवस्तमः । सहोदः सुश्रुतः सम्राट्सूपारः सुन्वतः सखा ॥ ५२॥ ब्रह्मवाहस्तमो ब्रह्मा विष्णुर्वस्वःपतिर्हरिः । रणाय संस्कृतो रुद्रो रणितेशानकृच्छिवः ॥ ५३॥ विप्रजूतो विप्रतमो यह्वो वज्री हिरण्ययः । वव्रो वीरतरोवायुर्मातरिश्वा मरुत्सखा ॥ ५४॥ गूर्तश्रवा विश्वगूर्तो वन्दनश्रुद्विचक्षणः । वृष्णिर्वसुपतिर्वाजी वृषभो वाजिनी वसुः ॥ ५५॥ ॥ इति पञ्चमं नामशतकम् ॥
विग्रो विभीषणो वह्निर्वृद्धायुर्विश्रुतो वृषा । व्रजभृद्वृत्रहा वृद्धो विश्ववारो वृतञ्चयः ॥ ५६॥ वृषजूतिर्वृषरथो वृषभान्नो वृषक्रतुः । वृषकर्मा वृषमणाः सुदक्षः सुन्वतो वृधः ॥ ५७॥ अद्रोघवागसुरहा वेधाः सत्राकरोऽजरः । अपारः सुहवोऽभीरुरभिभङ्गोऽङ्गिरस्तमः ॥ ५८॥ अमर्त्यः स्वायुधोऽशत्रुरप्रतीतोऽभिमातिषाट् । अमत्री सूनुरर्चत्र्यः समद्दिष्टिरभयङ्करः ॥ ५९॥ अभिनेता स्पार्हराधाः सप्तरश्मिरभिष्टिकृत् । अनर्वास्वर्जिदिष्कर्ता स्तोतॄणामवितोपरः ॥ ६०॥ अजातशत्रुः सेनानि रुभयाव्युभयङ्करः । उरुगायःसत्ययोनिः सहस्वानुर्वरापतिः ॥ ६१॥ उग्रो गोप उग्रबाहुरुग्रधन्वोक्थवर्धनः । गाथश्रवा गिरां राजा गम्भीरो गिर्वणस्तमः ॥ ६२॥ वज्रहस्तचर्षणीनां वृषभो वज्रदक्षिणः । सोमकामः सोमपतिः सोमवृद्धः सुदक्षिणः ॥ ६३॥ सुब्रह्मा स्थविरः सूरः सहिष्टः सप्रथाः सराट् । हरिश्मशारुर्हरिवान्हरीणां पतिरस्तृतः ॥ ६४॥ हिरण्यबाहुरुर्व्यूतिर्हरिकेशो हिरीमशः । हरिशिप्रो हर्यमाणो हरिजातो हरिम्भरः ॥ ६५॥ हिरण्यवर्णो हर्यश्चो हरिवर्पा हरिप्रियः । हनिष्ठो हर्यक्ष्वो हव्यो हरिष्ठा हरियोजनः ॥ ६६॥ ॥ इति षष्ठं नामशतकम् ॥
सत्वा सुशिप्रः सुक्षत्रः सुवीरः सुतपा ऋषिः । गाथान्यो गोत्रभिद्ग्रामं वहमानो गवेषणः ॥ ६७॥ जिष्णुस्तस्थुष ईशानो ईशानो जगतो नृतुः । नर्याणि विद्वान्नृपतिः नेतानृम्णस्य तूतुजिः ॥ ६८॥ निमेधमानो नर्यापाः सिन्धूनां पतिरुत्तरः । नर्यो नियुत्वान्निचितो नक्षद्दाभोनहुष्टरः ॥ ६९॥ नव्यो निधाता नृमणाः सध्रीचीनः सुतरेणः । नृतमानो नदनुमान्नवीयान्नृतमोनृजित् ॥ ७०॥ विचयिष्ठो वज्रबाहुर्वृत्रखादोवलं रुजः । जातूभर्मा ज्येष्ठतमो जनभक्षो जनंसहः ॥ ७१॥ विश्वाषाड्वंसगोवस्यान्निष्पाडशनिमान्नृषाट् । पूर्भित्पुराषाडभिषाट् जगतस्तस्थुषस्पतिः ॥ ७२॥ संवृक्समत्सुसन्धाता सुसङ्क्षदृक्सविताऽरुणः । स्वर्यः स्वरोचिः सुत्रामा स्तुष्येय्यः सनजाः स्वरिः ॥ ७३॥ कृण्वन्नकेतवे केतुः पेशः कृण्वन्नपेशसे । वज्रेण हत्वी महिनो मरुत्स्तोत्रो मरुद्गःणः ॥ ७४॥ महावीरो महाव्रातो महाय्यः प्रमतिर्मही । माता मघोनां मंहिष्ठो मन्युमिर्मन्युमत्तमः ॥ ७५॥ मेषो महीवृन्मन्मदानो माहिनावान्महेमतिः । म्रक्षोमृलिको मंहिष्ठो म्रक्षकृत्वा महामहः ॥ ७६॥ मदचुन्मर्डितामद्वा मदानां पतिरातपः । सुशस्तिः स्वस्तिदाः स्वर्दृग्राधानामाकरः पतिः ॥ ७७॥ ॥ इति सप्तमं नामशतकम् ॥
