गुरुवार, 11 मार्च 2021

अङ्गारकस्तोत्रम्

 

अङ्गारकस्तोत्रम्

अस्य श्री अङ्गारकस्तोत्रस्य । विरूपाङ्गिरस ऋषिः । अग्निर्देवता । गायत्री छन्दः । भौमप्रीत्यर्थं जपे विनियोगः । अङ्गारकः शक्तिधरो लोहिताङ्गो धरासुतः । कुमारो मङ्गलो भौमो महाकायो धनप्रदः ॥ १॥ ऋणहर्ता दृष्टिकर्ता रोगकृद्रोगनाशनः । विद्युत्प्रभो व्रणकरः कामदो धनहृत् कुजः ॥ २॥ सामगानप्रियो रक्तवस्त्रो रक्तायतेक्षणः । लोहितो रक्तवर्णश्च सर्वकर्मावबोधकः ॥ ३॥ रक्तमाल्यधरो हेमकुण्डली ग्रहनायकः । नामान्येतानि भौमस्य यः पठेत्सततं नरः ॥ ४॥ ऋणं तस्य च दौर्भाग्यं दारिद्र्यं च विनश्यति । धनं प्राप्नोति विपुलं स्त्रियं चैव मनोरमाम् ॥ ५॥ वंशोद्द्योतकरं पुत्रं लभते नात्र संशयः । योऽर्चयेदह्नि भौमस्य मङ्गलं बहुपुष्पकैः ॥ ६॥ सर्वा नश्यति पीडा च तस्य ग्रहकृता ध्रुवम् ॥ ७॥ ॥ इति श्रीस्कन्दपुराणे अङ्गारकस्तोत्रं संपूर्णम् ॥

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

କୁଲରରେ ପାଣି ମିଶାଇଲେ ଥଣ୍ଡା ପବନ କାହିଁକି ଉତ୍ପନ୍ନ ହୁଏ ?

କୁଲରରେ ପାଣି ମିଶାଇଲେ ଥଣ୍ଡା ପବନ କାହିଁକି ଉତ୍ପନ୍ନ ହୁଏ ? ଗ୍ରୀଷ୍ମ ଋତୁରେ, ଯେତେବେଳେ ଆମେ କୁଲରକୁ ଚାଲୁ କରି ପାଣି ମିଶାଇଥାଉ, ଅଳ୍ପ ସମୟ ମଧ୍ୟରେ କୁଲରରୁ ଥଣ୍ଡା ...