श्रीशुक उवाच
भगवानपि ता रात्रीः शरदोत्फुल्ल मल्लिकाः ।
वीक्ष्य रन्तुं मनश्चक्रे योगमायामुपाश्रितः ॥1॥
तदोतुराजः ककुभः करैर्मुखं
प्राच्या विलिम्पन्नरुणेन शन्तमैः ।
स चर्षणानामुदगाच्छुचो मृजन्
प्रियः प्रियाया इव दीर्घदर्शनः ॥2॥
दृष्ट्वा कुमुद्वन्तमखण्डमण्डलं
रमाननाभं नवकुङ्कुमारुणम् ।
वनं च तत्कोमलगोभिरञ्जितं
जगौ कलं वामदृशां मनोहरम् ॥3॥
निशम्य गीतं तदनङ्गवर्द्धनं
व्रजस्त्रियः कृष्णगृहीतमानसाः ।
आजग्मुरन्योन्यमलक्षितोद्यमाः
स यत्र कान्तो जवलोलकुण्डलाः ॥4॥
दुहन्त्योऽभिययुः काश्चिद् दोहं हित्वा समुत्सुकाः ।
पयोऽधिश्रित्य संयावमनुद्वास्यापरा ययुः ॥5॥
परिवेषयन्त्यस्तद्धित्वा पाययन्त्यः शिशून् पयः ।
शुशुषन्त्यः पतीन् काश्चिदश्नन्त्योऽपास्य भोजनम् ॥6॥
लिम्पन्त्यः प्रमृजन्त्योऽन्या अञ्जन्त्यः काश्च लोचने ।
व्यत्यस्तवस्त्राभरणाः काश्चित् कृष्णान्तिकं ययुः ॥7॥
ता वार्य्यमाणाः पतिभिः पितृभिर्भ्रातृवन्धुभिः ।
गोविन्दापहृतात्मानो न न्यवर्त्तन्त मोहिताः ॥8॥
अन्तर्गृहगताः काश्चिद् गोप्योऽलव्धविनिर्गमाः ।
कृष्णं तभ्भावनायुक्ता दध्युर्मीलितलोचनाः ॥9॥
दुःसहप्रेष्ठविरहतीव्रतापधुताशुभाः ।
ध्यानप्राप्ताच्युताश्लेषनिर्वृत्या क्षीणमङ्गलाः ॥10॥
तमेव परमात्मानं जारवुद्ध्यापि सङ्गताः ।
जहुर्गुणमयं देहं सद्यः प्रक्षीणवन्दनाः ॥11॥
राजोवाच
कृष्णं विदुः परं कान्तं न तु व्रह्मतया मुने ।
गुणप्रवाहोपरमस्तासां गुणधियां कथम। ॥12॥
श्रीशुक उवाच
उक्तं पुरस्तादेतत्ते चैद्यः सिद्धिँ यथा गतः ।
द्विषन्नपि हृषीकेशं किमुताधोक्षजप्रियाः ॥13॥
नृणां निःश्रेयसार्थाय व्यक्तिर्भिगवतो नृप ।
अव्ययस्याप्रमेयस्य निर्गुणस्य गुणात्मनः ॥14॥
कामं क्रोधं भयं स्नेहमैक्यं सौहृदमेव च ।
नित्यं हरौ विदधतो यान्ति तन्मयतां हि ते ॥15॥
न चैवं विस्मयः कार्य्यो भवता भगवत्यजे ।
योगेश्वरेश्वरे कृष्णे यत एतद् विमुच्यते ॥16॥
ता दृष्ट्वान्तिकमायाता भगवान् व्रजयोषितः ।
अवदद् वदतां श्रेष्ठो वाचः पेशैर्विमोहयन् ॥17॥
श्रीभगवानुवाच
स्वागतं वो महाभागाः प्रियं किँ करवाणि वः ।
व्रजस्यानामयं कच्चिद् व्रूतागमनकारणम् ॥18॥
रजन्येषा घोररूपा घोरसत्त्वनिषेविता ।
प्रतियात व्रजं स्थेयं स्त्रीभिः सुमध्यमाः ॥19॥
मातरः पितरः पुत्रा भ्रातरः पतयश्च वः ।
विचिन्वन्ति ह्यपश्यन्तो मा कृढ्वं वन्दुसाध्वसम् ॥20॥
दृष्टं वनं कुसुमितं राकेशकररञ्जितम् ।
यमुनानिललीलैजत्तरुपल्लवशोभितम् ॥21॥
तद् यात मा चिरं गोष्ठं शुश्रूषध्वं पतीन् सतीः ।
क्रन्दन्ति वत्सा वालाश्च तान् पाययत दुह्यत ॥22॥
अथवा मदभिस्नेहाद् भवत्यो यन्त्रिताशयाः ।
आगता ह्युपपन्नं वः प्रीयन्ते मयि जन्तवः ॥23॥
भर्त्तुः शुश्रूषणं स्त्रीणां परो धर्मो ह्यमायया ।
तद्वन्द्धुनां च कल्याण्यः प्रजानां चानुपोषणम् ॥24॥
दुःशीलो दुर्भगो वृद्धो जडो रोग्यधनोऽपि वा ।
पतिः स्त्रीभिर्न हातव्यो लोकेप्सुभिरपातकी ॥25॥