इषुहस्त इषां दाता वसुदाता विदद्वसुः । विभूतिर्व्यानाशिर्वेनो वरीयान् विश्वजिद्विभुः ॥ ७८॥ नृचक्षाः सहुरिः स्वर्वित्सुयज्ञः सुष्ठुतः स्वयुः । आपिः पृथिव्या जनिता सूर्यस्य जनिता श्रुतः ॥ ७९॥ ष्पङ्क्षड्विवहायाः स्मत्पुतन्धिर्वृषपर्वा वृषन्तमः । साधारणः सुखरथः स्वश्चः सत्राजिदद्भुतः ॥ ८०॥ ज्येष्ठराजो जीरदानुर्जग्मिर्वित्वक्षणो वशी । विधाता विश्वमा आशुर्मायी वृद्धमहावृधः ॥ ८१॥ वरेण्यो विश्वतूर्वात्स्येशानो द्यौर्विचर्षणिः । सतीनमन्युर्गोदत्रः सद्योजातोविभञ्जनुः ॥ ८२॥ वितन्तसाय्यो वाजानां विभक्ता वस्व आकरः । वीरको वीरयुर्वज्रं बभ्रिवीरेण्य आघृणिः ॥ ८३॥ वाजिनेयो वाजनिर्वाजानां पतिराजिकृत् । वास्तोष्पतिर्वर्पणीतिर्विशां राजा वपोदरः ॥ ८४॥ विभूतद्युम्न आचक्रिरादारी दोधतो वधः । आखण्डलो दस्मवर्चाः सर्वसेनो विमोचनः ॥ ८५॥ वज्रस्य भर्ता वार्याणां पतिर्गोजिद्गवां पतिः । विश्वव्यचाः सङ्क्षञ्चकानः सुहार्दो जनिता दिवः ॥ ८६॥ समन्तुनामा पुरुध प्रतिको बृहतः पतिः । दीध्यानो दामनो दाता दीर्घश्रवस ऋभ्वसः ॥ ८७॥ दंसनावान्दिवः संम्राड्देतवजूतो दिवावसुः । दशमो देवता दक्षो दुध्रोद्युम्नी द्युमन्तमः ॥ ८८॥ ॥ इत्यष्टमं नामशतकम् ॥
मंहिङ्क्षष्ठरातुरित्थाधीर्दीद्यानो दधृषिर्दुधिः । दुष्टरीतुर्दुश्च्यवनो दिवोमानो दिवोवृषा ॥ ८९॥ दक्षाय्यो दस्युहाधृष्णुः दक्षिणावान् धियावसुः । धनस्पृद्धृषितो धाता दयमानो धनञ्जयः ॥ ९०॥ दिव्यो द्विबर्हा सन्नार्यः समर्यस्त्राः सिमः सखा । द्युक्षः समानो दंसिष्ठो राधसः पतिरध्रिगुः ॥ ९१॥ सम्राट् पृथिव्या ओजस्वान् वयोधा ऋतुपा ऋभुः । एको राजैधमानद्विडेकवीर उरुजयाः ॥ ९२॥ लोककृज्जनिताऽश्चानां जनिता गवाम् । जरिता जनुषां राजा गिर्वणाः सुन्वतोऽविता ॥ ९३॥ अत्कं वसानः कृष्टीनां राजोक्थ्यः शिप्रवानुरुः । ईड्योदाश्वानिनतमो धोरः सङ्क्रन्दनः स्ववान् ॥ ९४॥ जागृविर्जगतो राजा गृत्सो गोविद्धनाधनः । जेताऽभिभूरकूपारो दानवानसुरोर्णऽवः ॥ ९५॥ धृष्विर्दमूनास्तवसस्तवीयानन्तमोऽवृतः । रायोदाता रयिपतिः विपश्चिद्वृत्रहन्तमः ॥ ९६॥ अपरीतः षालपश्चाद् दध्वायुत्कार आरितः । वोह्लावनिष्ठो वृष्ण्यावान्वृषण्वान्वृकोऽवतः ॥ ९७॥ गर्भोऽसमष्टकाव्योयुगहिशुष्मोदधृष्वणिः । प्रत्रः परिर्वाजदावा ज्योतिः कर्ता गिरां पतिः ॥ ९८॥ ॥ इति नवमं नामशतकम् ॥
