शनिवार, 20 मार्च 2021

अम्बास्तोत्रं स्वामी विवेकानन्दरचितम्

 

अम्बास्तोत्रं स्वामी विवेकानन्दरचितम्

का त्वं शुभकरे सुखदुःखहस्ते आघूर्णितं भवजलं प्रबलोर्मिभङ्गैः । शांतिं विधातुमिह किं बहुधा विभग्नाम् मतः प्रयत्नपरमासि सदैव विश्वे ॥ १॥ सम्पादयत्यविरतं त्वविरामवृता या वै स्थिता कृतफलं त्वकृतस्य नेत्री । सा मे भवत्वनिदिनं वरदा भवानी जानाम्यहं ध्रुवमिदं धृतकर्मपाशा ॥ २॥ को वा धर्मः किमकृतं क्वः कपाललेखः किंवादृष्टं फलमिहास्ति हि यां विना भोः । इच्छापाशैर्नियमिता नियमाः स्वतंत्रैः यस्या नेत्री भवति सा शरणं ममाद्या ॥ ३॥ सन्तानयन्ति जलधिं जनिमृत्युजालम् सम्भावयन्त्यविकृतं विकृतं विभग्नम् । यस्या विभूतय इहामितशक्तिपालाः नाश्रित्य तां वद कुत शरणं व्रजामः ॥ ४॥ मित्रे रिपौ त्वविषमं तव पद्मनेत्रम् स्वस्थे दुःस्थे त्ववितथं तव हस्तपातः । मृत्युच्छाया तव दया त्वमृतञ्च मातः मा मां मुञ्चन्तु परमे शुभदृष्टयस्ते ॥ ५॥ क्वाम्बा सर्वा क्व गणनं मम हीनबुद्धेः धत्तुं दोर्भ्यामिव मतिर्जगदेकधात्रीम् । श्रीसञ्चिन्त्यं सुचरणमभयपतिष्ठम् सेवासारैरभिनुतं शरणं प्रपद्ये ॥ ६॥ या मामा जन्म विनयत्यतिदुःखमार्गैः आसंसिद्धेः स्वकलितैर्ल्ललितैर्विलासैः । या मे बुद्धिं सुविदधे सततं धरण्यम् साम्बा सर्वा मम गतिः सफले फले वा ॥ ७॥ इति अम्बास्तोत्रं सम्पूर्णम् ।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

कुलदेवी का पता लगाने का शक्तिशाली मंत्र - 21 दिन की साधना

 🙏 कुलदेवी का पता लगाने का शक्तिशाली मंत्र - 21 दिन की साधना 🙏 नमस्ते दोस्तों, आज मैं आपको एक ऐसे शक्तिशाली मंत्र और साधना के बारे में बता...