अस्वर्ग्यमयशस्यं च फल्गु कृच्छ्रं भयावहम् ।
जुगुप्सितं च सर्वत्र औपपत्यं कुलस्त्रियाः ॥26॥
श्रवणाद् दर्शनाद् ध्यानान् मयि भावोऽनुकीर्त्तनात् ।
न तथा सन्निकर्षेण प्रतियात ततो गृहान् ॥27॥
श्रीशुक उवाच
इति विप्रियमाकर्ण्ण्य गोप्यो गोविन्दभाषिम् ।
विषण्णा भग्नसङ्कल्पाश्चिन्तामापुर्दुरत्ययम् ॥28॥
कृत्वा मुखान्यव शुचः श्ळसनेन शुष्द्-
विम्वाधराणि चरणेन भुवं लिखन्त्यः ।
अस्रैरुपात्तमषिभिः कुचकुङ्कुमानि
तस्थुर्मृजन्त्य उरुदु:खभराः स्म तूष्णम् ॥29॥
प्रेष्ठं प्रियेतरमिव प्रतिभाषमाणं
कृष्णं तदर्थविनिवर्त्तितसर्वकामाः ।
नेत्रे विमृज्य रुदितोपहते स्म किञ्छत्-
संरम्भद्गदगिरोऽव्रुवतानुरक्ताः ॥30॥
गोप्य ऊचु:
भैवं विभोऽर्हति भवन् गदितुं नृशंसं
सन्त्यज्य सर्वविषयांस्तव पादमूम् ।
भक्ता भजस्व दुरवग्रह मा त्यजास्मन्
देवो यथाऽऽदिपुरुषो भजते मुमुक्षून् ॥31॥
यत्पत्यपत्यसुहृदामनुवृत्तिरङ्ग
स्रीणां स्वधर्म इति धर्मविदा त्वयोक्तम् ।
अस्त्वेवमेतदुपदेशपदे त्वयीशे
प्रेष्ठो भवांस्तनुभृतां किल वन्दुरात्मा ॥32॥
कुर्वन्ति हि त्वयि रतिँ कुशलाः स्व आत्मन्
नित्यप्रिये पतिसुतादिभिरार्तिदैः किम् ।
तन्नः प्रसीद परमेश्वर मा स्म छिन्द्या
आशां भृतां त्वयि चिरादरविन्दनेत्र ॥33॥
चित्तं सुखेन भवतापहृतं गृहेषु
यन्निर्विशत्युत करावपि गृह्यकृत्ये ।
पादौ पदं न चलतस्तव पादमूलाद्
यामः कथं व्रजमथो करवाम किँ वा ॥34॥
सिञ्चाङ्ग नस्त्वदधरामृतपूरकेण
हासावलोककलगीतजहृछ्छयाग्निम् ।
नो चेद् वयं विरहजाग्न्युपयुक्त देहा
ध्यानेन याम पदयोः पदवीँ सखे ते ॥35॥
यर्ह्यम्वुजाक्ष तव पादतलं रमाया
दत्तक्षणं क्वचिदरण्यजनप्रियस्य ।
अस्प्राक्ष्म तत् प्रभृति नान्यसमक्षमङ्ग
स्थातुं त्वयाभिरमिता वत पारयामः ॥36॥
श्रीर्यत् पदाम्वुजरजश्चकमे तुलस्या
लव् ध्वापि वक्षसि पदं किल भृत्यजुष्टम् ।
यस्याः स्ववीक्षणकृतेऽन्यसुरप्रयास-
स्तद् वद् वयं च तव पादरजः प्रपन्नाः ॥37॥
तन्नः प्रसीद वृजिनार्दन तेऽङ्घ्रिमूलं
प्राप्ता विसृज्य वसतीस्त्वदुपासनाशाः ।
त्वत् सुन्दरस्मितनिरीक्षणतीव्रकाम-
तप्तात्मनां पुरुषभूषण देहि दास्यम् ॥38॥
वीक्ष्यालकावृतमुखं तव कुण्डलश्री-
गण्डस्थलाधरसुधं हसितावलोकम् ।
दत्ताभयं च भुजदण्डयुगं विलोक्य
वक्षः श्रियैकरमणं च भवाम दास्यः ॥39॥
का स्त्रङ्ग ते कलपदायतमूर्छ्छतेन
सम्मोहिताऽऽर्य्यचरितान्न चलेत् त्रिलोक्याम् ।
त्रैलोक्यसौभगमिदं च निरीक्ष्य रूपं
यद् गोद्विजद्रृममृगाः पुल कान्यविभ्रन् ॥40॥
व्यक्तं भवान् व्रजभयार्त्तिहरोऽभिजातो
देवो यथाऽऽदिपुरुषः सुरलोकगोप्ता ।
तन्नो निधेहि करपङ्कजमार्त्तवन्द्धो
तप्तस्तनेषु च शिरस् सु च किङ्करीणाम् ॥41॥
श्रीशुक उवाच
इति विक्लवितं तासां श्रुत्वा योगेश्वरेश्वरः ।
प्रहस्य सदयं गोपीरात्मारामोऽप्यरीरमत् ॥42॥
ताभिः समेताभिरुदारचेष्टितः
प्रियेक्षणोत्फुल्ल मुखीभिरच्युतः ।
उदारहासद्विजकुन्ददीधिति-