अनवद्यः सम्भृताश्चो वज्रिवादद्रिवान्द्युमान् । दस्मो यजत्रो योधीयानकवारिर्यतङ्करः ॥ ९९॥ पृदाकुसानुरोजीयान् ब्रह्मणश्चोदिताः यमः । वन्दनेष्ठाः पुरां भेता बन्धुरेष्ठा बृहद्दिवः ॥ १००॥ वरूता मधुनो राजा प्रणेनीः पप्रथी युवा । उरुशंसोहवंश्रोता भूरिदावा बृहच्छ्रवाः ॥ १०१॥ माता स्तियानां वृषभो महोदाता महावधः । सुग्म्यः सुराधाः सत्राषाडोदतीनां नदोधुनिः ॥ १०२॥ अकामकर्शनः स्वर्षाः सुमृलीकः सहस्कृतः । पास्त्यस्य होता सिन्धूनां वृषाभोजो रथीतमः ॥ १०३॥ सखा मुनीनां जनिदाः स्वधावानसमोऽप्रतिः । मनस्वानध्वरो मर्यो बृबदुक्थोऽविता भगः ॥ १०४॥ अषाह्लोऽरीह्ल आदर्ता वीरं कर्तां विशस्पतिः । एकः पतिरिनः पुष्टिः सुवीर्यो हरिपाः सुदॄक् ॥ १०५॥ एको हव्यः सनादारुगोकोवाकस्य सक्षणिः । सुवृक्तिरमृतोऽमृक्तः खजकृद्वलदाः शुनः ॥ १०६॥ अमत्रो मित्र आकाय्यः सुदामाब्जिन् महोमही । रथः सुबाहुरुशना सुनीथो भूरिदाः सुदाः ॥ १०७॥ मदस्य राजा सोमस्य पीत्वीज्यान्दिवः पतिः । तविषीवान्धनो युध्मो हवनश्रुत्सहः स्वराट् ॥ १०८॥ ॥ इति दशमं नामशतकम् ॥
॥ अत्रेमे भवन्त्युपसंहारश्लोकाः ॥ इदं सहस्रमिन्द्रस्य नाम्नां परमपावनम् । ऋग्वेदतो गणपतिः सङ्गृह्य विनिबद्धवान् ॥ १॥ नात्र नाम्नः पौनरुक्त्यं न च कारादि पूरणम् । श्लोकमध्ये न चारम्या शतकस्योपसंहृतिः ॥ २॥ नाम्नामेषां छान्दसत्वात्सर्वेषां च स्वरूपतः । अवलोक्या यथा छन्दः शब्दशुद्धिर्विचक्षणैः ॥ ३॥ अनेकपदनामानि विनियोज्यानि पूजने । चतुर्थ्यन्तप्रयोगेषु व्युत्क्रमाच्च यथान्वयम् ॥ ४॥ अस्य नामसहस्रस्य वेद्दमूलस्य सेवने । पूर्णं फलं तद्विज्ञेयं यत्स्वाध्यायनिषेवणे ॥ ५॥ मन्त्रेभ्यः सम्भृतं सारमेतन्नामसहस्रकम् । एन्द्रं यो भजते भक्त्या तस्य स्युः सिद्धयो वशे ॥ ६॥ इन्द्रो विजयते देवः सर्वस्य जगतः पतिः । वेदमूलं जयत्येतत्तस्य नामसहस्रकम् ॥ ७॥ ॥ इति श्रीभगवन्महर्षिरमणान्तेवासिनो वासिष्ठस्य नरसिंहसूनोर्गणपतेः कृतिः इन्द्रसहस्रनामस्तोत्रं सम्पूर्णम् ॥

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

एक खतरनाक साजिश की सच्चाई

  🔸“संयुक्त परिवार को तोड़कर उपभोक्ता बनाया गया भारत: एक खतरनाक साजिश की सच्चाई* ⚡“जब परिवार टूटते हैं, तभी बाजार फलते हैं” — ये सिर्फ विच...