र्व्यरोचतैणाङ्क इवोडुभिर्वृतः ॥43॥
उपगीयमान उद्गायन् विताशतयूथपः ।
मालां विभ्रद् वैजयन्त्रीँ व्यचरन्मण्डयन् वनम् ॥44॥
नद्याः पुलिनमाविश्य गोपीभिर्हिमवालुकम् ।
रेमे तत्तरलानन्दकुमुदामोदवायुना ॥45॥
वाहुप्रसारपरिरम्भकरालकोरुत नीवीस्तनाल भननर्मनखाग्रपातैः ।
क्ष्वेल्यावलोकहसितैर्व्रजसुन्दरीणा मुत्तम्भयन् रतिपतिँ रमयाञ्चकार ॥46॥
एवं भगवतः कृष्णाल्लव्धमाना महात्मनः ।
आत्मानां मेनिरे स्तीणां मानिन्योऽभ्यधिकं भुवि ॥47॥
तासां तत् सौभगमदं वीक्ष्य मानं च केशवः ।
प्रशमाय प्रसादाय तत्रैवान्तरधीयत ॥48॥
श्रीमद्भगवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्दे पूर्वार्द्धे भगवतो रासक्रीड़ावर्ण्णनं नामैकोनत्रिंशोऽध्यायः ॥29॥
Bhagabat (10 skand [part 1]/ch. 29/1-48) {Raslila}
श्रीशुक उवाच
अन्तर्हिते भगवति सहसैव व्रजाङ्गनाः ।
अतप्यंस्तमचक्षाणाः करिण्य इव यूतपम् ॥1॥
गत्यानुरागस्मितविभ्रमेक्षितै-
र्मनोरमालापविहारविभ्रमैः ।
आक्षिप्तचित्ताः प्रमदा रमापते-
स्तास्ता विचेष्टा जगृहुस्तदात्मिकाः ॥2॥
गतिस्मितप्रेक्षणभाषणादिषु
प्रियाः प्रियस्य प्रतिरूढ़मूर्त्तयः ।
असावहं त्वित्यवलास्तदात्मिका
न्यवेदिषुः कृष्णविहारविभ्रमाः ॥3॥
गायन्य उचऐरमुमेव संहता
विचिक्युरुन्मत्तकवद् वनाद् वनम् ।
पप्रछुराकाशवदन्तरं वहि-
र्भूतेषु सन्तं पुरुष वनस्पतीन् ॥4॥
दृष्टो वः कच्चिदश्वत्थ प्लक्ष न्यग्रोध नो मनः ।
नन्दसूनुर्गतो हृत्वा प्रेमहासावलोकनैः ॥5॥
कच्चित् कुरवकाशोकनागपुन्नागचम्पकाः ।
रामानुजो मानिनीनामितो दर्पहरस्मितः ॥6॥
कच्चित्तुलसि कल्याणि गोविन्दचरणप्रिये ।
सह त्वालिकुलैर्विभ्रद् दृष्टस्तेऽतिप्रियोऽच्युतः ॥7॥
मालत्यदर्शि वः कच्चिन् मल्लिके जाति यूथिके ।
प्रीतिँ वो जनयन् यातः करस्पर्शेन माधवः ॥8॥
चुतप्रियालपनसासनकोविदार-
जम्व्वर्कविल्व वकुलाम्रकदम्वनीपाः ।
येऽन्ये परार्थभवका यमुनोपकूलाः
शंसन्तु कृष्णपदवीँ रहितात्मनां नः ॥9॥
किँ ते कृतंक्षिति तपो वत केशवाघ्रिँ-
स्पर्शोत्सवोत् पुलकिताङ्गरुहैर्विभासि ।
अप्यघ्रिसम्भव उरुक्रमविक्रमाद् वा
आहो वराहवपुषः परिरम्भणेन ॥10॥
अप्यणपत्न्युपगतः प्रिययेह गात्रै-
स्तन्वन् दृशां सखि सुनिर्वृतिमच्युतो वः ।
कान्ताङ्गसङ्गकुचकुङ्कुमरञ्जितायाः
कुन्दस्रजः कुलपतेरिह वाति गन्धः ॥11॥
वाहुं प्रियांस उपधाय गृहीतपद्मो
रामानुजस्तुलसिकालिकुलैर्मदान्धैः ।
अन्वीयमान इह वस्तरवः प्रणामं किँ वाभिनन्दति चरन् प्रणयावलोकैः ॥12॥
पृच्छतेमा लता वाहूनप्याश्लिष्टा वनस्पतेः ।
नूनं तत् करजस्पृष्टा विभ्रत्युत् पुलकान्यहो ॥13॥
इत्युन्मत्तवचो गोप्यः कृष्णान्वेषणकातराः ।
लीला भगवतस्तास्ता ह्यनुचक्रुस्तदात्मिकाः ॥14॥
कस्याश्चित् पूतनायन्त्याः कृष्णायन्त्यपिवत् स्तनम् ।
तोकायित्वा रुदत्यन्या पदाहञ्छकटायतीम् ॥15॥
दैत्यायित्वा जहारान्यामेका कृष्णार्भभावनाम् ।
रिङ्गयामास काप्यघ्रां कर्षन्ती घोषनिःस्वनैः ॥16॥
कृष्णरामायिते द्वे तु गोपायन्त्यश्च काश्चन ।
वत्सायतीँ हन्ति चान्या तत्रैका तु वकायतीम् ॥17॥
आहूय दूरगा यद् वत् कृष्णस्तमनुकुर्वतीम् ।
वेणुं क्वणन्तां क्रीड़न्तीमन्याः शंसन्ति साध्विति ॥18॥
कस्यांचित् स्वभुजं न्यस्य चलन्त्याहापरा ननु ।
कृष्णोऽहं पश्यत गतिं ललितामिति तन्मनाः ॥19॥
मा भैष्ट वातवर्षाभ्यां तत् त्राणं विहितं मया ।
इत्युक्त्वैकेन हस्तेन यतन्त्युन्निदधेऽम्वरम् ॥20॥
आरुह्यैका पदाऽऽक्रम्य शिरस्याहापरां नृप ।
दुष्टाहे गच्छ जातोऽहं खलानां ननु दण्डधृक् ॥21॥
तत्रैकोवाच हे गोपा दावाग्निँ पश्यतॅल् वणम् ।
चक्षूंष्याश्वपिदध्वं वो विधास्ये क्षेममञ्जसा ॥22॥
वव्धान्यया स्रजा काचित्तन्वी तत्र उलूखले ।
भीता सुदृक् पिधायास्यं भेजे भीतिविड़म्वनम् ॥23॥
एवं कृष्णं पृच्छमाना वृन्दावनल तास्तरून् ।
व्यचक्षत वनोद्देशे पदानि परमात्मनः ॥24॥
पदानि व्यक्तमेतानि नन्दसूनोर्महात्मनः ।
लक्ष्यन्ते हि ध्वजाम्भोजवज्राङ्कुशयवादिभिः ॥25॥
तैस्तैः पदैस्तत् पदवीमन्विच्छन्त्योऽग्रतोऽवलाः ।
वध्वाः पदैः सुपृक्तानि विलोक्यार्त्ताः समव्रुवन् ॥26॥
कस्याः पदानि चैतानि याताया नन्दसूनुना ।
अंसन्यस्तप्रकोष्ठायाः करेणोः करिणा यथा ॥27॥
अनयाऽऽराधितो नूनं भगवान् हरिरीश्वरः ।
यन्नो विहाय गोविन्दः प्रीतो यामनयद् रहः ॥28॥
धन्या अहो अमी आल्यो गोविन्दाघ्य्रंव् जरेणवः ।
यान् व्रह्मेशो रमा देवी दधुर्मूर्व्द्य्नघनुत्तये ॥29॥
तस्या अमूनि नः क्षोभं कुर्वन्त्युच्चैः पदानि यत् ।
यैकापहृत्य गोपीनां रहो भुङ् क्तेऽच्युताधरम् ॥30॥
न लक्ष्यन्ते पदान्यत्र तस्या नूनं तृणाङ्कुरैः ।
खिद्यत् सुजाताघ्रितलामुन्निन्ये प्रेयसीँ प्रियः ॥31॥
इमान्यधिकमग्नानि पदानि वहतो वधूम् ।
गोप्यः पश्यत कृष्णस्य भाराक्रान्तस्य कामिनः ॥32॥
अत्रावरोपिता कान्ता पुष्पहेतोर्महात्मना ।
अत्र प्रसूनावचयः प्रियार्थे प्रेयसा कृतः ।
प्रपदाक्रमणे एते पश्यतासकले पदे ॥33॥
केशप्रसाधनं त्वत्र कामिन्याः कामिना कृतम् ।
तानि चूड़ायता कान्तामुपविष्टमिह ध्रुवम् ॥34॥
रेमे तया चात्म रत आत्मारामोऽप्यखण्डितः ।
कामिनां दर्शयन् दैन्यं स्त्रीणां चैव दुरात्मताम् ॥35॥
इत्येवं दर्शयन्त्यस्ताश्चेरुर्गोप्यो विचेतसः ।
यां गोपीमनयत् कृष्णो विहायान्याः स्त्रियो वने ॥36॥
सा च मेने तदाऽऽत्मानं वरिष्ठं सर्वयोषिताम् ।
हित्वा गोपीः कामयाना मामसौ भजते प्रियः ॥37॥
ततो गत्वा वनोद्देशं दृप्ता केशवमव्रवीत् ।
न पारयेऽहं चलितुं नय मां यत्र ते मनः ॥38॥
एवमुक्तः प्रियामाह स्कन्द आरुह्यतामिति ।
ततश्चान्तर्दधे कृष्णः सा वधूरन्वतप्यत ॥39॥
हा नाथ रमण प्रेष्ठ क्वासि क्वासि महाभुज ।
दास्यास्ते कृपणाया मे सखे दर्शय सन्निधिम् ॥40॥
अन्विच्छन्त्यो भगवतो मार्गं गोप्योऽविदूरतः ।
ददृशुः प्रियविश्लेषमोहितां दुःखतां सखीम् ॥41॥
तया कथितमाकर्ण्ण्य मानप्राप्तिँ च माधवात् ।
अवमानं च दौरात्म्याद् विस्मयं परमं ययुः ॥42॥
ततोऽविशन् वनं चन्द्रज्योत्स्ना यावद् विभाव्यते ।
तमः प्रविष्टमालक्ष्य ततो निववृतुः स्त्रियः ॥43॥
तन्मनस्कास्तदालापास्तद् विचेष्टास्तदात्मिकाः ।
तद् गुणानेव गायन्त्यो नात्मागाराणि सस्मरुः ॥44॥
पुनः पुलिनमागत्य कालिन्द्याः कृष्णभावनाः ।
समवेता जगुः कृष्णं तदागमनकाङ् क्षिताः ॥45॥
श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्द्धे रासक्रीड़ायां कृष्णान्वेषणं नाम त्रिंशोऽध्यायः ॥30॥
Bhagabat (10 skand [part 1]/ch. 30/1-45) {Raslila}
गोप्य ऊचुः
जयति तेऽधिकं जन्मना व्रजः
श्रयत इन्दिरा शश्वदत्र हि ।
दयित दृश्यतां दिक्षु तावका-
स्त्वयि धृतासवस्त्वां विचिन्वते ॥1॥
शरदुदाशये साधुजातसत्-
सरसिजोदरश्रीमुषा दृशा ।
शुरतनाथ तेऽशुल्कदासिका
वरद निघ्नतो नेह किँ वधः ॥2॥
विषजलाप्ययाद् व्यालराक्षसाद्
वर्षमारुताद् वैद्युतानलात् ।
वृषमयात्मजाद् विश्वतोभया-
दृषभ ते वयं रक्षिता मुहुः ॥3॥
न खलु गोपिकानन्दनो भवा-
नखिलदेहिनामन्तरात्मदृक् ।
विखनसार्थितो विश्वगुप्तये
सख उदेयिवान् सात्वतां कुले ॥4॥
विरचिताभयं वृष्णिधुर्य्य ते
चरणमीयुषां संसृतेर्भयात् ।
करसरोरुहं कान्त कामदं
शिरसि धेहि नः श्रीकरग्रहम् ॥5॥
व्रजजनार्त्तिहन् वीर योषितां
निजजनस्मयध्वंसनस्मित ।
भज सखे भवत् किङ्कंरीः स्म नो
जलरुहाननं चारु दर्शय ॥6॥
प्रणतदेहिनां पापकर्शनं
तृणचरानुगं श्रीनिकेतनम् ।
फणिफणार्पितं ते पदाम्वुजं
कृणु कुचेषु नः कृन्दि हृच्छयम् ॥7॥
मधुरया गिरा वल् गुवाक्यया
वुधमनोज्ञया पुष्करेक्षण ।
विधिकरीरिमा वीर मुह्यती-
रधरसीधुनाऽऽप्याययस्व नः ॥8॥
तव कथामृतं तप्तजीवनं
कविभिरीड़ितं कल्मषापहम् ।
श्रवणमङ्गलं श्रीमदाततं
भुवि गृणन्ति ते भूरिदा जनाः ॥9॥
प्रहसितं प्रिय प्रेमवीक्षणं
विहरणं च ते ध्यानमङ्गलम् ।
रहसि संविदो या हृदिस्पृशः
कुहक नो मनः क्षोभयन्ति हि ॥10॥
चलसि यद् व्रजाच्चरयन् पशून्
नलिनसुन्दरं नाथ ते पदम् ।
शिलतृणाङ्करैः सीदतीति नः
कलिलतां मनः कान्त गच्छति ॥11॥
दिनपरिक्षये नालकुन्तलै-
र्वनरुहाननं दर्शयन् मुहु-
र्मनसि नः स्मरं वीर यच्छसि ॥12॥
प्रणतकामदं पद्मजार्च्चितं
धरणिमण्डनं ध्येयमापदि ।
चरणपङ्कजं शन्तमं च ते
रमण नः स्तनेष्वर्पयाधिहन् ॥13॥
सुरतवर्द्ध्वनं शोकनाशनं
स्वरितवेणुना सुष्ठु चुम्वितम् ।
इतररागविस्मारणं नृणां
वितर वीर नस्तेऽधरामृतम् ॥14॥
अटति यद् भवानह्नि काननं
त्रुटिर्युगायते त्वामपश्यताम् ।
कुटिलकुन्तलं श्रीमुखं च ते
जड़ उदीक्षतां पक्ष्मकृद् दृशाम् ॥15॥
पतिसुतान्वयभ्रातृवान्द्धवा-
नतिविलघ्यं तेऽन्त्यच्युतागताः ।
गतिविदस्तवोद् गीतमोहिताः
कितव योषितः कस्त्यजेन्निशि ॥16॥
रहसि संविदं हृछ्छयोदयं
प्रहसिताननं प्रेमवीक्षणम् ।
वृहदुरः श्रियो वीक्ष्य धाम ते
मुहुरतिस्पृहा मुह्यते मनः ॥17॥
व्रजवनौकसां व्यक्तिरङ्ग ते
वृजिनहन्त्र्यलं विश्वमङ्गलम् ।
त्यज मनाक् च नस्त्वत् स्पृहात्मनां
स्वजनहृद्रुजां यन्निषूदनम् ॥18॥
यत्ते सुजातचरणाम्वुरुहं स्तनेषु
भीताः शनैः प्रिय दधीमहि कर्कशेषु ।
तेनाटवीमटसि तद् व्यथते न किँस्वित्
कूर्पादाभिर्भ्रमति धीर्भवदायुषां नः ॥19॥
श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्दे पूर्वार्द्धे रासक्रीड़ायां गोपीगीतं नामैकत्रिँशोऽध्यायः ॥31॥
Bhagabat (10 skand [part 1]/ch. 31/1-19) {Raslila}
श्रीशुक उवाच
अति गोप्यः प्रगायन्त्यः प्रलपन्त्यश्च चित्रधा ।
रुरुदुः सुस्वरं राजन् कृष्णदर्शनलालसाः ॥1॥
तासामाविरभूच्छैरिः स्मयमानमुखाम्वुजः ।
पीताम्वधरः स्रग् वी साक्षान्मन्मथमन्मथः ॥2॥
तं विलोक्यागतं प्रेष्ठं प्रीत्युत् फुल्ल दृशोऽवलाः ।
उत्तस्थुर्युगपत् सर्वास्तन्वः प्राणमिवागतम् ॥3॥
काचित् कराम्वुजं शौरेर्जगृहेऽञ्जलिना मुदा ।
काचिद् दधार तद् वाहुमंसे चन्दनरूषितम् ॥4॥
काचिदञ्जलिनागृह्णात्तन्वी ताम्वूलचर्वितम् ।
एका तदघ्रिँकमलं सन्तप्ता स्तनयोरधात् ॥5॥
एका भ्रुकुटिमावध्य प्रेमसंरम्भविह्वला ।
घ्नतीवैक्षत् कटाक्षेपैः संदष्टदशनच्छदा ॥6॥
अपरानिमिषद् दृग्भ्यां जुषाणा तन् मुखाम्वुजम् ।
आपीतमपि नातृप्यत् सन्तस्तच्चरणं यथा ॥7॥
तं काचिन्नेत्ररन्द्रेण हृदिकृत्य निमील्य च ।
पुलकाङ्ग्युपगुह्यास्ते योगीवानन्दसंप्लुता ॥8॥
सर्वास्ताः केशवालोकपरमोत्सवनिर्वृताः ।
जहुर्विरहजं तापं प्राज्ञं प्राप्य यथा जनाः ॥9॥
ताभिर्विधूतशोकाभिर्भगवानच्युतो वृतः ।
व्यरोचताधिकं तात पुरुषः शक्तिभिर्यथा ॥10॥
ताः समादाय कालिन्द्या निर्विश्य पुलिनं विमुः ।
विकसत् कुन्दमन्दारसुरभ्यनिलषट् पदम् ॥11॥
शरच्चन्द्रांशुसन्दोहध्वस्तदोषातमः शिवम् ।
कृष्णाया हस्ततरलाचितकोमलवालुकम् ॥12॥
तद्दर्शनाह्लादविधूतहृद्रुजो
मनोरथान्तं श्रुतयो यथा ययुः ।
स्वैरुत्तरीयैः कुचकुङ्कुमाङ्कितै-
रचीक्लृपन्नासनमात्मवन्द्धवे ॥13॥
तत्रोपविष्टो भगवान् स ईश्वरो
योगेश्वरान्तर्हृदि कल्पितासनः ।
चकास गोपीपरिषद् गतोऽर्चित-
स्त्रैलोक्यलक्ष्म्येकपदं वपुर्दधत् ॥14॥
सभाजयित्वा तमनङ्गदीपनं
सहासलीलेक्षणविभ्रमभ्रुवा ।
संस्पर्शनेनाङ्ककृताघ्रिहस्तयोः
संस्तुत्य ईषत् कुपिता वभाषिरे ॥15॥
गोप्य ऊचुः
भजतोऽनुभजन्त्येक एक एतद् विपर्य्ययम् ।
नोभयांश्च भजन्त्येक एतन्नो व्रुहि साधु भोः ॥16॥
श्रीभगवानुवाच
मिथो भजन्ति ये सख्यः स्वार्थैकान्तोद्यमा हि ते ।
न तत्र सौहृदं धर्मः स्वार्थार्थँ तद्ध्वि नान्यथा ॥17॥
भजन्त्यभजतो ये वै करुणाः पितरो यथा ।
धर्मो निरपवादोऽत्र सौहृदं च सुमध्यमाः ॥18॥
भजतोऽपि न वै केचिद् भजन्त्यभजतः कुतः ।
आत्मारामा ह्याप्तकामा अकृतज्ञा गुरुद्रुहः ॥19॥
नाहं तु सख्यो भजतोऽपि जन्तून्
भजाम्यमीषामनुवृत्तिवृत्तये ।
यथाधनो लव्धधने विनष्टे
तच्चिन्तयान्यन्निभृतो न वेद ॥20॥
एवं मदर्थोज् झितलोकवेद-
स्वानां हि वो मय्यनुवृत्तयेऽवलाः ।
मया परोक्षं भजता तिरोहितं
मासूयितुं मार्हथ तत् प्रियं प्रियाः ॥21॥
न पारयेऽहं निरवद्यसंयुजां
स्वसाधुकृत्यं विवुधायुषापि वः ।
या माभजन् दुर्जरगेहशृङ्खलाः
संवृश्च्य तद् वः प्रतियातु साधुना ॥22॥
श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्दे पूर्वार्द्ध्वे रासक्रीड़ायां गोपीसान्त्वनं नाम द्वात्रिँशोऽध्यायः ॥32॥
Bhagabat (10 skand [part 1]/ch. 32/1-22) {Raslila}
श्रीशुक उवाच
इत्थं भगवतो गोप्यः श्रुत्वा वाचः सुपेशलाः ।
जहुर्विरहजं तापं तदङ्गोपचिताशिषः ॥1॥
तत्रारभत गोविन्दो रासक्रीड़ामनुव्रतैः ।
स्त्रीरत्नैरन्वितः प्रीतैरन्योन्यावद्ध्ववाहुभिः ॥2॥
रासोत्सवः सम्प्रवृत्तो गोपीमण्डलमण्डितः ।
योगेश्वरेण कृष्णेन तासां मध्ये द्वयोर्द्वयोः ।
प्रविष्टिन गृहीतानां कण्ठे स्वनिकटं स्त्रियः ॥3॥
यं मन्येरन् नभस्तावद् विमानशतसङ्कुलम् ।
दिवौकसां सदाराणामौत्सुक्यापहृतात्मनाम् ॥4॥
ततो दुन्दुभयो नेदुर्निपेतुः पुष्टवृष्टयः ।
जगुर्गन्दर्वपतयः सस्त्रीकास्तद् यशोऽमलम् ॥5॥
वलयानां नूपुराणां किङ्किणीनां च योषिताम् ।
सप्रियाणामभूच्छद्दस्तुमुलो रासमण्डले ॥6॥
तत्रातिशुशुभे ताभिर्भगवान् देवकीसुतः ।
मध्ये मणीनां हैमानां महामरकतो यथा ॥7॥
पादन्यासैर्भुजविधुतिभिः सस्मितैर्भ्रूविलासै-
र्भज्यन् मध्येश्चलकुचपटैः कुण्डलैर्गण्डलोलैः ।
स्विद्यन् मुख्यः कवररशनाग्रन्थयः कृष्णवध्वो
गायन्त्यस्तं तडित इव ता मेघचक्रे विरेजुः ॥8॥
उच्चैर्जगुर्नृत्यमाना रक्तकण्ठ्यो रतिप्रियाः ।
कृष्णाभिमर्शमुदिता यद्गीतेनेदमावृतम् ॥9॥
काचित् समं मुकुन्दिन स्वरजातीरमिश्रिताः ।
उन्निन्ये पूजिता तेन प्रीयता साधु साध्विता ।
तदेव ध्रुवमुन्निन्ये तस्यै मानं च वह्वदात् ॥10॥
काचाद् रासपरिश्रान्ता पार्श्वस्थस्य गदाभृतः ।
जग्राह वाहुना स्कन्द्धं श्लथद् वलयमल्लिका ॥11॥
तत्रैकांसगतं वाहुं कृष्णस्योत्पलसौरभम् ।
चन्दनालिप्तमाघ्राय हृष्टरोमा चुचुम्व ह ॥12॥
कस्याश्चिन्नाट्यविक्षिप्तकुण्डलत्विषमण्डितम् ।
गण्डं गण्डे सन्दधत्या अदात्ताम्वूलचर्वितम् ॥13॥
नृत्यन्ती गायती काचित् कूजन्नूपुरमेखला ।
पार्श्वस्थाच्युतहस्तव्जं श्रान्ताधात् स्तनयोः शिवम् ॥14॥
गोप्यो लव् ध्वाच्युतं कान्तं श्रिय एकान्तवल्लभम् ।
गृहीतकण्ठ्यस्तद्दोर्भ्यां गायन्त्यस्तं विजह्रिरे ॥15॥
कर्ण्णोत्पलालकविटङ्ककपोलघर्म-
वक्त्रश्रियो वलयनूपुर घोषवाद्यैः ।
गोप्यः समं भगवता ननृतुः स्वकेश-
स्रस्तस्रजो भ्रमरगेयकरासगोष्ठ्याम् ॥16॥
एवं परिष्वङ्गकराभिमर्श-
स्निग्धेक्षणोद्दामविलासहासैः ।
रेमे रमेशो व्रजसुन्दरीभि-
र्यथार्भकः स्वप्रतिविम्वविभ्रमः ॥17॥
तदङ्गसङ्गप्रमुदाकुलेन्द्रियाः
केशान् दुकूलं कुचपट्टिकां वा ।
नाज्ञः प्रतिव्योढुमलं व्रजस्त्रियो
विस्रस्तमालाभरणाः कुरूद् वह ॥18॥
कृष्णविक्रीड़ितं वीक्ष्य मुमुहः खेचरस्त्रियः ।
कामार्दिताः शशाङ्खश्च सगणो विस्मितोऽभवत् ॥19॥
कृत्वा तावन्तमात्मानं यावतीर्गोपयोषितः ।
रेमे स भगवांस्ताभिरात्मारोमोऽपि लीलया ॥20॥
तासामतिविहारेण श्रान्तानां वदनानि सः ।
प्रामृजत् करुणः प्रेम्णा शन्तमेनाङ्ग पाणिना ॥21॥
गोप्यः स्फुरत् पुरटकुण्डलकुन्तलत्वित्-
गण्डश्रिया सुधितहासनिरीक्षणेन ।
मानं दधत्य ऋषमस्य जगुः कृतानि पुण्यानि कत्कररुहस्पर्शप्रमोदाः ॥22॥
ताभिर्युतः श्रममपोहितुमङ्गसङ्ग-
घृष्टस्रजः स कुचकुङ्कुमरञ्जितायाः ।
गन्द्धर्वपालिमिरनुद्रुत आविशद् वाः
श्रान्तो गजीभिरिभराडिव भिन्नसेतुः ॥23॥
सोऽम्भस्यलं युवतिभिः परिषिच्यमानः
प्रेम्णेक्षितः प्रहसतीभिरितस्ततोऽङ्ग ।
वैमालिकैः कुसुमवर्षिभिरीत्यमानो
रेमे स्वयं स्वरतिरत्र गजेन्द्रलीलः ॥24॥
ततश्च कृष्णोपवने जलस्थल-
प्रसूनगन्द्धानिलजुष्टदिक् तटे ।
चचोर भृङ्गप्रमदागणावृतो
यथा भदच्युद् द्विरदः करेणुभिः ॥25॥
एवं शशाङ्काशुभिराजिता नाशाः
स सत्यकामोऽनुरतावलागणः ।
सिषेव आत्मन्यवरुद्ध्वसौरतः
सर्वाः शरत् काव्यकथारसाश्रयाः ॥26॥
राजोवाच
संस्थापनाय धर्मस्य प्रशमायेतरस्य च ।
अवतीर्ण्णो हि भगवानंशेन जगदीश्वरः ॥27॥
स कथं धर्मसेतूनां वक्ता कर्त्ताभिरक्षिता ।
प्रतीपमाचरद् व्रह्मन् परदाराभिमर्शनम् ॥28॥
आप्तकामो यदुपतिः कृतवान् वै जुगुप् सितम् ।
किमभिप्राय एतं नः संशयं छिन्द्धि सुव्रत ॥29॥
श्रीशुक उवाच
धर्मव्यतिक्रमो दृष्ट ईश्वराणां च साहसम् ।
तेजीयसां न दोषाय वह्नेः सर्वभूजो यथा ॥30॥
नैतत् समाचरेज्जातु मनसापि ह्यनीश्वरः ।
विनश्यत्याचरन् मौढ़्याद् यथारुद्रोऽव्धिजं विषम् ॥31 ॥
ईश्वराणां वचः सत्यं तथैवाचरितं क्वचित् ।
तेषां यत् स्ववचोयुक्तं वुद्ध्विमांस्तत् समाचरेत् ॥32॥
कुशलाचरितेनैषामिह स्वार्थो न विद्यते ।
विपर्य्ययेण वानर्थो निरहंकारिणां प्रभो ॥33॥
किमुताखिलसत्त्वानां तिर्यङ्मर्त्त्यदिवौकसाम् ।
ईशितुश्चेशितव्यानां कुशलाकुशलान्वयः ॥34॥
यत्पादपङ्कजपरागनिषेवतृप्ता
योगप्रभावविधुताखिलकर्मवन्द्धाः ।
स्वैरं चरन्ति मुनयोऽपि न नह्यमाना-
स्तस्येच्छयाऽऽत्तवपुषः कुत एव वन्द्धः ॥35॥
गोपीनां तत्पतीनां च सर्वेषामेव देहिनाम् ।
योऽन्तश्चरति सोऽध्यक्षः क्रीड़नेनेह देहभाक् ॥36॥
अनुग्रहाय भूतानां मानुषं देहमास्थितः ।
भजते तादृशीः क्रीड़ा याः श्रुत्वा तत् परो भवेत् ॥37॥
नासूयन् खलु कृष्णाय मोहितास्तस्य मायया ।
मन्यमानाः स्वपार्श्वस्थान् स्वान् स्वान् व्रजौकसः ॥38॥
व्रह्मरात्र उपावृत्ते वासुदेवानुमोदिताः ।
अनिच्छन्त्यो ययुर्गोप्यः स्वगृहान् भगवत् प्रियाः ॥39॥
विक्रीड़ितं व्रजवधूभिरिदं च विष्णोः
श्रद्द्धान्वितोऽनुशृणुयादथ वर्ण्णयेद् यः ।
भक्तिँ परां भगवति प्रतिलभ्य कामं
हृद्रोगमाश्वपहिनोत्यचिरेण धीरः ॥40॥
श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्द्धे पूर्वार्द्द्धे रासक्रीड़ावर्ण्णनं नाम त्रयस्त्रिँशोऽध्यायः ॥33॥
Bhagabat (10 skand [part 1]/ch. 33/1-40) {महारास}

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें