बुधवार, 31 मार्च 2021

आर्यापञ्चदशीस्तोत्रम्

 

आर्यापञ्चदशीस्तोत्रम्

करकलितचापबाणां कल्हाराङ्घ्रिं नमामि कल्याणीम् । कंदर्पदर्पजननीं कलुषहरां कामितार्थफलदात्रीम् ॥ १ ॥ एषा स्तोतुम् वाणी नैव समर्था तवेशि महिमानम् । शेषोऽप्यब्दसहस्रैः शेषं कृतवान् महेशि तव चरितम् ॥ २ ॥ ईशित्वादिसुपूज्यामिन्दिन्दिरकेशाभारसूल्लसिताम् । इन्दीवरदलनयनामीप्सितदात्रीं नमामि शर्वाणीम् ॥ ३ ॥ लसदरुणभानुकोटिद्युतिनिधिमम्बां सुरेन्द्रलक्ष्यपदाम् । ललितां नमामि बाले ललितशिवहृदयकमलकलहंसीम् ॥ ४ ॥ ह्रींकारबीजरूपे हिमगिरिकन्ये हरीन्द्रभववन्द्ये । हिमकरधवलच्छत्रे हिताय भव नः सदा महाराज्ञि ॥ ५ ॥ हर्षोत्करजनयित्री हसितज्योत्स्ना तवेयमनवद्ये । हरगलहालाहलमपि हरति त्रैलोक्यमोहतिमिरं ते ॥ ६ ॥ सकलमनोरथदाने सत्यपि चरणे नतस्य तव निपुणे । संसेव्यते सुरतरुः सदाज्ञलोकैर्नु कृच्छ्रफलदाता ॥ ७ ॥ कनकरुचे चटुलगते कठिनस्तनभारनम्रकृशमध्ये । कान्ते कङ्कणहस्ते कम्बुग्रीवे नमोऽस्तु ते करुणे ॥ ८ ॥ हरनयनानन्दकरे हराङ्कसंस्थे हरिप्रमुखवन्द्ये । हरनटनसाक्षिभूते हरार्धदेहे नमोऽस्तु ते सुकृपे ॥ ९ ॥ लक्ष्मीप्रदकरुणा या लक्ष्मीपतिमल्पमम्ब कर्तुमलम् । लक्ष्यम् कुरु मां तस्या लावण्यामृततरङ्गमाले त्वम् ॥ १० ॥ ह्रींकाररत्नगर्भे हेमाचलमन्दरस्तनोल्लसिते । हेरम्बप्रियजननि हे वसुधे देहि मे क्षमां नित्यम् ॥ ११ ॥ सत्संप्रदायविदिते सकलागमनिगमसारतत्त्वमयि । सावित्र्यर्पय वदने सकलरसाश्रयसुवाक्सुधाधाराम् ॥ १२ ॥ करकङ्कणमणिदिनमणिकरविकसितचरणकमलमकरन्दम् । करुणापयोनिधे मे कामाक्षि स्वान्तषट्पदः पिबतु ॥ १३ ॥ लसदिक्षुचापसुमशरलक्षितदोर्वल्लिवीर्यमभयेन । लक्षाधिकदैत्यकुलं लवुपटवासं कृतं कथं चित्रम् ॥ १४ ॥ ह्रींकारकेलिभवने हिमकरमौल्यङ्कमञ्जुपर्यङ्के । हृदयसरोजे मे वस हृदयानन्दप्रबोधपरहंसि ॥ १५ ॥ आर्यापञ्चदशीं तामार्यां यो भजति शुद्धधीर्नित्यम् । भार्ये लक्ष्मीवाण्यौ पर्यातात् तस्य सादरं भवतः ॥ १६ ॥ इत्यानन्दनाथपादपद्मोपजीविना काश्यपगोत्रोत्पन्नेनान्ध्रेण त्यागराजनाम्ना विरचितमार्यापञ्चदशीस्तोत्रं संपूर्णम्

मंगलवार, 30 मार्च 2021

आर्तत्राणस्तोत्रम् गङ्गाधरस्तोत्रम् च

 

आर्तत्राणस्तोत्रम् गङ्गाधरस्तोत्रम् च

अप्पयदीक्षितविरचितम् क्षीराम्भोनिधिमन्थनोद्भवविषात् सन्दह्यमानान् सुरान् ब्रह्मादीनवलोक्य यः करुणया हालाहलाख्यं विषम् । निश्शङ्कं निजलीलया कवलयन् लोकान् ररक्षादरात् आर्तत्राणपरायणः स भगवान् गङ्गाधरो मे गतिः ॥ १॥ क्षीरं स्वादु निपीय मातुलगृहे गत्वा स्वकीयं गृहं क्षीरालाभवशेन खिन्नमनसे घोरं तपः कुर्वते । कारुण्यादुपमन्यवे निरवधिं क्षीराम्बुधिं दत्तवान् आर्तत्राणपरायणः स भगवान् गङ्गाधरो मे गतिः ॥ २॥ मृत्युं वक्षसि ताडयन् निजपदध्यानैकभक्तं मुनिं मार्कण्डेयमपालयत् करुणया लिङ्गाद्विनिगत्य यः । नेत्राम्भोजसमर्पणेन हरयेऽभीष्टं रथाङ्गं ददौ आर्तत्राणपरायणः स भगवान् गङ्गाधरो मे गतिः ॥ ३॥ ऊढं द्रोणजयद्रथादिरथिकैः सैन्यं महत् कौरवं दृष्ट्वा कृष्णसहायवन्तमपि तं भीतं प्रपन्नार्तिहा । पार्थं रक्षितवानमोघविषयं दिव्यास्त्रमुद्घोषयन् आर्तत्राणपरायणः स भगवान् गङ्गाधरो मे गतिः ॥ ४॥ बालं शैवकुलोद्भवं परिहसत्स्वज्ञातिपक्षाकुलं खिद्यन्तं तव मूर्ध्नि पुष्पनिचयं दातुं समुध्यत्करम् । दृष्ट्वाऽऽनम्य वरिञ्चिरम्यनगरे पूजां त्वदीयां भजन् आर्तत्राणपरायणः स भगवान् गङ्गाधरो मे गतिः ॥ ५॥ सन्त्रस्तेषु पुरा सुरासुरभयादिन्द्रादिवृन्दारके- ष्वारूढो धरणीरथं श्रुतिहयं कृत्वा मुरारिं शरम् । रक्षन् यः कृपया समस्तविबुधान् जित्वा पुरारीन् क्षणात् आर्तत्राणपरायणः स भगवान् गङ्गाधरो मे गतिः ॥ ६॥ श्रौतस्मार्तपथे पराङ्मुखमपि प्रोद्यन्महापातकं विश्वातीतमपत्यमेव गतिरित्यालापयन्तं सकृत् । रक्षन् यः करुणापयोनिधिरिति प्राप्तप्रसिद्धिः पुरा ह्यार्तत्राणपरायणः स भगवान् गङ्गाधरो मे गतिः ॥ ७॥ गाङ्गं वेगमवाप्य मान्यविबुधैः सोढुं पुरा याचितो दृष्ट्वा भक्तभगीरथेन विनतो रुद्रो जटामण्डले । कारुण्यादवनीतले सुरनदीमापूरयतपावनीं आर्तत्राणपरायणः स भगवान् गङ्गाधरो मे गतिः ॥ ८॥ ॥ इति श्रीमदप्पयदीक्षितविरचितं आर्तत्राणस्तोत्रं सम्पूर्णम् ॥

सोमवार, 29 मार्च 2021

आनन्दसागरस्तवः

 

आनन्दसागरस्तवः

॥ आनन्दसागरस्तवः ॥ विज्ञापनार्हविरलावसरानवाप्त्या मन्दोद्यमे मयि दवीयसि विश्वमातुः । अव्याजभूतकरुणापवनापविद्धा- न्यन्तः स्मराम्यहमपाङ्गतरङ्गितानि ॥ १ ॥ आवेद्यतामविदितं किमथाप्यनुक्तं वक्तव्यमान्तररुजोपशमाय नालम् । इत्यर्थ्यसे किमपि तच्छ्रवणे निधातुं मातः प्रसीद मलयध्वजपाण्ड्यकन्ये ॥२॥ आक्रन्दितं रुदितमाहतमानने वा कस्यार्द्रमस्तु हृदयं किमतः फलं वा । यस्या मनो द्रवति या जगतां स्वतन्त्रा तस्यास्तवाम्ब पुरतः कथयामि खेदम् ॥ ३ ॥ पर्याकुले मनसि वाचि परिस्खलन्त्यां आवर्तगर्त इव चक्षिषि घूर्णमाने । कस्तेऽभिदास्यति शिवे ममतामवस्थां काले दयस्व कथयामि तवाधुनैव ॥ ४ ॥ भक्तिं करोतु नितरां सुरजातिमात्रे ग्रामीणजन्तुरिव पौरजनेषु लोकः । अन्यत्र देवि भवदीयपदारविन्दा- दाकृष्यमाणमपि मे हृदयं न याति ॥ ५ ॥ अङ्गीकुरु त्वमवधीरय वा वयं तु दासास्तवेति वचसैव जयेम लोकान् । एतावतैव सुकरो ननु विश्वमातः उद्दण्डदण्डधरकिङ्करमौलिभङ्गः ॥ ६ ॥ वेदान्तवाक्यजनितं विमलं विचारैः आसाद्य बोधमनुचिन्तनतोऽपरोक्षम् । मुक्तिं व्रजन्ति मनुजा इति सूक्तिमाद्या- मालम्ब्य कस्तरितुमर्हति शैलकन्ये ॥ ७ ॥ एकैकवेदविषयाः कति नामशाखा- स्तासां शिरांसि कति नाम पृथग्विधानि । अर्थावबोधविधुरोऽक्षरलाभ एव केषां नृणां कतिभिरस्तु शरीरबन्धैः ॥ ८ ॥ न्यायाः परस्परविभिन्नदिशः सहस्र- मुच्छावचानि च भवन्त्युपबृंहणानि । एवं स्थिते गिरिसुते निगमोपलानां तात्पर्यसारमवधारयितुं क्षमः कः ॥ ९ ॥ अस्त्वक्षरग्रहविधिर्जनुषां सहस्रै- रापाततो भवतु नाम ततोऽर्थबोधः । दुर्वादिकल्पितविकल्पतरङ्गसान्द्रान् दुष्पूर्वपक्षजलधीन् कथमुत्तरेयः ॥ १० ॥ ब्रह्मेति शक्तिरिति बन्धविमोचनीति मायामयीति मदनान्तकवल्लभेति । सप्ताष्टशब्दपरिवर्तनमात्र एव सामर्थ्यमावहति शास्त्रपरिश्रमोऽयम् ॥ ११ ॥ तस्यै प्रसीदसि गिरीन्द्रसुते य इत्थं सम्पादयेत शनकैरपरोक्षबोधम् । यस्मै प्रसीदसि स च क्षमतेऽवबोद्धु- मित्थं परस्परसमाश्रयमेतदास्ते ॥ १२ ॥ आकर्णय त्वमिममभ्युपगम्य वादं जानातु कोऽपि यदि वा हृदयं श्रुतीनाम् । तस्याप्यसङ्ख्यभवबन्धशतार्जितोऽयं द्वैतभ्रमो गलतु जन्मशतैः कियद्भिः ॥ १३ ॥ काले महत्यनवधावपतन्क्वदापि क्वाप्यन्तिमे जनुषि कोऽपि गतिं लभेत । इत्थं समर्थनविधिः परमागमानां पर्यायसूक्तिविधया नयनं नञर्थे ॥१४ ॥ एकापवर्गसमये जगतोऽपवर्गः सर्वापवर्गसमये पुनरस्तशङ्कः । ईदृग्विधं कमपि पक्षमिहावलम्ब्य स्थातुं सुखं क्षममनेव पथा प्रवृत्तैः ॥ १५ ॥ अभ्यस्य वेदमवधार्य च पूर्वतन्त्र- मालक्ष्य शिष्टचरितानि पृथग्विधानि । अध्यापनादिभिरवाप्य धनं च भूरि शर्माणि मातरलसाः कथमाचरेयुः ॥ १६ ॥ आयस्य तावदपि कर्म करोतु कश्चि- त्तेनापि मातरधिकं किमिवानुभाव्यम् । अस्ते सुखं य इह भारतवर्षसीम- न्यास्ते स किञ्चिदित उत्तरतोऽपसृत्य ॥ १७ ॥ कर्म त्यजेम यदि नूनमधः पतेम यद्याचरेम न कदापि भवं तरेम । कर्म त्यजेदिति चरेदिति च प्रवृत्ताः भावेन केन निगमा इति न प्रतीमः ॥ १८ ॥ कर्मण्यकर्मविधिरेष यदाचरन्ति कर्माणि तत्तदनुबन्धजिहासयेति । सत्यं तथाप्यभिनवो भविता न बन्धः प्राचीनबन्धहरणे क इवाभ्युपायः ॥ १९ ॥ प्रारब्धकर्म कियदारभते कियद्वा प्रारप्स्यते कियदिदं क इवावधत्ताम् । कालः कियानिव मया प्रतिपालनीयो यस्य क्षणार्धमपि कल्पशतत्वमेति ॥ २० ॥ पुंसः क्षणार्धमपि संसरणाक्षमस्य साङ्ख्यादयः सरणयो न विशन्ति कर्णम् । सङ्ख्याय गाङ्गसिकताः सकलाश्च सूक्ष्मा भुङ्क्ष्वेति वागिव महाक्षुधयार्दितस्य ॥ २१ ॥ भक्तिस्तु का यदि भवेद्रतिभावभेद- स्तत्केवलान्वयितया विफलैव भक्तिः । प्रीतिस्त्वयि त्रिजगदात्मनि कस्य नास्ति स्वात्मद्रुहो न खलु सन्ति जनास्त्रिलोक्याम् ॥ २२ ॥ आत्मा समस्तजगतां भवतीति सम्य- ग्विज्ञाय यद्वितनुते त्वयि भावबन्धम् । सा भक्तिरित्यभिमतं यदि सिद्धमिष्टं व्यर्थं विशेष्यमलमस्तु विशेषणं नः ॥ २३ ॥ स्वात्मेतरत्वमवधार्य परत्वबुद्ध्या यत्प्रीयते गुरुजनेष्विव सैव भक्तिः । स्यादेतदेवमियमेव तु मे जिहास्या द्वैतभ्रमात्किमधिकं भवबन्धमूलम् ॥ २४ ॥ सेवैव भक्तिरिति कर्मपथप्रवेशः सेव्यप्रसादफलका किल कर्मसेवा । ध्यानप्रवाह इति चेच्छ्रवणात् तृतीयः प्रागेव मातरयमाकलितोऽभ्युपायः ॥ २५ ॥ अत्रैव दास्यसि विमुक्तिमथापि याचे मातः शरीरपतनं मणिकर्णिकायाम् । अस्तु स्वकृत्यमनुकम्पनमीश्वराणां दासस्य कर्मकरतैव तथा स्वकृत्यम् ॥ २६ ॥ सद्यो भवेत्सुकृतिनामुपदेशलाभः पापात्मनां बहुतिथे समये व्यतीते । इत्यादिभिः किल पुराणवचोभिरम्ब वाराणसीमपि न याचितुमुत्सुकोऽस्मि ॥ २७ ॥ आक्रान्तमन्तररिभिः मदमत्सराद्यैः गात्रं वलीपलितरोगशतानुविद्धम् । दारैः सुतैश्च गृहमावृतमुत्तमर्णैः मातः कथं भवतु मे मनसः प्रसादः ॥ २८ ॥ धन्याः कति त्रिभुवने परमोपभाग्यं संसारमेव परमेश्वरि भावयन्तः । आभासरूपमवबोधमिमं समेत्य क्लिश्ये कियत्कियदहं त्वमुना भवेन ॥ २९ ॥ का संस्कृतिः किमपचारनिबन्धनेयं कीदृग्विधस्य तव किं क्षतमेतयेति । प्रश्ने तु नास्मि कुशलः प्रतिवक्तुमेव खेदस्तु मे जननि कोऽप्ययमेवमास्ते ॥ ३० ॥ एवं गतस्य मम साम्प्रतमेतदर्ह- मत्रेदमौपयिकमित्थमिदं च साध्यम् । अस्मिन्प्रमाणमिदमित्यपि बोद्धुमम्ब शक्तिर्न मे भुवनसाक्षिणि किं करोमि ॥ ३१ ॥ न ज्ञायते मम हितं नितरामुपायो दीनोऽस्मि देवि समयाचरणाक्षमोऽस्मि । तत्त्वामनन्यशरणः शरणं प्रपद्ये मीनाक्षि विश्वजननीं जननीं ममैव ॥ ३२ ॥ किञ्चिन्मया श्रुतिषु किञ्चिदिवागमेषु शास्त्रेषु किञ्चिदुपदेशपथेषु किञ्चित् । आघ्रातमस्ति यदतो भवतीं वरीतुं गोप्त्रीति काचिदुदपद्यत बुद्धिरेषा ॥ ३३ ॥ ब्रह्मैवमेवमहमेष तदाप्त्युपाय इत्यागमार्थविधुराः प्रथमे दयार्हाः । त्वद्रक्षकत्वगुणमात्रविदो द्वितीया इत्यर्थये सदधिकार निरूपणाय ॥ ३४ ॥ माता करोषि ममतां मयि यावदीश- त्तावद्यते मम ततः किमिवास्ति साध्यम् । मामित्थमित्थमुपयुङ्क्ष्व न विस्मरेति किं स्वामिनं त्वरयते क्वचन स्वभृत्यः ॥ ३५ ॥ त्याज्यं त्यजानि विहितं च समाचराणि नित्येषु शक्तिमनुरुध्य हु वर्तितव्यम् । तद्बुद्धिशक्तिमनुरुद्ध्य न कार्यशक्ति- मित्येतदेव तु शिवे विनिवेदयामि ॥ ३६ ॥ आत्मैव भार इति तं त्वयि यो निधत्ते सोऽङ्गानि कानि कलयत्वलसः प्रपत्तेः । विश्वस्य साक्षिणि विलक्षणलक्षणा या विस्रम्भसम्पदियमेव समस्तमङ्गम् ॥ ३७ ॥ त्वत्प्रेरणेन मिषतः श्वसतोऽपि मातः प्रामादिकेऽपि सति कर्मणि मे न दोषः । मात्रैव दत्तमशनं ग्रसतः सुतस्य को नाम वक्ष्यति शिशोरतिभुक्तिदोषम् ॥ ३८ ॥ मुक्तिं निषाधयिषतां निजयैव बुद्ध्या प्रारब्धकर्म भवतु प्रतिबन्धहेतुः । त्वामेव साधनतयापि समाश्रितानां तुल्यं तदम्ब यदि कस्तव वीरवादः ॥ ३९ ॥ प्रारब्धकर्म गिरिजे भवदाश्रिताना- मन्यत्र संक्रमय नाशय वा समूलम् । मर्त्याश्च खल्वपि विषं वपुषि प्रसक्तं संक्रामयन्ति परतोऽपि च नाशयन्ति ॥ ४० ॥ त्वद्दर्शनश्रवणचिन्तनवन्दनादि- ष्वक्षाणि देवि विनियुज्य यथाधिकारम् । रक्षेत्यसङ्ख्यभवसम्भृतयैव मैत्र्या रुन्ध्यां यदि स्थिरममून्यधुनैव न स्युः ॥ ४१ ॥ त्रातव्य एष इति चेत्करुणा मयि स्या- त्त्रायस्व किं सुकृतदुष्कृतचिन्तया मे । कर्तुं जगत्तिरयितुं च विश‍ृंखलायाः कर्मानुरोध इति कं प्रति वञ्चनेयम् ॥ ४२ ॥ त्वय्यर्पितं प्रथममप्पययज्वनैव स्वात्मार्पणं विदधता स्वकुलं समस्तम् । का त्वं महेशि कुलदासमुपेक्षितुं मां को वानुपासितुमहं कुलदेवतां त्वाम् ॥ ४३ ॥ मौढ्यादहं शरणयामि सुरान्तरं चे- त्किं तावता स्वमपि तस्य भवामि मातः । अज्ञानतः परगृहं प्रविशन्परस्य स्वत्वं प्रयास्यति पशुः किमु राजकीयः ॥ ४४ ॥ आधाय मूर्धनि वृथैव भरं महान्तं मूर्खा निमज्जथ कथं भवसागरेऽस्मिन् । विन्यस्य भारमखिलं पदयोर्जनन्या विस्रब्धमुत्तरत पल्वलतुल्यमेनम् ॥ ४५ ॥ क्वेदं पतिष्यति वपुः क्व ततो नु गम्यं को दण्डयिष्यति कियंतमनेहसं वा । किं तस्य सन्तरणसाधनमित्यनन्ता चिन्ता स्थिता त्वयि शनैरवतारिता सा ॥ ४६ ॥ ज्ञानं विशेयमुत तेन विनोद्धरेयं प्रारब्धमप्यपलपेयमुतानुरुंध्याम् । इत्थं सकृत्प्रपदनैकवशंवदाया मातुर्मयि प्रववृते महतीह चिन्ता ॥ ४७ ॥ एतज्जडाजडविवेचनमेतदेव क्षित्यादितत्वपरिशोधनकौशलं च । ज्ञानं च शैवमिदमागमकोटिलभ्यं मातुर्यदङ्घ्रियुगले निहितो मयात्मा ॥ ४८ ॥ षट्त्रिंशदावरणमध्यजुषि त्वदङ्घ्रौ हालास्यनाथदयिते निहितो मयात्मा । भूभुतलत्रिदिववर्तिषु कः क्षमेत तच्चक्षुशादि निभृतेन निरीक्षितुं माम् ॥ ४९ ॥ बन्धं हरिष्यसि सुखं वितरिष्यसीति निश्चप्रचं निखिलमम्ब तदास्त एव । सम्प्रत्यहं त्वयि निधाय भरं समस्तं यानिर्वृणोमिकिमितोऽपि ममापवर्गे ॥ ५० ॥ काश्यां निपातय वपुः श्वपचालये वा स्वर्गं नय त्वमपवर्गमधोगतिं वा । अद्यैव वा कुरु दयां पुनरायतौ वा कः सम्भ्रमो मम धने धनिनः प्रमाणम् ॥ ५१ ॥ नाहं सहे तव कथाश्रवणान्तरायं नाहं सहे तव पदार्चनविच्युतिं वा । मोक्षं दिशैतदविरुद्धमिदं न चेत्या- न्नैवास्तु मातरपवर्गमहोपसर्गः ॥ ५२ ॥ आचूडमाचरणमम्ब तवानुवार- मन्तःस्मरन्भुवनमङ्गलमङ्गमङ्गम् । आनन्दसागरतरङ्गपरम्पराभि- रान्दोलितो न गणयामि गतान्यहानि ॥ ५३ ॥ पाषाणतोऽपि कठिने शिरसि श्रुतीनां प्रायः परिक्रमवशादिव पाटलाभम् । अम्ब स्मरेयममृतार्णवमाथलब्ध- हैय्यङ्गवीनसु कुमारमिदं पदं ते ॥ ५४ ॥ ये नाम सन्ति कतिचिद्गुरविस्त्रिलोक्यां तेषामपि स्वयमुपेतवता गुरुत्वम् । पादेन मूर्ध्नि विधृतेन वयं तवाम्ब संसारसागरमिमं सुखमुत्तरामः ॥ ५५ । साधारणे स्मरजये नितिलाक्षिसाध्ये भागी शिवो भजतु नाम यशः समग्रम् । वामाङ्घ्रिमात्रकलिते जननि त्वदीये का वा प्रसक्तिरपि कालजये पुरारेः ॥ ५६ ॥ स्यात्कोमलं यदि मनो मम विश्वमातः तत्पादयोर्मृदुलयोस्तव पादुकाऽस्तु । स्यात्कर्कशं यदि करग्रहणे पुरारेः अश्माधिरोपणविधौ भवतूपयोगः ॥ ५७ ॥ प्रस्निग्धमुग्धरुचिपादतले भवत्या लग्नं दृढं यदिह मे हृदयारविन्दम् । एषैव साग्रभुवनद्विशतीपतित्व- साम्राज्यसूचनकरी तव पद्मरेखा ॥ ५८ ॥ अप्राकृतं मृदुलतामविचिन्त्य किञ्चि- दालम्बितासि पदयोः सुदृढं मया यत् । तन्मे भवार्णवनिमज्जनकातरस्य मातः क्षमस्व मधुरेश्वरि बालकृत्यम् ॥ ५९ ॥ यत्रानमन्पशुपतिः प्रणयापराधे मन्दं किल स्पृशति चन्द्रकलाञ्चलेन । पुष्पार्चनेऽपि मृदितं पदयोर्युगं त- न्मातस्तुदन्ति न कथं परुषा गिरो मे ॥ ६० ॥ अव्याजसुन्दरमनुत्तरमप्रमेय- मप्राकृतं परममङ्गलमङ्घ्रिपद्मम् । संदर्शयेदपि सकृद्भवती दयार्द्रा द्रष्टास्मि केन तदहं तु विलोचनेन ॥ ६१ ॥ दिव्या दृशोऽपि दिविषद्ग्रहणोचितानि वस्तूनि काममवधारयितुं क्षमन्ते । त्वन्मात्रवेद्यविभवे तव रूपधेये त्वद्भाव एव शरणं परिशेषितो नः ॥ ६२ ॥ अस्मिन्महत्यनवधौ किल कालचक्रे धन्यास्तु ये कतिपये शुकयोगिमुख्याः । लीनास्त्वदङ्घ्रियुगले परिशुद्धसत्वान् तानात्मनस्तव नखानवधारयामः ॥ ६३ ॥ आ शैशवान्ममतया कलितस्त्वयासा- वानृण्यमम्ब तव लब्धुमना मृगाङ्गकः । स्वात्मानमेव नियतं बहुधा विभज्य त्वत्पादयोर्विनिदधे नखरापदेशात् ॥ ६४ ॥ नान्तः प्रवेशमयते किमपि श्रुतं मे नास्तिक्यवादशिलया प्रतिरुध्यमानम् । तत्पातयाम्यहमिमां महतीमधस्ता- त्पादोदकेन कियता परदेवतायाः ॥ ६५ ॥ सन्नाहिभिः यमभटैः परिवार्यमाणे मय्यर्भके करुणया स्वयमापतन्त्याः । आकर्णयेयमपि नाम विरामकाले मातस्तवाङ्घ्रिमणिनूपुरशिञ्जितानि ॥ ६६ ॥ ब्रह्मेशकेशवमुखैर्बहुभिः कुमारैः पर्यायतः परिगृहीतविमुक्तदेशम् । उत्सङ्गमम्ब तव दास्यसि मे कदा त्वं मातृप्रियं किल जडं सुतमामनन्ति ॥ ६७ ॥ ऊरौ शिरस्तव निवेश्य दयावितीर्ण- संव्यानपल्लवसमीरविनीतखेदम् । अत्रैव जन्मनि विभोः परमोपदेश- माकर्णयेयमपि किं मणिकर्णिकायाम् ॥ ६८ ॥ काञ्चीगुणग्रथितकाञ्चनचेलदृश्य- चण्डातकांशुकविभापरभागशोभि । पर्यङ्कमण्डलपरिष्करणं पुरारेः ध्यायामि ते विपुलमम्ब नितम्बबिम्बम् ॥ ६९ ॥ गर्भे निवेश्य भुवनानि चतुर्दशापि संरक्षितुं कलितनिश्चितया भवत्या । प्राकारमेव रचितं परितोऽपि नून- मूहे सुवर्णमयमेदुरपट्टबन्धम् ॥ ७० ॥ मुक्ताश्च खल्वपि यदि त्रिपुरे भवत्याः स्तन्याशया स्तनतटं न परित्यजन्ति । अस्माकमुद्भटभवज्वरतापिताना- मार्द्रीभवन् तु वदनानि कुतो न हेतोः ॥ ७१ ॥ नष्टोपलब्धमधिगत्य शिशुं चिरान्मां वात्सल्यविद्रुतहृदः परदेवतायाः । क्लिद्यत्पयोधरविनिःसृतदुग्धबिन्दु- निष्यन्दपङ्क्तिरिव दीव्यति हारयष्टिः ॥ ७२ ॥ यत्तद्धनुर्जनमनोमयमैक्षवं ते तस्यास्तु देवि हृदयं मम मूलदेशः । चापाधिरोपणविधौ चरणाञ्चलेन सम्भाव्यते किल समाक्रमणं कदाचित् ॥ ७३ ॥ आस्थाय दारुणतरं कमपि स्वभाव- मत्यन्तदुष्कृतकृतामपि शिक्षणाय । गृह्णासि सायकपदे कुसुमान्यमूनि मातः सुतेषु महती किल रूक्षतेयम् ॥ ७४ ॥ पाशं सृणिं च करयोस्तव भावयन्तः संस्तम्भयन्ति वशयन्ति च सर्वलोकान् । चापं शरं च सकृदम्ब तव स्मरन्तो भूपालतां दधति भोगपथावतीर्णः ॥ ७५ ॥ पाशाङ्कुशौ तव करे परिचिन्त्य राग- द्वेषौ जयन्ति परमार्थविदस्तु धन्याः । एकत्र चापमितरत्र शरं च मत्वा व्यावर्तयन्ति हृदयं विषयान्धकूपात् ॥ ७६ ॥ उत्क्रान्तमान्तरमिदं शरणं जनाना- मप्येति चन्द्रमिति हे श्रुतयो वदन्ति । आस्तामिदं मम तु देवि मनोऽधुनैव लीनं दृढं वदनचन्द्रमसि त्वदीये ॥ ७७ ॥ विद्यात्मनो जननि तावकदन्तपङ्क्तेः वैमल्यमीदृगिति वर्णयितुं क्षमः कः । तत्सम्भवा यदमला वचसां सवित्री तन्मूलकं कवियशोऽपि ततस्तरां यत् ॥ ७८ ॥ स्वच्छापि ते वहति यत्किल दन्तपङ्क्तिः स्वच्छन्दनिर्दलितदाडिमबीजशोभाम् । तन्मे रजोव्यतिकराधिकपाटलिम्नि चित्ते परं परिचयादिति चिन्तयामि ॥ ७९ ॥ अर्धं जितत्रिपुरमम्ब तव स्मितं चे- दर्धान्तरेण च तथा भवितव्यमेव । तच्चिन्तये जननि कारणसूक्ष्मरूप- स्थूलात्मकत्रिपुरशान्तिकृते स्मितं ते ॥८० ॥ मत्क्लेशदर्शनपरिद्रवदन्तरङ्ग- हैय्यङ्गवी नपरिवाहनिभं जनन्याः । अन्तस्तमोपहमनुस्मरतां जनानां मन्दस्मितं भुवनमङ्गलमस्तु भूत्यै ॥ ८१ ॥ सांसिद्धिकाननसरोरुहदिव्यगन्ध- सान्द्रीकृतेन्दुशकलाकलिताधिवासम् । ताम्बूलसारमखिलागमबोधसारं मातर्विधेहि मम वक्त्रकलाचिकायाम् ॥ ८२ ॥ नासामणिस्तव शिवे चिरसंस्तवेन प्रत्याहृते मनसि भाति तपोधनानाम् । अज्ञानसन्ततिनिशात्ययसूचनार्थं आविर्भवन्त्यसुरदेशिकतारकेव ॥ ८३ ॥ ताम्बूलगर्भपरिफुल्लकपोललक्ष्य- ताटङ्कमौक्तिकमणिप्रतिबिम्बदम्भात् । अस्तद्वयव्यतिकरामलसत्वमाद्यं वर्णं बिभर्ति जठरे तव वक्त्रबिम्बम् ॥ ८४ ॥ दत्ते श्रियं बहुविधां कुशलानि दत्ते दत्ते पदं सुरपतेरपि लीलयैव । ईदृग्विधाम्ब तव दृष्टिरितोऽधिका वा नाद्यापि कर्णमतिवर्तितुमीश्वरीयम् ॥ ८५ ॥ पाशाणकूटकठिणे जनदुर्विगाहे व्यर्थं महत्युपनिषद्विपिने प्रवृत्ता । सेव्येत केन तव लोचनचन्द्रिकेय- मेनां निपातय सकृन्मयि तप्यमाने ॥ ८६ ॥ कामं शिवेन शमितं पुनरुज्जगार दृष्टिस्तवेति किमियं जननि स्तुतिस्ते । लीलाप्रसूतपुरुषार्थचतुष्टयाया- स्तस्याः परं तु स भवत्यवयुत्यवादः ॥ ८७ ॥ सोमो जगज्जनयितेति यदाह वेदो नेदं लतापरमिति भ्रमितव्यमार्यैः । यः शैववामतनुवर्तिभवद्दृगात्मा चन्द्रो जगत्सृजति तत्पर एष वादः ॥ ८८ ॥ सूच्यग्रवद्वसुमतीमणुवच्च मेरुं दृष्टिर्यदम्ब तव पश्यति दानशौण्डा । दृष्टास्त्वया वयमपीह ततः स्मरामो वेशन्तमेव भवसागरमुत्तरङ्गम् ॥ ८९ ॥ वाणीनिकेतनतया घनसारगौराः कल्हारकेसररुचः कमलानुषङ्गात् । मातर्जयन्ति शरणागतलोकचेतो- मालिन्यमार्जनवशादसिताः कटाक्षाः ॥ ९० ॥ आकर्णमुल्लसति मातरपाङ्गदेशे कालाञ्जनेन घटिता तव भाति रेखा । शैवालपङ्क्तिरिवसन्ततनिर्जिहान- कारुण्यपूरपदवीकलितानुबन्धः ॥ ९१ ॥ विश्वं सृजति हन्ति च यः कटाक्षो विश्वस्यतां कथमसौ चपलस्वभावः । एषोऽपि यामनुसरल्लभते यशांसि तामेव विश्वसिमि देवि तवानुकम्पाम् ॥ ९२ ॥ अर्धं कलङ्करहिता करुणैव शम्भो- रर्धं गुणास्तदितरे सकलाः समेताः । इत्यम्ब सम्प्रति किल स्फुरितं रहस्यं सम्पश्यतो मम भवन्मयमैशमर्धम् ॥ ९३ ॥ अम्ब भ्रुवोस्तव विचेष्टितमप्रमत्तं सम्पश्यतां निजनिजार्थनिदेशहेतोः । तन्मूलदेशनिहिता निभृता सुराणां दृष्टिः प्रयाति मृगनाभिविशेषकत्वम् ॥ ९४ ॥ सारं कणं कणमघर्मरुचां सहस्रा- त्सङ्गृह्य निर्मितमिदं तव वक्त्रबिम्बम् । तावत्सुधाकरकलङ्ककुलानि पश्चा- देकत्र देवि निहितानि कचापदेशात् ॥ ९५ ॥ विन्यस्तमिन्द्रमणिकन्दलसुन्दरेषु केशेषु ते स्फटिकनिर्मलमिन्दुखण्डम् । आधारसङ्गतिवशादसितायमान- मिन्दीवरच्छदवतंसदशां बिभर्ति ॥ ९६ ॥ चिन्तामणिस्त्रिभुवनेश्वरि कौस्तुभश्च ख्यातौ मणी तव गृहाङ्गणकुट्टिमस्थौ । किं रत्नमन्यदुपलभ्य किरीटकोटिं वाचस्पतिप्रभृतयस्तव वर्णयन्तु ॥ ९७ ॥ प्रादुर्भवत्तरणिबिम्बशतारुणानि पर्याप्तशीतकिरणायुतशीतलानि । श‍ृङ्गारसारपरिवाहमयानि मात- रङ्गानि केऽपि चरमे जनुषि स्मरन्ति ॥ ९८॥ प्रत्युग्रकुङ्कुमरसाकलिताङ्गरागं प्रत्यङ्गदत्तमणिभूषणजालरम्यम् । ताम्बूलपूरितमुखं तरुणेन्दुचूडं सर्वारुणं किमपि वस्तु ममाविरस्तु ॥ ९९ ॥ अर्धं स्त्रियस्त्रिभुवने सचराचरेऽस्मि- न्नर्धं पुमांस इति दर्शयितुं भवत्या । स्त्रीपुंसलक्षणमिदं वपुरादृतं य- त्तेनासि देवि विदिता त्रिजगच्छरीरा ॥ १०० ॥ निर्मासि संहरसि निर्वहसि त्रिलोकीं वृत्तान्तमेतमपि वेत्ति न वा महेशः । तस्येश्वरस्य गिरिजे तव साहचर्या- ज्जातः श्रुतिष्वपि जगज्जनकत्ववादः ॥ १०१ ॥ सत्तास्यखण्डसुखसंविदसि त्रिलोकी- सर्गस्थितिप्रतिहतिष्वपिनिर्व्यपेक्षा । त्वामन्तरेण शिव इत्यवशिष्यते कि- मर्धं शिवस्य भवतीत्यनभिज्ञवादः ॥ १०२ ॥ नास्मिन्रविस्तपति नात्र विवाति वातो नास्य प्रवृत्तिमपि वेद जगत्समस्तम् । अन्तःपुरं तदिदमीदृशमन्तकारे- रस्मादृशास्तु सुखमत्र चरन्ति बालाः ॥ १०३ ॥ त्वत्सन्निधानरहितो मम मास्तु देश- स्त्वत्तत्त्वबोधरहिता मम मास्तु विद्या । त्वत्पादभक्तिरहितो मम मास्तु वंश- स्त्वच्चिन्तया विरहितं मम मास्तु चायुः ॥ १०४ ॥ त्वं देवि यादृगसि तादृगसि त्वमीदृ- गेवेति वक्तुमपि बोद्धुमपि क्षमः कः । मामेव तावदविदन्नतिपामरोऽहं मातः स्तुतिं त्वयि समर्पयितुं विलज्जे ॥ १०५ ॥ काचित्कृता कृतिरिति त्वयि साऽर्पितेति कापि प्रमोदकणिका न ममांतरङ्गे । मौढ्यं मदीयमिह यद्विदितं ममैव किं त्वम्ब विश्वसिमि दीनशरण्यतां ते ॥ १०६ ॥ कालानपास्य विषुवायनसङ्क्रमादी- नस्तङ्गते हिमकरे च दिवाकरे च । अम्ब स्मरेयमपि ते चरणारविन्द- मानन्दलक्षणमपास्तसमस्तभेदम् ॥ १०७ ॥ चतुरध्यायीरूपं कलहंसव्यञ्जनं जगन्मातुः । अपरब्रह्ममयं वपुरन्तः शशिखण्डमण्डनमुपासे ॥ १०८ ॥ ॥ इति श्री नीलकण्ठदीक्षितविरचितः श्रीआनन्दसागरस्तवः सम्पूर्णः ॥

रविवार, 28 मार्च 2021

आद्यास्तोत्रम्

 

आद्यास्तोत्रम्

ॐ नम आद्यायै । श‍ृणु वत्स प्रवक्ष्यामि आद्या स्तोत्रं महाफलम् । यः पठेत् सततं भक्त्या स एव विष्णुवल्लभः ॥ १॥ मृत्युर्व्याधिभयं तस्य नास्ति किञ्चित् कलौ युगे । अपुत्रा लभते पुत्रं त्रिपक्षं श्रवणं यदि ॥ २॥ द्वौ मासौ बन्धनान्मुक्ति विप्रवक्त्रात् श्रुतं यदि । मृतवत्सा जीववत्सा षण्मासं श्रवणं यदि ॥ ३॥ नौकायां सङ्कटे युद्धे पठनाज्जयमाप्नुयात् । लिखित्वा स्थापयेद्गेहे नाग्निचौरभयं क्वचित् ॥ ४॥ राजस्थाने जयी नित्यं प्रसन्नाः सर्वदेवता । ॐ ह्रीं ब्रह्माणी ब्रह्मलोके च वैकुण्ठे सर्वमङ्गला ॥ ५॥ इन्द्राणी अमरावत्यामविका वरुणालये। यमालये कालरूपा कुबेरभवने शुभा ॥ ६॥ महानन्दाग्निकोने च वायव्यां मृगवाहिनी । नैऋत्यां रक्तदन्ता च ऐशाण्यां शूलधारिणी ॥ ७॥ पाताले वैष्णवीरूपा सिंहले देवमोहिनी । सुरसा च मणीद्विपे लङ्कायां भद्रकालिका ॥ ८॥ रामेश्वरी सेतुबन्धे विमला पुरुषोत्तमे । विरजा औड्रदेशे च कामाक्ष्या नीलपर्वते ॥ ९॥ कालिका वङ्गदेशे च अयोध्यायां महेश्वरी । वाराणस्यामन्नपूर्णा गयाक्षेत्रे गयेश्वरी ॥ १०॥ कुरुक्षेत्रे भद्रकाली व्रजे कात्यायनी परा । द्वारकायां महामाया मथुरायां माहेश्वरी ॥ ११॥ क्षुधा त्वं सर्वभूतानां वेला त्वं सागरस्य च । नवमी शुक्लपक्षस्य कृष्णसैकादशी परा ॥ १२॥ दक्षसा दुहिता देवी दक्षयज्ञ विनाशिनी । रामस्य जानकी त्वं हि रावणध्वंसकारिणी ॥ १३॥ चण्डमुण्डवधे देवी रक्तबीजविनाशिनी । निशुम्भशुम्भमथिनी मधुकैटभघातिनी ॥ १४॥ विष्णुभक्तिप्रदा दुर्गा सुखदा मोक्षदा सदा । आद्यास्तवमिमं पुण्यं यः पठेत् सततं नरः ॥ १५॥ सर्वज्वरभयं न स्यात् सर्वव्याधिविनाशनम् । कोटितीर्थफलं तस्य लभते नात्र संशयः ॥ १६॥ जया मे चाग्रतः पातु विजया पातु पृष्ठतः । नारायणी शीर्षदेशे सर्वाङ्गे सिंहवाहिनी ॥ १७॥ शिवदूती उग्रचण्डा प्रत्यङ्गे परमेश्वरी । विशालाक्षी महामाया कौमारी सङ्खिनी शिवा ॥ १८॥ चक्रिणी जयधात्री च रणमत्ता रणप्रिया । दुर्गा जयन्ती काली च भद्रकाली महोदरी ॥ १९॥ नारसिंही च वाराही सिद्धिदात्री सुखप्रदा । भयङ्करी महारौद्री महाभयविनाशिनी ॥ १०॥ इति ब्रह्मयामले ब्रह्मनारदसंवादे आद्या स्तोत्रं समाप्तम् ॥ ॥ ॐ नम आद्यायै ॐ नम आद्यायै ॐ नम आद्यायै ॥

शनिवार, 27 मार्च 2021

महामहिमान्वितं आदित्यस्तोत्रम्

 

महामहिमान्वितं आदित्यस्तोत्रम्

अथ श्रीमदप्पय्यदीक्षितविरचितं महामहिमान्वितं आदित्यस्तोत्रम् ॥ विस्तारायाममानं दशभिरुपगतो योजनानां सहस्रैः चक्रे पञ्चारनाभित्रितयवति लसन् नेमिषट्के निविष्टः । सप्तच्छन्दस्तुरङ्गाहितवहनधुरो हायनांशत्रिवर्ग व्यक्ताकॢप्ताखिलाङ्गः स्फुरतु मम पुरः स्यन्दनश्चण्डभानोः ॥ १॥ आदित्यैरप्सरोभिर्मुनिभिरहिवरैर्ग्रामणीयातुधानैः गन्धर्वैर्वालखिल्यैः परिवृतदशमांशस्य कृत्स्नं रथस्य । मध्यं व्याप्याधितिष्ठन् मणिरिव नभसो मण्डलश्चण्डरश्मेः ब्रह्मज्योतिर्विवर्तः श्रुतिनिकरघनीभावरूपः समिन्धे ॥ २॥ निर्गच्छन्तोऽर्कबिम्बान् निखिलजनिभृतां हार्दनाडीप्रविष्टाः नाड्यो वस्वादिबृन्दारकगणमधुनस्तस्य नानादिगुत्थाः । वर्षन्तस्तोयमुष्णं तुहिनमपि जलान्यापिबन्तः समन्तात् पित्रादीनां स्वधौषध्यमृतरसकृतो भान्ति कान्तिप्ररोहाः॥ ३॥ श्रेष्ठास्तेषां सहस्रे त्रिदिववसुधयोः पञ्चदिग्व्याप्तिभाजां शुभ्रांशुं तारकौघं शशितनयमुखान् पञ्च चोद्भासयन्तः । आरोगो भ्राजमुख्यास्त्रिभुवनदहने सप्तसूर्या भवन्तः सर्वान् व्याधीन् सुषुम्नाप्रभृतय इह मे सूर्यपादाः क्षिपन्तु ॥ ४॥ आदित्यानाश्रिताः षण्णवतिगुणसहस्रान्विता रश्मयोऽन्ये मासे मासे विभक्तास्त्रिभुवनभवनं पावयन्तः स्फुरन्ति । येषां भुव्यप्रचारे जगदवनकृतां सप्तरश्म्युत्थितानां संसर्पे चाधिमासे व्रतयजनमुखाः सत्क्रियाः न क्रियन्ते ॥ ५॥ आदित्यं मण्डलान्तःस्फुरदरुणवपुस्तेजसा व्याप्तविश्वं प्रातर्मध्याह्नसायं समयविभजनादृग्यजुस्सामसेव्यम् । प्राप्यं च प्रापकं च प्रथितमतिपथिज्ञानिनामुत्तरस्मिन् साक्षाद् ब्रह्मेत्युपास्यं सकलभयहराभ्युद्गमं संश्रयामि ॥ ६॥ यच्छक्त्याऽधिष्ठितानां तपनहिमजलोत्सर्जनादिर्जगत्याम् आदित्यानामशेषः प्रभवति नियतः स्वस्वमासाधिकारः । यत् प्राधान्यं व्यनक्ति स्वयमपि भगवान् द्वादशस्तेषु भूत्वा तं त्रैलोक्यस्य मूलं प्रणमत परमं दैवतं सप्तसप्तिम् ॥ ७॥ स्वःस्त्रीगन्धर्वयक्षा मुनिवरभुजगा यातुधानाश्च नित्यं नृत्तैर्गीतैरभीशुग्रहनुतिवहनैरग्रतः सेवया च । यस्य प्रीतिं वितन्वन्त्यमितपरिकरा द्वादश द्वादशैते हृद्याभिर्वालखिल्याः सरणिभणितिभिस्तं भजे लोकबन्धुम् ॥ ८॥ ब्रह्माण्डे यस्य जन्मोदितमुषसि परब्रह्ममुख्यात्मजस्य ध्येयं रूपं शिरोदोश्चरणपदजुषा व्याहृतीनां त्रयेण । तत् सत्यं ब्रह्म पश्याम्यहरहमभिधं नित्यमादित्यरूपं भूतानां भूनभस्स्वः प्रभृतिषु वसतां प्राणसूक्ष्मांशमेकम् ॥ ९॥ आदित्ये लोकचक्षुष्यवहितमनसां योगिनां दृश्यमन्तः स्वच्छस्वर्णाभमूर्तिं विदलितनलिनोदारदृश्याक्षियुग्मम् । ऋक्सामोद्गानगेष्णं निरतिशयलसल्लोककामेशभावं सर्वावद्योदितत्वादुदितसमुदितं ब्रह्म शम्भुं प्रपद्ये ॥ १०॥ ओमित्युद्गीथभक्तेरवयवपदवीं प्राप्तवत्यक्षरेऽस्मिन् यस्योपास्तिः समस्तं दुरितमपनयत्वर्कबिम्बे स्थितस्य । यत् पूजैकप्रधानान्यघमखिलमपि घ्नन्ति कृच्छ्रव्रतानि ध्यातः सर्वोपतापान् हरतु परशिवः सोऽयमाद्यो भिषङ्नः ॥ ११॥ आदित्ये मण्डलार्चिः पुरुषविभिदयाद्यन्तमध्यागमात्म- न्यागोपालाङ्गनाभ्यो नयनपथजुषा ज्योतिषा दीप्यमानम् गायत्रीमन्त्रसेव्यं निखिलजनधियां प्रेरकं विश्वरूपम् । नीलग्रीवं त्रिने(णे)त्रं शिवमनिशमुमावल्लभं संश्रयामि ॥ १२॥ अभ्राकल्पः शताङ्गः स्थिरफणितिमयं मण्डलं रश्मिभेदाः साहस्रास्तेषु सप्त श्रुतिभिरभिहिताः किञ्चिदूनाश्च लक्षाः । एकैकेषां चतस्रस्तदनु दिनमणेरादिदेवस्य तिस्रः कॢप्ताः तत्तत्प्रभावप्रकटनमहिताः स्रग्धरा द्वादशैताः ॥ १३॥ दुःस्वप्नं दुर्निमित्तं दुरितमखिलमप्यामयानप्यसाध्यान् दोषान् दुःस्थानसंस्थग्रहगणजनितान् दुष्टभूतान् ग्रहादीन् । निर्धूनोति स्थिरां च श्रियमिह लभते मुक्तिमभ्येति चान्ते सङ्कीर्त्य स्तोत्ररत्नं सकृदपि मनुजः प्रत्यहं पत्युरह्नाम् ॥ १४॥ ॥ इति श्रीमदप्पय्यदीक्षितविरचितश्रीमदादित्यस्तोत्ररत्नम् ॥

शुक्रवार, 26 मार्च 2021

श्रीमदाञ्जनेयाष्टोत्तरशतनामस्तोत्रम् कालिकारहस्यतः

 

श्रीमदाञ्जनेयाष्टोत्तरशतनामस्तोत्रम् कालिकारहस्यतः

आञ्जनेयो महावीरो हनुमान्मारुतात्मजः । तत्वज्ञानप्रदः सीतादेवीमुद्राप्रदायकः ॥ १॥ अशोकवनिकाच्छेत्ता सर्वमायाविभञ्जनः । सर्वबन्धविमोक्ता च रक्षोविध्वंसकारकः ॥ २॥ परविद्यापरीहारः परशौर्यविनाशनः । परमन्त्रनिराकर्ता परयन्त्रप्रभेदकः ॥ ३॥ सर्वग्रहविनाशी च भीमसेनसहायकृत् । सर्वदुःखहरः सर्वलोकचारी मनोजवः ॥ ४॥ पारिजातद्रुमूलस्थः सर्वमन्त्रस्वरूपवान् । सर्वतन्त्रस्वरूपी च सर्वयन्त्रात्मकस्तथा ॥ ५॥ कपीश्वरो महाकायः सर्वरोगहरः प्रभुः । बलसिद्धिकरः सर्वविद्यासम्पत्प्रदायकः ॥ ६॥ कपिसेनानायकश्च भविष्यच्चतुराननः । कुमारब्रह्मचारी च रत्नकुण्डलदीप्तिमान् ॥ ७॥ सञ्चलद्वालसन्नद्धलम्बमानशिखोज्ज्वलः । गन्धर्वविद्यातत्त्वज्ञो महाबलपराक्रमः ॥ ८॥ कारागृहविमोक्ता च श‍ृङ्खलाबन्धमोचकः । सागरोत्तारकः प्राज्ञो रामदूतः प्रतापवान् ॥ ९॥ वानरः केसरिसुतः सीताशोकनिवारकः । अञ्जनागर्भसम्भूतो बालार्कसदृशाननः ॥ १०॥ विभीषणप्रियकरो दशग्रीवकुलान्तकः । लक्ष्मणप्राणदाता च वज्रकायो महाद्युतिः ॥ ११॥ चिरञ्जीवी रामभक्तो दैत्यकार्यविघातकः । अक्षहन्ता काञ्चनाभः पञ्चवक्त्रो महातपाः ॥ १२॥ लङ्किणीभञ्जनः श्रीमान् सिंहिकाप्राणभञ्जनः । गन्धमादनशैलस्थो लङ्कापुरविदाहकः ॥ १३॥ सुग्रीवसचिवो धीरः शूरो दैत्यकुलान्तकः । सुरार्चितो महातेजा रामचूडामणिप्रदः ॥ १४॥ कामरूपी पिङ्गलाक्षो वार्धिमैनाकपूजितः । कबलीकृतमार्तण्डमण्डलो विजितेन्द्रियः ॥ १५॥ रामसुग्रीवसन्धाता महारावणमर्दनः । स्फटिकाभो वागधीशो नवव्याकृतिपण्डितः ॥ १६॥ चतुर्बाहुर्दीनबन्धुर्महात्मा भक्तवत्सलः । सञ्जीवननगाहर्ता शुचिर्वाग्मी दृढव्रतः ॥ १७॥ कालनेमिप्रमथनो हरिमर्कटमर्कटः । दान्तः शान्तः प्रसन्नात्मा शतकण्ठमदापहृत् ॥ १८॥ योगी रामकथालोलः सीतान्वेषणपण्डितः । वज्रदंष्ट्रो वज्रनखो रुद्रवीर्यसमुद्भवः ॥ १९॥ इन्द्रजित्प्रहितामोघब्रह्मास्त्रविनिवारकः । पार्थध्वजाग्रसंवासी शरपञ्जरभेदकः ॥ २०॥ दशबाहुलोर्कपूज्यो जाम्बवत्प्रीति वर्धनः । सीतासमेत श्रीरामभद्रपूजाधुरन्धरः ॥ २१॥ इत्येवं श्रीहनुमतो नाम्नामष्टोत्तरं शतम् ॥ यः पठेच्छृणुयान्नित्यं सर्वान्कामानवाप्नुयात् ॥ २२॥ ॥ इति श्रीमदाञ्जनेयाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥

गुरुवार, 25 मार्च 2021

श्रीआञ्जनेयसहस्रनामस्तोत्रं हनुमत्सहस्रनामस्तोत्रं च

श्रीआञ्जनेयसहस्रनामस्तोत्रं हनुमत्सहस्रनामस्तोत्रं च

ऋषय ऊचुः । ऋषे लोहगिरिं प्राप्तः सीताविरहकातरः । भगवान् किं व्यधाद्रामस्तत्सर्वं ब्रूहि सत्वरम् ॥ वाल्मीकिरुवाच । मायामानुष देहोऽयं ददर्शाग्रे कपीश्वरम् । हनुमन्तं जगत्स्वामी बालार्कसम तेजसम् ॥ स सत्वरं समागम्य साष्टाङ्गं प्रणिपत्य च । कृताञ्जलिपुटो भूत्वा हनुमान् राममब्रवीत् ॥ श्री हनुमानुवाच । धन्योऽस्मि कृतकृत्योऽस्मि दृष्ट्वा त्वत्पादपङ्कजम् । योगिनामप्यगम्यं च संसारभय नाशनम् । पुरुषोत्तमं च देवेशं कर्तव्यं तन्निवेद्यताम् ॥ श्री रामचन्द्रोवाच । जनस्थानं कपिश्रेष्ठ कोऽप्यागत्य विदेहजाम् । हृतवान् विप्रसंवेशो मारीचानुगते मयि ॥ गवेष्यः साम्प्रतं वीरः जानकी हरणे परः । त्वया गम्यो न को देशस्त्वं च ज्ञानवतावरः ॥ सप्तकोटि महामन्त्रमन्त्रितावयवः प्रभुः । ऋषय उचुः । को मन्त्र किञ्च तध्यानं तन्नो बूहि यथार्थता । यथार्थतः कथासुधारसं पीत्वा न तृप्यामः परंतप ॥ १॥ वाल्मीकिरुवाच । मन्त्रं हनुमतो विद्धि भुक्तिमुक्ति प्रदायकम् । महारिष्ट महापाप महादुःख निवारणम् ॥ २॥ मन्त्रम् । ॐ ऐं ह्रीं श्रीं हनुमते रामदूताय लङ्का विध्वंसनाय अञ्जनीगर्भसम्भूताय शाकिनीढाकिनी विध्वंसनाय किलिकिलि बु बु कारेण विभीषणाय हनुमद्देवाय ॐ श्रीं ह्रीं ह्रौं ह्रां ह्रूं फट् स्वाहा ॥ अन्यं हनुमतो मन्त्रं सहस्रं नामसञ्ज्ञितम् । जानन्तु ऋषयः सर्वे महादुरितनाशनम् ॥ ३॥ यस्य संस्मरणात् सीतां लब्ध्वा राज्यमकण्टकम् । विभीषणाय च ददावात्मानं लब्धवान् यथा ॥ ४॥ ऋषय ऊचुः सहस्रनामसन्मन्त्रं दुःखाघौघनिवारणम् । वाल्मीके ब्रूहि नस्तूर्णं शुश्रूषामः कथां पराम् ॥ वाल्मीकिरुवाच । श‍ृण्वन्तु ऋषयः सर्वे सहस्रनामकं स्तवम् । स्तवानामुत्तमं दिव्यं सदर्थस्य प्रकाशकम् ॥ ॐ अस्य श्रीहनुमत्सहस्रनामस्तोत्र मन्त्रस्य श्रीरामचन्द्रऋषिः । अनुष्टुप्छन्दः । श्रीहनुमान्महारुद्रो देवता । ह्रीं श्रीं ह्रौं ह्रां बीजं । श्रीं इति शक्तिः । किलिकिल बु बु कारेण इति कीलकम् । लङ्काविध्वंसनेति कवचम् । मम सर्वोपद्रवशान्त्यर्थे मम सर्वकार्यसिद्ध्यर्थे जपे विनियोगः ॥ ॥ ऋष्यादिन्यासः ॥ श्रीरामचन्द्रऋषये नमः शिरसि । अनुष्टुप्छन्दसे नमः मुखे । श्रीहनुमान्महारुद्र देवतायै नमः हृदि । ह्रीं श्रीं ह्रौं ह्रां इति बीजाय नमः गुह्ये । श्रीं इति शक्तये नमः पादयोः । किलिकिल बु बु कारेण इति कीलकाय नमः नाभौ । लङ्काविध्वंसनेति कवचाय नमः बाहुद्वये । मम सर्वोपद्रवशान्त्यर्थे मम सर्वकार्यसिद्ध्यर्थे इति विनियोगाय नमः सर्वाङ्गे ॥ ॥ इति ऋष्यादिन्यासः ॥ ॥ अथ करन्यासः ॥ ॐ ऐं ह्रीं हनुमते रामदूताय अङ्गुष्ठाभ्यां नमः । ॐ लङ्काविध्वंसनाय तर्जनीभ्यां नमः । ॐ अञ्जनीगर्भसम्भूताय मध्यमाभ्यां नमः । ॐ शाकिनीडाकिनीविध्वंसनाय अनामिकाभ्यां नमः । ॐ किलिकिलि बू बू कारेण विभीषणाय हनुमद्देवताय कनिष्ठिकाभ्यां नमः । ॐ ह्रीं श्री ह्रौं हां हुं फट् स्वाहा करतल करपृष्ठाभ्यां नमः ॥ ॥ इति करन्यासः ॥ ॥ अथ हृदयादिषडङ्गन्यासः ॥ ॐ ऐं ह्रीं हनुमते रामदूताय हृदयाय नमः । ॐ लङ्काविध्वंसनाय शिरसे स्वाहा । ॐ अञ्जनीगर्भसम्भूताय शिखायैवषट् । ॐ शाकिनीडाकिनीविध्वंसनाय कवचाय हुम् । ॐ किलिकिलि बू बू कारेण विभीषणाय हनुमद्देवताय नेत्रत्रयाय वौषट् । ॐ ह्रीं श्री ह्रौं हां हुं फट् स्वाहा अस्त्राय फट् । ॥ इति हृदयादिषडङ्गन्यासः ॥ ध्यानम् प्रतप्तस्वर्णवर्णाभं संरक्तारुणलोचनम् । सुग्रीवादियुतं ध्यायेत् पीताम्बरसमावृतम् ॥ गोष्पदीकृतवाराशिं पुच्छमस्तकमीश्वरम् । ज्ञानमुद्रां च बिभ्राणं सर्वालङ्कारभूषितम् ॥ वामहस्तसमाकृष्टदशास्याननमण्डलम् । उद्यद्दक्षिणदोर्दण्डं हनूमन्तं विचिन्तयेत् ॥ हनूमान् श्रीप्रदो वायुपुत्रो रुद्रो नयोऽजरः । अमृत्युर्वीरवीरश्च ग्रामवासो जनाश्रयः ॥ १॥ धनदो निर्गुणाकारो वीरो निधिपतिर्मुनिः । पिङ्गाक्षो वरदो वाग्मी सीताशोकविनाशनः ॥ २॥ शिवः शर्वः परोऽव्यक्तो व्यक्ताव्यक्तो धराधरः । पिङ्गकेशः पिङ्गरोमा श्रुतिगम्यः सनातनः ॥ ३॥ अनादिर्भगवान् दिव्यो विश्वहेतुर्नराश्रयः । आरोग्यकर्ता विश्वेशो विश्वनाथो हरीश्वरः ॥ ४॥ भर्गो रामो रामभक्तः कल्याणप्रकृतीश्वरः । विश्वम्भरो विश्वमूर्तिर्विश्वाकारोऽथ विश्वपः ॥ ५॥ विश्वात्मा विश्वसेव्योऽथ विश्वो विश्वधरो रविः । विश्वचेष्टो विश्वगम्यो विश्वध्येयःकलाधरः ॥ ६॥ प्लवङ्गमः कपिश्रेष्ठो ज्येष्ठो वेद्यो वनेचरः । बालो वृद्धो युवा तत्त्वं तत्त्वगम्यः सखा ह्यजः ॥ ७॥ अञ्जनासूनुरव्यग्रो ग्रामस्यान्तो धराधरः । भूर्भुवःस्वर्महर्लोको जनोलोकस्तपोऽव्ययः ॥ ८॥ सत्यमोङ्कारगम्यश्च प्रणवो व्यापकोऽमलः । शिवधर्मप्रतिष्ठाता रामेष्टः फल्गुनप्रियः ॥ ९॥ गोष्पदीकृतवारीशः पूर्णकामो धरापतिः । रक्षोघ्नः पुण्डरीकाक्षः शरणागतवत्सलः ॥ १०॥ जानकीप्राणदाता च रक्षःप्राणापहारकः । पूर्णः सत्यः पीतवासा दिवाकरसमप्रभः ॥ ११॥ द्रोणहर्ता शक्तिनेता शक्तिराक्षसमारकः । अक्षघ्नो रामदूतश्च शाकिनीजीविताहरः ॥ १२॥ बुभूकारहतारातिर्गर्वपर्वतमर्दनः । हेतुस्त्वहेतुः प्रांशुश्च विश्वकर्ता जगद्गुरुः ॥ १३॥ जगन्नाथो जगन्नेता जगदीशो जनेश्वरः । जगत्श्रितो हरिः श्रीशो गरुडस्मयभञ्जकः ॥ १४॥ पार्थध्वजो वायुपुत्रः सितपुच्छोऽमितप्रभः । ब्रह्मपुच्छः परब्रह्मपुच्छो रामेष्टकारकः ॥ १५॥ सुग्रीवादियुतो ज्ञानी वानरो वानरेश्वरः । कल्पस्थायी चिरञ्जीवी प्रसन्नश्च सदाशिवः ॥ १६॥ सन्मतिः सद्गतिर्भुक्तिमुक्तिदः कीर्तिदायकः । कीर्तिः कीर्तिप्रदश्चैव समुद्रः श्रीप्रदः शिवः ॥ १७॥ उदधिक्रमणो देवः संसारभयनाशनः । वालिबन्धनकृद्विश्वजेता विश्वप्रतिष्ठितः ॥ १८॥ लङ्कारिः कालपुरुषो लङ्केशगृहभञ्जनः । भूतावासो वासुदेवो वसुस्त्रिभुवनेश्वरः ॥ श्रीरामरूपः कृष्णस्तु लङ्काप्रासादभञ्जनः । कृष्णः कृष्णस्तुतः शान्तः शान्तिदो विश्वभावनः ॥ २०॥ विश्वभोक्ताऽथ मारघ्नो ब्रह्मचारी जितेन्द्रियः । ऊर्ध्वगो लाङ्गुली माली लाङ्गूलाहतराक्षसः ॥ २१॥ समीरतनुजो वीरो वीरमारो जयप्रदः । जगन्मङ्गलदः पुण्यः पुण्यश्रवणकीर्तनः ॥ २२॥ पुण्यकीर्तिः पुण्यगीतिर्जगत्पावनपावनः । देवेशोऽमितरोमाऽथ रामभक्तविधायकः ॥ २३॥ ध्याता ध्येयो जगत्साक्षी चेता चैतन्यविग्रहः । ज्ञानदः प्राणदः प्राणो जगत्प्राणः समीरणः ॥ २४॥ विभीषणप्रियः शूरः पिप्पलाश्रयसिद्धिदः । सिद्धः सिद्धाश्रयः कालः कालभक्षकपूजितः ॥ २५॥ लङ्केशनिधनस्थायी लङ्कादाहक ईश्वरः । चन्द्रसूर्याग्निनेत्रश्च कालाग्निः प्रलयान्तकः ॥ २६॥ कपिलः कपिशः पुण्यरातिर्द्वादशराशिगः । सर्वाश्रयोऽप्रमेयात्मा रेवत्यादिनिवारकः ॥ २७॥ लक्ष्मणप्राणदाता च सीताजीवनहेतुकः । रामध्यायी हृषीकेशो विष्णुभक्तो जटी बली ॥ २८॥ देवारिदर्पहा होता धाता कर्ता जगत्प्रभुः । नगरग्रामपालश्च शुद्धो बुद्धो निरन्तरः ॥ २९॥ निरञ्जनो निर्विकल्पो गुणातीतो भयङ्करः । हनुमांश्च दुराराध्यस्तपःसाध्यो महेश्वरः ॥ ३०॥ जानकीघनशोकोत्थतापहर्ता पराशरः । वाङ्मयः सदसद्रूपः कारणं प्रकृतेः परः ॥ ३१॥ भाग्यदो निर्मलो नेता पुच्छलङ्काविदाहकः । पुच्छबद्धो यातुधानो यातुधानरिपुप्रियः ॥ ३२॥ छायापहारी भूतेशो लोकेशः सद्गतिप्रदः । प्लवङ्गमेश्वरः क्रोधः क्रोधसंरक्तलोचनः ॥ ३३॥ क्रोधहर्ता तापहर्ता भक्ताभयवरप्रदः । भक्तानुकम्पी विश्वेशः पुरुहूतः पुरन्दरः ॥ ३४॥ अग्निर्विभावसुर्भास्वान् यमो निरृतिरेव च । वरुणो वायुगतिमान् वायुः कुबेर ईश्वरः ॥ ३५॥ रविश्चन्द्रः कुजः सौम्यो गुरुः काव्यः शनैश्चरः । राहुः केतुर्मरुद्दाता धाता हर्ता समीरजः ॥ ३६॥ मशकीकृतदेवारिर्दैत्यारिर्मधूसूदनः । कामः कपिः कामपालः कपिलो विश्वजीवनः ॥ ३७॥ भागीरथीपदाम्भोजः सेतुबन्धविशारदः । स्वाहा स्वधा हविः कव्यं हव्यवाहः प्रकाशकः ॥ ३८॥ स्वप्रकाशो महावीरो मधुरोऽमितविक्रमः । उड्डीनोड्डीनगतिमान् सद्गतिः पुरुषोत्तमः ॥ जगदात्मा जगद्योनिर्जगदन्तो ह्यनन्तरः । विपाप्मा निष्कलङ्कोऽथ महान् महदहङ्कृतिः ॥ ४०॥ खं वायुः पृथिवी चापो वह्निर्दिक् काल एकलः । क्षेत्रज्ञः क्षेत्रपालश्च पल्वलीकृतसागरः ॥ ४१॥ हिरण्मयः पुराणश्च खेचरो भूचरो मनुः । हिरण्यगर्भः सूत्रात्मा राजराजो विशां पतिः ॥ ४२॥ वेदान्तवेद्य उद्गीथो वेदाङ्गो वेदपारगः । प्रतिग्रामस्थितः सद्यः स्फूर्तिदाता गुणाकरः ॥ ४३॥ नक्षत्रमाली भूतात्मा सुरभिः कल्पपादपः । चिन्तामणिर्गुणनिधिः प्रजाद्वारमनुत्तमः ॥ ४४॥ पुण्यश्लोकः पुरारातिः मतिमान् शर्वरीपतिः । किल्किलारावसन्त्रस्तभूतप्रेतपिशाचकः ॥ ४५॥ ऋणत्रयहरः सूक्ष्मः स्थूलः सर्वगतिः पुमान् । अपस्मारहरः स्मर्ता श्रुतिर्गाथा स्मृतिर्मनुः ॥ ४६॥ स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं यतीश्वरः । नादरूपं परं ब्रह्म ब्रह्म ब्रह्मपुरातनः ॥ ४७॥ एकोऽनेको जनः शुक्लः स्वयञ्ज्योतिरनाकुलः । ज्योतिर्ज्योतिरनादिश्च सात्विको राजसस्तमः ॥ ४८॥ तमोहर्ता निरालम्बो निराकारो गुणाकरः । गुणाश्रयो गुणमयो बृहत्कायो बृहद्यशाः ॥ बृहद्धनुर्बृहत्पादो बृहन्मूर्धा बृहत्स्वनः । बृहत्कर्णो बृहन्नासो बृहद्बाहुर्बृहत्तनुः ॥ ५०॥ बृहद्गलो बृहत्कायो बृहत्पुच्छो बृहत्करः । बृहद्गतिर्बृहत्सेवो बृहल्लोकफलप्रदः ॥ ५१॥ बृहद्भक्तिर्बृहद्वाञ्छाफलदो बृहदीश्वरः । बृहल्लोकनुतो द्रष्टा विद्यादाता जगद्गुरुः ॥ ५२॥ देवाचार्यः सत्यवादी ब्रह्मवादी कलाधरः । सप्तपातालगामी च मलयाचलसंश्रयः ॥ ५३॥ उत्तराशास्थितः श्रीशो दिव्यौषधिवशः खगः । शाखामृगः कपीन्द्रोऽथ पुराणः प्राणचञ्चुरः ॥ ५४॥ चतुरो ब्राह्मणो योगी योगिगम्यः परोऽवरः । अनादिनिधनो व्यासो वैकुण्ठः पृथिवीपतिः ॥ ५५॥ अपराजितो जितारातिः सदानन्दद ईशिता । गोपालो गोपतिर्योद्धा कलिः स्फालः परात्परः ॥ ५६॥ मनोवेगी सदायोगी संसारभयनाशनः । तत्त्वदाताऽथ तत्त्वज्ञस्तत्त्वं तत्त्वप्रकाशकः ॥ ५७॥ शुद्धो बुद्धो नित्ययुक्तो भक्ताकारो जगद्रथः । प्रलयोऽमितमायश्च मायातीतो विमत्सरः ॥ ५८॥ मायानिर्जितरक्षाश्च मायानिर्मितविष्टपः । मायाश्रयश्च निलेर्पो मायानिर्वर्तकः सुखी ॥ सुखी(खं) सुखप्रदो नागो महेशकृतसंस्तवः । महेश्वरः सत्यसन्धः शरभः कलिपावनः ॥ ६०॥ रसो रसज्ञः सन्मानो रूपं चक्षुः श्रुती रवः । घ्राणं गन्धः स्पर्शनं च स्पर्शो हिङ्कारमानगः ॥ ६१॥ नेति नेतीति गम्यश्च वैकुण्ठभजनप्रियः । गिरिशो गिरिजाकान्तो दुर्वासाः कविरङ्गिराः ॥ ६२॥ भृगुर्वसिष्ठश्च्यवनो नारदस्तुम्बुरुर्हरः । विश्वक्षेत्रं विश्वबीजं विश्वनेत्रं च विश्वपः ॥ ६३॥ याजको यजमानश्च पावकः पितरस्तथा । श्रद्धा बुद्धिः क्षमा तन्द्रा मन्त्रो मन्त्रयिता सुरः ॥ ६४॥ राजेन्द्रो भूपती रूढो माली संसारसारथिः । नित्यः सम्पूर्णकामश्च भक्तकामधुगुत्तमः ॥ ६५॥ गणपः केशवो भ्राता पिता माताऽथ मारुतिः । सहस्रमूर्धा सहस्रास्यः सहस्राक्षः सहस्रपात् ॥ ६६॥ कामजित् कामदहनः कामः काम्यफलप्रदः । मुद्रोपहारी रक्षोघ्नः क्षितिभारहरो बलः ॥ ६७॥ नखदंष्ट्रायुधो विष्णुभक्तो भक्ताभयप्रदः । दर्पहा दर्पदो दंष्ट्राशतमूर्तिरमूर्तिमान् ॥ ६८॥ महानिधिर्महाभागो महाभर्गो महर्द्धिदः । महाकारो महायोगी महातेजा महाद्युतिः ॥ महाकर्मा महानादो महामन्त्रो महामतिः । महाशमो महोदारो महादेवात्मको विभुः ॥ ७०॥ रुद्रकर्मा क्रूरकर्मा रत्ननाभः कृतागमः । अम्भोधिलङ्घनः सिद्धः सत्यधर्मा प्रमोदनः ॥ ७१॥ जितामित्रो जयः सोमो विजयो वायुवाहनः । जीवो धाता सहस्रांशुर्मुकुन्दो भूरिदक्षिणः ॥ ७२॥ सिद्धार्थः सिद्धिदः सिद्धः सङ्कल्पः सिद्धिहेतुकः । सप्तपातालचरणः सप्तर्षिगणवन्दितः ॥ ७३॥ सप्ताब्धिलङ्घनो वीरः सप्तद्वीपोरुमण्डलः । सप्ताङ्गराज्यसुखदः सप्तमातृनिषेवितः ॥ ७४॥ सप्तलोकैकमकुटः सप्तहोत्रः स्वराश्रयः । सप्तसामोपगीतश्च सप्तपातालसंश्रयः ॥ ७५॥ सप्तच्छन्दोनिधिः सप्तच्छन्दः सप्तजनाश्रयः । मेधादः कीर्तिदः शोकहारी दौर्भाग्यनाशनः ॥ ७६॥ सर्ववश्यकरो गर्भदोषहा पुत्रपौत्रदः । प्रतिवादिमुखस्तम्भो रुष्टचित्तप्रसादनः ॥ ७७॥ पराभिचारशमनो दुःखहा बन्धमोक्षदः । नवद्वारपुराधारो नवद्वारनिकेतनः ॥ ७८॥ नरनारायणस्तुत्यो नवनाथमहेश्वरः । मेखली कवची खड्गी भ्राजिष्णुर्जिष्णुसारथिः ॥ बहुयोजनविस्तीर्णपुच्छः पुच्छहतासुरः । दुष्टहन्ता नियमिता पिशाचग्रहशातनः ॥ ८०॥ बालग्रहविनाशी च धर्मनेता कृपाकरः । उग्रकृत्यश्चोग्रवेग उग्रनेत्रः शतक्रतुः ॥ ८१॥ शतमन्युस्तुतः स्तुत्यः स्तुतिः स्तोता महाबलः । समग्रगुणशाली च व्यग्रो रक्षोविनाशनः ॥ ८२॥ रक्षोऽग्निदावो ब्रह्मेशः श्रीधरो भक्तवत्सलः । मेघनादो मेघरूपो मेघवृष्टिनिवारणः ॥ ८३॥ मेघजीवनहेतुश्च मेघश्यामः परात्मकः । समीरतनयो धाता तत्त्वविद्याविशारदः ॥ ८४॥ अमोघोऽमोघवृष्टिश्चाभीष्टदोऽनिष्टनाशनः । अर्थोऽनर्थापहारी च समर्थो रामसेवकः ॥ ८५॥ अर्थी धन्योऽसुरारातिः पुण्डरीकाक्ष आत्मभूः । सङ्कर्षणो विशुद्धात्मा विद्याराशिः सुरेश्वरः ॥ ८६॥ अचलोद्धारको नित्यः सेतुकृद्रामसारथिः । आनन्दः परमानन्दो मत्स्यः कूर्मो निधिः शयः ॥ ८७॥ वराहो नारसिंहश्च वामनो जमदग्निजः । रामः कृष्णः शिवो बुद्धः कल्की रामाश्रयो हरिः ॥ ८८॥ नन्दी भृङ्गी च चण्डी च गणेशो गणसेवितः । कर्माध्यक्षः सुरारामो विश्रामो जगतीपतिः ॥ जगन्नाथः कपीशश्च सर्वावासः सदाश्रयः । सुग्रीवादिस्तुतो दान्तः सर्वकर्मा प्लवङ्गमः ॥ ९०॥ नखदारितरक्षश्च नखयुद्धविशारदः । कुशलः सुधनः शेषो वासुकिस्तक्षकस्तथा ॥ ९१॥ स्वर्णवर्णो बलाढ्यश्च पुरुजेताऽघनाशनः । कैवल्यदीपः कैवल्यो गरुडः पन्नगो गुरुः ॥ ९२॥ क्लीक्लीरावहतारातिगर्वः पर्वतभेदनः । वज्राङ्गो वज्रवक्त्रश्च भक्तवज्रनिवारकः ॥ ९३॥ नखायुधो मणिग्रीवो ज्वालामाली च भास्करः । प्रौढप्रतापस्तपनो भक्ततापनिवारकः ॥ ९४॥ शरणं जीवनं भोक्ता नानाचेष्टोऽथ चञ्चलः । स्वस्थस्त्वस्वास्थ्यहा दुःखशातनः पवनात्मजः ॥ ९५॥ पवनः पावनः कान्तो भक्ताङ्गः सहनो बलः । मेघनादरिपुर्मेघनादसंहृतराक्षसः ॥ ९६॥ क्षरोऽक्षरो विनीतात्मा वानरेशः सताङ्गतिः । श्रीकण्ठः शितिकण्ठश्च सहायः सहनायकः ॥ ९७॥ अस्थूलस्त्वनणुर्भर्गो देवसंसृतिनाशनः । अध्यात्मविद्यासारश्चाप्यध्यात्मकुशलः सुधीः ॥ ९८॥ अकल्मषः सत्यहेतुः सत्यदः सत्यगोचरः । सत्यगर्भः सत्यरूपः सत्यः सत्यपराक्रमः ॥ ९९॥ अञ्जनाप्राणलिङ्गं च वायुवंशोद्भवः श्रुतिः । भद्ररूपो रुद्ररूपः सुरूपश्चित्ररूपधृक् ॥ १००॥ मैनाकवन्दितः सूक्ष्मदर्शनो विजयो जयः । क्रान्तदिङ्मण्डलो रुद्रः प्रकटीकृतविक्रमः ॥ १०१॥ कम्बुकण्ठः प्रसन्नात्मा ह्रस्वनासो वृकोदरः । लम्बोष्ठः कुण्डली चित्रमाली योगविदां वरः ॥ १०२॥ विपश्चित् कविरानन्दविग्रहोऽनल्पनाशनः । फाल्गुनीसूनुरव्यग्रो योगात्मा योगतत्परः ॥ १०३॥ योगविद्योगकर्ता च योगयोनिर्दिगम्बरः । अकारादिक्षकारान्तवर्णनिर्मितविग्रहः ॥ १०४॥ उलूखलमुखः सिद्धसंस्तुतः परमेश्वरः । श्लिष्टजङ्घः श्लिष्टजानुः श्लिष्टपाणिः शिखाधरः ॥ १०५॥ सुशर्माऽमितधर्मा च नारायणपरायणः । जिष्णुर्भविष्णू रोचिष्णुर्ग्रसिष्णुः स्थाणुरेव च ॥ १०६॥ हरी रुद्रानुकृद्वृक्षकम्पनो भूमिकम्पनः । गुणप्रवाहः सूत्रात्मा वीतरागः स्तुतिप्रियः ॥ १०७॥ नागकन्याभयध्वंसी कृतपूर्णः कपालभृत् । अनुकूलोऽक्षयोऽपायोऽनपायो वेदपारगः ॥ १०८॥ अक्षरः पुरुषो लोकनाथस्त्र्यक्षः प्रभुर्दृढः । अष्टाङ्गयोगफलभूः सत्यसन्धः पुरुष्टुतः ॥ १०९॥ श्मशानस्थाननिलयः प्रेतविद्रावणक्षमः । पञ्चाक्षरपरः पञ्चमातृको रञ्जनो ध्वजः ॥ ११०॥ योगिनीवृन्दवन्द्यश्रीः शत्रुघ्नोऽनन्तविक्रमः । ब्रह्मचारीन्द्रियवपुर्धृतदण्डो दशात्मकः ॥ १११॥ अप्रपञ्चः सदाचारः शूरसेनो विदारकः । बुद्धः प्रमोद आनन्दः सप्तजिह्वपतिर्धरः ॥ ११२॥ नवद्वारपुराधारः प्रत्यग्रः सामगायनः । षट्चक्रधामा स्वर्लोकभयहृन्मानदो मदः ॥ ११३॥ सर्ववश्यकरः शक्तिरनन्तोऽनन्तमङ्गलः । अष्टमूर्तिधरो नेता विरूपः स्वरसुन्दरः ॥ ११४॥ धूमकेतुर्महाकेतुः सत्यकेतुर्महारथः । नन्दीप्रियः स्वतन्त्रश्च मेखली डमरुप्रियः ॥ ११५॥ लोहिताङ्गः समिद्वह्निः षडृतुः शर्व ईश्वरः । फलभुक् फलहस्तश्च सर्वकर्मफलप्रदः ॥ ११६॥ धर्माध्यक्षो धर्मफलो धर्मो धर्मप्रदोऽर्थदः । पञ्चविंशतितत्त्वज्ञस्तारको ब्रह्मतत्परः ॥ ११७॥ त्रिमार्गवसतिर्भीमः सर्वदुष्टनिबर्हणः । ऊर्जःस्वामी जलस्वामी शूली माली निशाकरः ॥ ११८॥ रक्ताम्बरधरो रक्तो रक्तमाल्यविभूषणः । वनमाली शुभाङ्गश्च श्वेतः श्वेताम्बरो युवा ॥ ११९॥ जयोऽजेयपरीवारः सहस्रवदनः कविः । शाकिनीडाकिनीयक्षरक्षोभूतप्रभञ्जनः ॥ १२०॥ सद्योजातः कामगतिर्ज्ञानमूर्तिर्यशस्करः । शम्भुतेजाः सार्वभौमो विष्णुभक्तः प्लवङ्गमः ॥ १२१॥ चतुर्णवतिमन्त्रज्ञः पौलस्त्यबलदर्पहा । सर्वलक्ष्मीप्रदः श्रीमानङ्गदप्रियवर्धनः ॥ १२२॥ स्मृतिबीजं सुरेशानः संसारभयनाशनः । उत्तमः श्रीपरीवारः श्रीभूरुग्रश्च कामधुक् ॥ १२३॥ सदागतिर्मातरिश्वा रामपादाब्जषट्पदः । नीलप्रियो नीलवर्णो नीलवर्णप्रियः सुहृत् ॥ १२४॥ रामदूतो लोकबन्धुरन्तरात्मा मनोरमः । श्रीरामध्यानकृद्वीरः सदा किम्पुरुषस्तुतः ॥ १२५॥ रामकार्यान्तरङ्गश्च शुद्धिर्गतिरनामयः । पुण्यश्लोकः परानन्दः परेशप्रियसारथिः ॥ १२६॥ लोकस्वामी मुक्तिदाता सर्वकारणकारणः । महाबलो महावीरः पारावारगतिर्गुरुः ॥ १२७॥ तारको भगवांस्त्राता स्वस्तिदाता सुमङ्गलः । समस्तलोकसाक्षी च समस्तसुरवन्दितः । सीतासमेतश्रीरामपादसेवाधुरन्धरः ॥ १२८॥ वाल्मीकिरुवाच इति नाम्न सहस्रेण स्तुतो रामेण वायुभूः । उवाच तं प्रसन्नात्मा संघायात्मानमव्ययम् ॥ १२९॥ श्री हनुमानुवाच । ध्यानास्पदमिदं ब्रह्म मत्पुरः समुपस्थितम् । स्वामिन् कृपानिधे राम ज्ञातोऽसि कपिना मया ॥ १३०॥ त्वध्यान निरता लोकाः किं मां जपसि सादरम् । तवागमनहेतुश्च ज्ञातो ह्यत्र मयाऽनघ ॥ १३१॥ कर्तव्यं मम किं राम तथा ब्रूहि च राघव । इति प्रचोदितो रामः प्रहृष्टात्मेदमब्रवीत् ॥ १३२॥ श्री रामचन्द्रोवाच । दुर्जयः खलु वैदेहीं गृहीत्वा कोऽपि निर्गतः । हत्वा तं निर्घृणं वीरमानय त्वं कपीश्वर ॥ १३३॥ मम दास्यं कुरु सखे भव विश्वसुखंकरः । तथा कृते त्वया वीर मम कार्यं भविष्यति ॥ १३४॥ ओमीत्याज्ञां तु शिरसा गृहीत्वा स कपीश्वरः। विधेयं विधिवत्तत्र चकार शिरसा स्वयम्॥ १३५॥ इदं नामसहस्रं तु योऽधीते प्रत्यहं नरः । दुःखौघो नश्यते क्षिप्रं सम्पत्तिर्वर्धते चिरम् । वश्यं चतुर्विधं तस्य भवत्येव न संशयः ॥ १३६॥ राजानो राजपुत्राश्च राजकीयाश्च मन्त्रिणः । त्रिकालं पठनादस्य दृश्यन्ते च त्रिपक्षतः ॥ १३७॥ अश्वत्थमूले जपतां नास्ति वैरिकृतं भयम् । त्रिकालपठनादस्य सिद्धिः स्यात् करसंस्थिता ॥ १३८॥ ब्राह्मे मुहूर्ते चोत्थाय प्रत्यहं यः पठेन्नरः । ऐहिकामुष्मिकान् सोऽपि लभते नात्र संशयः ॥ १३९॥ सङ्ग्रामे सन्निविष्टानां वैरिविद्रावणं भवेत् । ज्वरापस्मारशमनं गुल्मादिव्याधिवारणम् ॥ १४०॥ साम्राज्यसुखसम्पत्तिदायकं जपतां नृणाम् । य इदं पठते नित्यं पाठयेद्वा समाहितः । सर्वान् कामानवाप्नोति वायुपुत्रप्रसादतः ॥ १४१॥ ॥ श्री आञ्जनेयसहस्रनामस्तोत्रं हनुमत्सहस्रनामस्तोत्रं च सम्पूर्णम् ॥

 

बुधवार, 24 मार्च 2021

श्रीआंजनेय द्वादशनामस्तोत्रम्

 

श्रीआंजनेय द्वादशनामस्तोत्रम्

हनुमानंजनासूनुः वायुपुत्रो महाबलः । रामेष्टः फल्गुणसखः पिंगाक्षोऽमितविक्रमः ॥ १॥ उदधिक्रमणश्चैव सीताशोकविनाशकः । लक्ष्मण प्राणदाताच दशग्रीवस्य दर्पहा ॥ २॥ द्वादशैतानि नामानि कपींद्रस्य महात्मनः । स्वापकाले पठेन्नित्यं यात्राकाले विशेषतः । तस्यमृत्यु भयंनास्ति सर्वत्र विजयी भवेत् ॥

मंगलवार, 23 मार्च 2021

आञ्जनेय गायत्रि , ध्यानं , त्रिकाल वंदनं

 

आञ्जनेय गायत्रि , ध्यानं , त्रिकाल वंदनं

श्री आञ्जनेय स्वामी परदेवताभ्यो नमः ध्यानम् उद्यदादित्य संकाशं उदार भुज विक्रमम् । कन्दर्प कोटि लावण्यं सर्व विद्या विशारदम् ॥ श्री राम हृदयानंदं भक्त कल्प महीरुहम् । अभयं वरदं दोर्भ्यां कलये मारुतात्मजम् ॥ अञ्जनानन्दनं वीरं जानकी शोकनाशनम् । कपीशं अक्षहन्तारं वन्दे लंका भयंकरम् ॥ आञ्जनेयं अतिपाटलाननं कञनाद्रि कमनीय विग्रहम् । पारिजात तरुमूल वासिनं भावयामि पवमान नन्दनम् ॥ उल्लंघ्य सिन्धोः सलिलं सलीलं यस्शोक वह्निं जनकात्मजाय । आदाय तेनैव ददाह लंकां नमामि तं प्रान्जलिराञ्जनेयं ॥ अतुलित बलधामं स्वर्ण शैलाभदेहम् दनुजवन कृशानं ज्ञानिनां अग्रगण्यम् । सकल गुण निधानं वानराणां अधीशम् रघुपति प्रिय भक्तं वात जातं नमामि ॥ गोश्पदीकृत वारशिं मशकीकृत राक्षसाम् । रामायण महामाला रत्नं वन्दे अनिलात्मजम् ॥ यत्र यत्र रघुनाथ कीर्तनं तत्र तत्र कृत मस्तकाञ्जलिम् । भाश्पवारि परिपूर्ण लोचनं मारुतिं नमत राक्षसान्तकम् ॥ अमिषीकृत मार्तंदं गोश्पदीकृत सागरम् । तृणीकृत दशग्रीवं आञ्जनेयं नमाम्यहम् ॥ मनोजवं मारुत तुल्य वेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् । वातात्मजं वानर यूथ मुख्यं श्री रामदूतं शिरसा नमामि ॥
आञ्जनेय गायत्रि ॐ आञ्जनेयाय विद्महे वायुपुत्राय धीमहि । तन्नो हनुमत् प्रचोदयात् ॥
आञ्जनेय त्रिकाल वंदनं
प्रातः स्मरामि हनुमन् अनन्तवीर्यं
श्री रामचन्द्र चरणाम्बुज चंचरीकम् ।
लंकापुरीदहन नन्दितदेववृन्दं
सर्वार्थसिद्धिसदनं प्रथितप्रभावम् ॥
माध्यम् नमामि वृजिनार्णव तारणैकाधारं
शरण्य मुदितानुपम प्रभावम् ।
सीताधि सिंधु परिशोषण कर्म दक्षं
वंदारु कल्पतरुं अव्ययं आञ्ज्नेयम् ॥
सायं भजामि शरणोप स्मृताखिलार्ति
पुञ्ज प्रणाशन विधौ प्रथित प्रतापम् ।
अक्षांतकं सकल राक्षस वंश
धूम केतुं प्रमोदित विदेह सुतं दयालुम् ॥
 

सोमवार, 22 मार्च 2021

अष्टादशशक्तिपीठस्तोत्रम्

 

अष्टादशशक्तिपीठस्तोत्रम्

लङ्कायां शाङ्करी देवी कामाक्षी काञ्चिकापुरे । प्रद्युम्ने श‍ृङ्खलादेवी चामुण्डी क्रौञ्चपट्टणे ॥ अलम्पुरे जोगुलाम्बा श्रीशैले भ्रमराम्बिका । कोल्हापुरे महालक्ष्मी माहूर्ये एकवीरिका ॥ उज्जयिन्यां महाकाली पीठिक्यां पुरुहूतिका । ओढ्यायां गिरिजादेवी माणिक्या दक्षवाटके ॥ हरिक्षेत्रे कामरूपा प्रयागे माधवेश्वरी । ज्वालायां वैष्णवी देवी गया माङ्गल्यगौरिका ॥ वारणस्यां विशालाक्षी काश्मीरेषु सरस्वती । अष्टादश सुपीठानि योगिनामपि दुर्लभम् ॥ सायङ्काले पठेन्नित्यं सर्वशत्रुविनाशनम् । सर्वरोगहरं दिव्यं सर्वसम्पत्करं शुभम् ॥ इति अष्टादशशक्तिपीठस्तुतिः ।

अष्टदिक्पालकस्तोत्रं

अष्टदिक्पालकस्तोत्रं

श्री इन्द्रस्तुतिः - पूर्व (East) ऐरावतगजारूढं स्वर्णवर्णं किरीटिनम् । सहस्रनयनं शक्रं वज्रपाणिं विभावयेत् ॥ १॥ श्री अग्निस्तुतिः - आग्नेय (Southeast) सप्तार्चिषं च बिभ्राणमक्षमालां कमण्डलुम् । ज्वालमालाकुलं रक्तं शक्तिहस्तं चकासतम् ॥ २॥ श्री यमस्तुतिः - दक्षिण (South) कृतान्तं महिषारूढं दण्डहस्तं भयानकम् । कालपाशधरं कृष्णं ध्यायेत् दक्षिणदिक्पतिम् ॥ ३॥ श्री निरृत्यस्तुतिः - नैरृत्य (Southwest) रक्तनेत्रं शवारूढं नीलोत्पलदलप्रभम् । कृपाणपाणिमस्रौघं पिबन्तं राक्षसेश्वरम् ॥ ४॥ श्री वरुणस्तुतिः - पश्चिम (West) नागपाशधरं हृष्टं रक्तौघद्युतिविग्रहम् । शशाङ्कधवलं ध्यायेत् वरुणं मकरासनम् ॥ ५॥ श्री वायुस्तुतिः - वायव्य (Northwest) आपीतं हरितच्छायं विलोलध्वजधारिणम् । प्राणभूतं च भूतानां हरिणस्थं समीरणम् ॥ ६॥ श्री कुबेरस्तुतिः - उत्तर (North) कुबेरं मनुजासीनं सगर्वं गर्वविग्रहम् । स्वर्णच्छायं गदाहस्तमुत्तराधिपतिं स्मरेत् ॥ ७॥ श्री ईशानस्तुतिः - ईशान्य (Northeast) वृषभारूढं त्रिशूलं व्यालधारिणम् । शरच्चन्द्रसमाकारं त्रिनेत्रं नीलकण्ठकम् ॥ ८॥ इति अष्टदिक्पालकस्तोत्रं सम्पूर्णम् ।

 

रविवार, 21 मार्च 2021

अष्टदिक्पालकस्तुतिः

 

अष्टदिक्पालकस्तुतिः

श्री इन्द्रस्तुतिः - पूर्व (East) दैत्यदर्पविनाशाय सहस्राक्षाय धीमते । कुलिशव्यग्रहस्ताय नमस्तेऽस्तु शतक्रतो ॥ १॥ श्री अग्निस्तुतिः - आग्नेय (Southeast) मुखं यस्सर्वदेवानां येन हव्यञ्च नीयते । येन प्रवर्तते सर्वं नमस्तस्मै हविर्भुजे ॥ २॥ श्रीयमस्तुतिः - दक्षिण (South) येन संह्रियते सर्वं येन सर्वञ्च रक्ष्यते । यस्माद्बिभेति लोकोऽयं यमराज नमोऽस्तुते ॥ ३॥ श्रीनिरृत्यस्तुतिः - नैरृत्य (Southwest) रक्षसां यातुधानानां पिशाचानाञ्च यः पतिः । तस्मै निरृतये तुभ्यं रक्षसां पतये नमः ॥ ४॥ श्रीवरुणस्तुतिः - पश्चिम (West) येन प्रसूयते सर्वं यस्मिन् सर्वं प्रलीयते । वरुणाय जलेशाय पाशहस्ताय ते नमः ॥ ५॥ श्रीवायुस्तुतिः - वायव्य (Northwest) आपूर्यन्ते प्रवर्तन्ते येन प्राणादिवायवः । भूतानामिह सर्वेषां नमस्तस्मै नभस्वते ॥ ६॥ श्रीकुबेरस्तुतिः - उत्तर (North) यत्प्रसादात् जगत्सर्वं धनेन परिपूर्यते । तस्मै गुह्यकनाथाय धनेशाय नमोऽस्तुते ॥ ७॥ श्री ईशानस्तुतिः - ईशान्य (Northeast) नमस्त्रिशूलहस्ताय लोकसंरक्षणाय ते । विद्यानां पतये तुभ्यमीशानाय नमो नमः ॥ ८॥

शनिवार, 20 मार्च 2021

अम्बास्तोत्रं स्वामी विवेकानन्दरचितम्

 

अम्बास्तोत्रं स्वामी विवेकानन्दरचितम्

का त्वं शुभकरे सुखदुःखहस्ते आघूर्णितं भवजलं प्रबलोर्मिभङ्गैः । शांतिं विधातुमिह किं बहुधा विभग्नाम् मतः प्रयत्नपरमासि सदैव विश्वे ॥ १॥ सम्पादयत्यविरतं त्वविरामवृता या वै स्थिता कृतफलं त्वकृतस्य नेत्री । सा मे भवत्वनिदिनं वरदा भवानी जानाम्यहं ध्रुवमिदं धृतकर्मपाशा ॥ २॥ को वा धर्मः किमकृतं क्वः कपाललेखः किंवादृष्टं फलमिहास्ति हि यां विना भोः । इच्छापाशैर्नियमिता नियमाः स्वतंत्रैः यस्या नेत्री भवति सा शरणं ममाद्या ॥ ३॥ सन्तानयन्ति जलधिं जनिमृत्युजालम् सम्भावयन्त्यविकृतं विकृतं विभग्नम् । यस्या विभूतय इहामितशक्तिपालाः नाश्रित्य तां वद कुत शरणं व्रजामः ॥ ४॥ मित्रे रिपौ त्वविषमं तव पद्मनेत्रम् स्वस्थे दुःस्थे त्ववितथं तव हस्तपातः । मृत्युच्छाया तव दया त्वमृतञ्च मातः मा मां मुञ्चन्तु परमे शुभदृष्टयस्ते ॥ ५॥ क्वाम्बा सर्वा क्व गणनं मम हीनबुद्धेः धत्तुं दोर्भ्यामिव मतिर्जगदेकधात्रीम् । श्रीसञ्चिन्त्यं सुचरणमभयपतिष्ठम् सेवासारैरभिनुतं शरणं प्रपद्ये ॥ ६॥ या मामा जन्म विनयत्यतिदुःखमार्गैः आसंसिद्धेः स्वकलितैर्ल्ललितैर्विलासैः । या मे बुद्धिं सुविदधे सततं धरण्यम् साम्बा सर्वा मम गतिः सफले फले वा ॥ ७॥ इति अम्बास्तोत्रं सम्पूर्णम् ।

शुक्रवार, 19 मार्च 2021

अश्वत्थस्तोत्रम्

अश्वत्थस्तोत्रम्

श्रीनारद उवाच - अनायासेन लोकोऽयम् सर्वान् कामानवाप्नुयात् । सर्वदेवात्मकं चैकं तन्मे ब्रूहि पितामह ॥ १॥ ब्रह्मोवाच - श्रुणु देव मुनेऽश्वत्थं शुद्धं सर्वात्मकं तरुम् । यत्प्रदक्षिणतो लोकः सर्वान् कामान् समश्नुते ॥ २॥ अश्वत्थाद्दक्षिणे रुद्रः पश्चिमे विष्णुरास्थितः । ब्रह्मा चोत्तरदेशस्थः पूर्वेत्विन्द्रादिदेवताः ॥ ३॥ स्कन्धोपस्कन्धपत्रेषु गोविप्रमुनयस्तथा । मूलं वेदाः पयो यज्ञाः संस्थिता मुनिपुङ्गव ॥ ४॥ पूर्वादिदिक्षु संयाता नदीनदसरोऽब्धयः । तस्मात् सर्वप्रयत्नेन ह्यश्वत्थं संश्रयेद्बुधः ॥ ५॥ त्वं क्षीर्यफलकश्चैव शीतलस्य वनस्पते । त्वामाराध्य नरो विन्द्यादैहिकामुष्मिकं फलम् ॥ ६॥ चलद्दलाय वृक्षाय सर्वदाश्रितविष्णवे । बोधिसत्वाय देवाय ह्यश्वत्थाय नमो नमः ॥ ७॥ अश्वत्थ यस्मात् त्वयि वृक्षराज नारायणस्तिष्ठति सर्वकाले । अथः श्रुतस्त्वं सततं तरूणां धन्योऽसि चारिष्टविनाशकोऽसि ॥ ८॥ क्षीरदस्त्वं च येनेह येन श्रीस्त्वां निषेवते । सत्येन तेन वृक्षेन्द्र मामपि श्रीर्निषेवताम् ॥ ९॥ एकादशात्मरुद्रोऽसि वसुनाथशिरोमणिः । नारायणोऽसि देवानां वृक्षराजोऽसि पिप्पल ॥ १०॥ अग्निगर्भः शमीगर्भो देवगर्भः प्रजापतिः । हिरण्यगर्भो भूगर्भो यज्ञगर्भो नमोऽस्तु ते ॥ ११॥ आयुर्बलं यशो वर्चः प्रजाः पशुवसूनि च । ब्रह्म प्रज्ञां च मेधां च त्वं नो देहि वनस्पते ॥ १२॥ सततं वरुणो रक्षेत् त्वामाराद्दृष्टिराश्रयेत् । परितस्त्वां निषेवन्तां तृणानि सुखमस्तु ते ॥ १३॥ अक्षिस्पन्दं भुजस्पन्दं दुःस्वप्नं दुर्विचिन्तनम् । शत्रूणां च समुत्थानं ह्यश्वत्थ शमय प्रभो ॥ १४॥ अश्वत्थाय वरेण्याय सर्वैश्वर्य प्रदायिने । नमो दुःस्वप्ननाशाय सुस्वप्नफलदायिने ॥ १५॥ मूलतो ब्रह्मरूपाय मध्यतो विष्णु रूपिणे । अग्रतः शिवरूपाय वृक्षराजाय ते नमः ॥ १६॥ यं दृष्ट्वा मुच्यते रोगैः स्पृष्ट्वा पापैः प्रमुच्यते । यदाश्रयाच्चिरञ्जीवी तमश्वत्थं नमाम्यहम् ॥ १७॥ अश्वत्थ सुमहाभाग सुभग प्रियदर्शन । इष्टकामांश्च मे देहि शत्रुभ्यस्तु पराभवम् ॥ १८॥ आयुः प्रजां धनं धान्यं सौभाग्यं सर्वसम्पदम् । देहि देव महावृक्ष त्वामहं शरणं गतः ॥ १९॥ ऋग्यजुःसाममन्त्रात्मा सर्वरूपी परात्परः । अश्वत्थो वेदमूलोऽसावृषिभिः प्रोच्यते सदा ॥ २०॥ ब्रह्महा गुरुहा चैव दरिद्रो व्याधिपीडितः । आवृत्य लक्षसङ्ख्यं तत् स्तोत्रमेतत् सुखी भवेत् ॥ २१॥ ब्रह्मचारी हविष्याशी त्वदःशायी जितेन्द्रियः । पपोपहतचित्तोऽपि व्रतमेतत् समाचरेत् ॥ २२॥ एकाहस्तं द्विहस्तं वा कुर्याद्गोमयलेपनम् । अर्चेत् पुरुषसूक्तेन प्रणवेन विशेषतः ॥ २३॥ मौनी प्रदक्षिणं कुर्यात् प्रागुक्तफलभाग्भवेत् । विष्णोर्नामसहस्रेण ह्यच्युतस्यापि कीर्तनात् ॥ २४॥ पदे पदान्तरं गत्वा करचेष्टाविवर्जितः । वाचा स्तोत्रं मनो ध्याने चतुरङ्गं प्रदक्षिणम् ॥ २५॥ अश्वत्थः स्थापितो येन तत्कुलं स्थापितं ततः । धनायुषां समृद्धिस्तु नरकात् तारयेत् पितृन् ॥ २६॥ अश्वत्थमूलमाश्रित्य शाकान्नोदकदानतः । एकस्मिन् भोजिते विप्रे कोटिब्राह्मणभोजनम् ॥ २७॥ अश्वत्थमूलमाश्रित्य जपहोमसुरार्चनात् । अक्षयं फलमाप्नोति ब्रह्मणो वचनं यथा ॥ २८॥ एवमाश्वासितोऽश्वत्थः सदाश्वासाय कल्पते । यज्ञार्थं छेदितेऽश्वत्थे ह्यक्षयं स्वर्गमाप्नुयात् ॥ २९॥ छिन्नो येन वृथाऽश्वत्थश्छेदिता पितृदेवताः । अश्वत्थः पूजितो यत्र पूजिताः सर्वदेवताः ॥ ३०॥ ॥ इति अश्वत्थ स्तोत्रं सम्पूर्णम् ॥

गुरुवार, 18 मार्च 2021

अर्धनारीश्वरस्तोत्रम्

 

अर्धनारीश्वरस्तोत्रम्

चाम्पेयगौरार्धशरीरकायै कर्पूरगौरार्धशरीरकाय । धम्मिल्लकायै च जटाधराय नमः शिवायै च नमः शिवाय ॥ १॥ कस्तूरिकाकुङ्कुमचर्चितायै चितारजःपुञ्जविचर्चिताय । कृतस्मरायै विकृतस्मराय नमः शिवायै च नमः शिवाय ॥ २॥ झणत्क्वणत्कङ्कणनूपुरायै पादाब्जराजत्फणिनूपुराय । हेमाङ्गदायै भुजगाङ्गदाय नमः शिवायै च नमः शिवाय ॥ ३॥ विशालनीलोत्पललोचनायै विकासिपङ्केरुहलोचनाय । समेक्षणायै विषमेक्षणाय नमः शिवायै च नमः शिवाय ॥ ४॥ मन्दारमालाकलितालकायै कपालमालाङ्कितकन्धराय । दिव्याम्बरायै च दिगम्बराय नमः शिवायै च नमः शिवाय ॥ ५॥ अम्भोधरश्यामलकुन्तलायै तडित्प्रभाताम्रजटाधराय । निरीश्वरायै निखिलेश्वराय नमः शिवायै च नमः शिवाय ॥ ६॥ प्रपञ्चसृष्ट्युन्मुखलास्यकायै समस्तसंहारकताण्डवाय । जगज्जनन्यै जगदेकपित्रे नमः शिवायै च नमः शिवाय ॥ ७॥ प्रदीप्तरत्नोज्ज्वलकुण्डलायै स्फुरन्महापन्नगभूषणाय । शिवान्वितायै च शिवान्विताय नमः शिवायै च नमः शिवाय ॥ ८॥ एतत्पठेदष्टकमिष्टदं यो भक्त्या स मान्यो भुवि दीर्घजीवी । प्राप्नोति सौभाग्यमनन्तकालं भूयात्सदा तस्य समस्तसिद्धिः ॥ ९॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ अर्धनारीश्वरस्तोत्रम् संपूर्णम् ॥

बुधवार, 17 मार्च 2021

अर्गलास्तोत्रम्

 

अर्गलास्तोत्रम्

॥ श्री॥ श्रीचण्डिकाध्यानम् ॐ बन्धूककुसुमाभासां पञ्चमुण्डाधिवासिनीम् । स्फुरच्चन्द्रकलारत्नमुकुटां मुण्डमालिनीम् ॥ त्रिनेत्रां रक्तवसनां पीनोन्नतघटस्तनीम् । पुस्तकं चाक्षमालां च वरं चाभयकं क्रमात् ॥ दधतीं संस्मरेन्नित्यमुत्तराम्नायमानिताम् । अथवा या चण्डी मधुकैटभादिदैत्यदलनी या माहिषोन्मूलिनी या धूम्रेक्षणचण्डमुण्डमथनी या रक्तबीजाशनी । शक्तिः शुम्भनिशुम्भदैत्यदलनी या सिद्धिदात्री परा सा देवी नवकोटिमूर्तिसहिता मां पातु विश्वेश्वरी ॥ अथ अर्गलास्तोत्रम् ॐ अस्य श्रीअर्गलास्तोत्रमन्त्रस्य विष्णुरृषिः, अनुष्टुप् छन्दः, श्रीमहालक्ष्मीर्देवता, श्रीजगदम्बाप्रीतये सप्तशतिपाठाङ्गत्वेन जपे विनियोगः । ॐ नमश्चण्डिकायै मार्कण्डेय उवाच । ॐ जय त्वं देवि चामुण्डे जय भूतापहारिणि । जय सर्वगते देवि कालरात्रि नमोऽस्तु ते ॥ १॥ जयन्ती मङ्गला काली भद्रकाली कपालिनी । दुर्गा शिवा क्षमा धात्री स्वाहा स्वधा नमोऽस्तु ते ॥ २॥ मधुकैटभविध्वंसि विधातृवरदे नमः । रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ ३॥ महिषासुरनिर्नाशि भक्तानां सुखदे नमः । रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ ४॥ धूम्रनेत्रवधे देवि धर्मकामार्थदायिनि । रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ ५॥ रक्तबीजवधे देवि चण्डमुण्डविनाशिनि । रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ ६॥ निशुम्भशुम्भनिर्नाशि त्रिलोक्यशुभदे नमः । रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ ७॥ वन्दिताङ्घ्रियुगे देवि सर्वसौभाग्यदायिनि । रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ ८॥ अचिन्त्यरूपचरिते सर्वशत्रुविनाशिनि । रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ ९॥ नतेभ्यः सर्वदा भक्त्या चापर्णे दुरितापहे । रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १०॥ स्तुवद्भ्यो भक्तिपूर्वं त्वां चण्डिके व्याधिनाशिनि । रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ ११॥ चण्डिके सततं युद्धे जयन्ति पापनाशिनि । रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १२॥ देहि सौभाग्यमारोग्यं देहि देवि परं सुखम् । रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १३॥ विधेहि देवि कल्याणं विधेहि विपुलां श्रियम् । रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १४॥ विधेहि द्विषतां नाशं विधेहि बलमुच्चकैः । रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १५॥ सुरासुरशिरोरत्ननिघृष्टचरणेऽम्बिके । रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १६॥ विद्यावन्तं यशस्वन्तं लक्ष्मीवन्तञ्च मां कुरु । रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १७॥ देवि प्रचण्डदोर्दण्डदैत्यदर्पनिषूदिनि । रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १८॥ प्रचण्डदैत्यदर्पघ्ने चण्डिके प्रणताय मे । रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १९॥ चतुर्भुजे चतुर्वक्त्रसंस्तुते परमेश्वरि । रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ २०॥ कृष्णेन संस्तुते देवि शश्वद्भक्त्या सदाम्बिके । रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ २१॥ हिमाचलसुतानाथसंस्तुते परमेश्वरि । रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ २२॥ इन्द्राणीपतिसद्भावपूजिते परमेश्वरि । रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ २३॥ देवि भक्तजनोद्दामदत्तानन्दोदयेऽम्बिके । रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ २४॥ भार्यां मनोरमां देहि मनोवृत्तानुसारिणीम् । रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ २५॥ तारिणि दुर्गसंसारसागरस्याचलोद्भवे । रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ २६॥ इदं स्तोत्रं पठित्वा तु महास्तोत्रं पठेन्नरः । सप्तशतीं समाराध्य वरमाप्नोति दुर्लभम् ॥ २७॥ ॥ इति श्रीमार्कण्डेयपुराणे अर्गलास्तोत्रं समाप्तम् ॥

मंगलवार, 16 मार्च 2021

श्रीअन्नपूर्णाष्टोत्तरशतनामस्तोत्रम्

 

श्रीअन्नपूर्णाष्टोत्तरशतनामस्तोत्रम्

॥ श्रीगणेशाय नमः ॥ ॥ श्रीअन्नपूर्णाविश्वनाथाभ्यां नमः ॥ अस्य श्रीअन्नपूर्णाष्टोत्तरशतनामस्तोत्रमन्त्रस्य भगवान् श्रीब्रह्मा ऋषिः । अनुष्टुप्छन्दः । श्रीअन्नपूर्णेश्वरी देवता । स्वधा बीजम् । स्वाहा शक्तिः । ॐ कीलकम् । मम सर्वाभीष्टप्रसादसिद्धयर्थे पाठे विनियोगः । ॐ अन्नपूर्णा शिवा देवी भीमा पुष्टिस्सरस्वती । सर्वज्ञा पार्वती दुर्गा शर्वाणी शिववल्लभा ॥ १॥ वेदवेद्या महाविद्या विद्यादात्री विशारदा । कुमारी त्रिपुरा बाला लक्ष्मीश्श्रीर्भयहारिणी ॥ २॥ भवानी विष्णुजननी ब्रह्मादिजननी तथा । गणेशजननी शक्तिः कुमारजननी शुभा ॥ ३॥ भोगप्रदा भगवती भत्ताभीष्टप्रदायिनी । भवरोगहरा भव्या शुभ्रा परममङ्गला ॥ ४॥ भवान्नी चञ्चला गौरी चारुचन्द्रकलाधरा । विशालाक्षी विश्वमाता विश्ववन्द्या विलासिनी ॥ ५॥ आर्या कल्याणनिलया रुद्राणी कमलासना । शुभप्रदा शुभावर्ता वृत्तपीनपयोधरा ॥ ६॥ अम्बा संहारमथनी मृडानी सर्वमङ्गला । विष्णुसंसेविता सिद्धा ब्रह्माणी सुरसेविता ॥ ७॥ परमानन्ददा शान्तिः परमानन्दरूपिणी । परमानन्दजननी परानन्दप्रदायिनी ॥ ८॥ परोपकारनिरता परमा भक्तवत्सला । पूर्णचन्द्राभवदना पूर्णचन्द्रनिभांशुका ॥ ९॥ शुभलक्षणसम्पन्ना शुभानन्दगुणार्णवा । शुभसौभाग्यनिलया शुभदा च रतिप्रिया ॥ १०॥ चण्डिका चण्डमथनी चण्डदर्पनिवारिणी । मार्ताण्डनयना साध्वी चन्द्राग्निनयना सती ॥ ११॥ पुण्डरीकहरा पूर्णा पुण्यदा पुण्यरूपिणी । मायातीता श्रेष्ठमाया श्रेष्ठधर्मात्मवन्दिता ॥ १२॥ असृष्टिस्सङ्गरहिता सृष्टिहेतुः कपर्दिनी । वृषारूढा शूलहस्ता स्थितिसंहारकारिणी ॥ १३॥ मन्दस्मिता स्कन्दमाता शुद्धचित्ता मुनिस्तुता । महाभगवती दक्षा दक्षाध्वरविनाशिनी ॥ १४॥ सर्वार्थदात्री सावित्री सदाशिवकुटुम्बिनी । नित्यसुन्दरसर्वाङ्गी सञ्चिदानन्दलक्षणा ॥ १५॥ नाम्नामष्टोत्तरशतम्बायाः पुण्यकारणम् । सर्वसौभाग्यसिद्ध्यर्थं जपनीयं प्रयत्नतः ॥ १६॥ एतानि दिव्यनामानि श्रुत्वा ध्यात्वा निरन्तरम् । स्तुत्वा देवीञ्च सततं सर्वान्कामानवाप्नुयात् ॥ १७॥ ॥ इति श्रीब्रह्मोत्तरखण्डे आगमप्रख्यातिशिवरहस्ये श्रीअन्नपूर्णाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥

सोमवार, 15 मार्च 2021

अन्नपूर्णास्तोत्रम् २

 

अन्नपूर्णास्तोत्रम् २

श्रीब्रह्मभैरव उवाच - साधनानि च सर्वाणि श्रुतानि तव सुव्रत । इदानीं वद देवेश स्तोत्राणि कवचानि च ॥ १॥ श्रीशिव उवाच - कथयामि तव स्नेहात् स्तोत्राणि कवचानि च । अन्नपूर्णाप्रीतिदानि सावधानोऽवधारय ॥ २॥ ह्रींकारं प्रथमं नमो भगवति स्वाहावसानां ध्रुवं मन्त्रं सप्तदशाक्षरं जपति ते माहेश्वरि प्रोक्षितम् । ध्यायेऽम्बे तरुणारुणं तव वपुर्नित्यान्नपूर्णे शिवे गेहे तस्य विराजते सरभसं दिव्यान्नराशिर्ध्रुवम् ॥ ३॥ ह्रींकारमुर्तिं कमनीयवक्त्रां चन्द्राङ्करेखान्वितभालभागाम् । ईशान्कान्तां प्रणमामि नित्यां लक्ष्मीविलासास्पदपादपीठाम् ॥ ४॥ नमोऽस्तु तुभ्यं गिरिराजकन्ये नमोऽस्तु कामान्तकवल्लभायै । नमोऽस्तु पङ्के रुहलोचनायै नमः शिवायै शशिभूषणायै ॥ ५॥ वामे करेऽमृतमयं कलशञ्च दक्षे स्वर्णाङ्कितां ननु पल्लान्नमयीञ्च दर्वीम् । चित्रां सुवर्णवसनां गिरिशस्य कान्तां सत्पद्मपत्रनयनां मनसाहमीडे ॥ ६॥ वामे माणिक्यपात्रं मधुरसभरितं बिभ्रतीं पाणिपद्मे दिव्यैरत्नैः प्रपूर्णां मणिमयवलये दक्षिणे रत्नदर्वीम् । रक्ताङ्गी पीनतुङ्गस्तनभरविलसंस्तारहारां त्रिनेत्रां वन्दे पूर्णेन्दुबिम्बप्रतिनिधिवदनामम्बिकामन्नपूर्णाम् ॥ ७॥ भगवति भवरोगात् पीडितं दुष्कृतोत्थात् सुतदुहितृकलत्रोपद्रवेणानुजातम् । विलसदमृतदृष्ट्या वीक्ष्य विभ्रान्तचित्तम् सकलभुवनमातस्त्राहि मामन्नपूर्णे ॥ ८॥ माहेश्वरीमाश्रितकल्पवल्लीमहं भवच्छेदकरीं भवानीम् । क्षुधार्तजायातनयाभ्युपेतस्त्वामन्नपूर्णां शरणं प्रपद्ये ॥ ९॥ दारिद्र्यदावानलदह्यमानं नमोऽन्नपूर्णे गिरिराजकन्ये । कृपाम्बुवर्षैरभिषिञ्च त्वं मां त्वत्पादपद्मार्पितचित्तवृत्तिम् ॥ १०॥ इत्यन्नपूर्णास्तवरत्नमेतच्छ्लोकाष्टकं यः पठतीह भक्त्या । तस्मै ददात्यन्नसमृद्धिराशिं श्रियञ्च विद्याञ्च परत्र मुक्तिम् ॥ ११॥ इत्यन्नदाकल्पे षोडशपटले अन्नपूर्णास्तोत्रं समाप्तम् ।

रविवार, 14 मार्च 2021

श्रीअन्नपूर्णासहस्रनामस्तोत्रम्

 

श्रीअन्नपूर्णासहस्रनामस्तोत्रम्

श्रीरुद्रयामले कैलासशिखरासीनं देवदेवं महेश्वरम् । प्रणम्य दण्डवद्भूमौ पार्वती परिपृच्छति ॥ १॥ श्रीपार्वत्युवाच । अन्नपूर्णा महादेवी त्रैलोक्ये जीवधारिणी । नाम्नां सहस्रं तस्यास्तु कथयस्व महाप्रभो ॥ २॥ श्रीशिव उवाच । श‍ृणु देवि वरारोहे जगत्कारणि कौलिनि । आराधनीया सर्वेषां सर्वेषां परिपृच्छसि ॥ ३॥ सहस्रैर्नामभिर्दिव्यैस्त्रैलोक्यप्राणिपूजितैः । अन्नदायास्स्तवं दिव्यं यत्सुरैरपि वाञ्छितम् ॥ ४॥ कथयामि तव स्नेहात्सावधानाऽवधारय । गोपनीयं प्रयत्नेन स्तवराजमिदं शुभम् ॥ ५॥ न प्रकाश्यं त्वया भद्रे दुर्जनेभ्यो निःशेषतः । न देयं परशिष्येभ्यो भक्तिहीनाय पार्वति ॥ ६॥ देयं शिष्याय शान्ताय गुरुदेवरताय च । अन्नपूर्णास्तवं देयं कौलिकाय कुलेश्वरी ॥ ७॥ ॐ अस्य श्रीमदन्नपूर्णासहस्रनामस्तोत्रमालामन्त्रस्य, श्रीभगवान् ऋषिः, अनुष्टुप्छन्दः, प्रकटगुप्तगुप्ततर सम्पदाय कुलोत्तीर्ण निगर्भरहस्याति रहस्यपरापरातिरहस्यातिपूर्वाचिन्त्यप्रभावा भगवती श्रीमदन्नपूर्णादेवता, हलो बीजं, स्वराश्शक्तिः, जीवो बीजं, बुद्धिश्शक्तिः, उदानो बीजं, सुषुम्ना नाडी, सरस्वती शक्तिः, धर्मार्थकाममोक्षार्थे पाठे विनियोगः ॥ ध्यानम् । अर्कोन्मुक्तशशाङ्ककोटिवदनामापीनतुङ्गस्तनीं चन्द्रार्धाङ्कितमस्तकां मधुमदामालोलनेत्रत्रयीम् । बिभ्राणामनिशं वरं जपपटीं शूलं कपालं करैः आद्यां यौवनगर्वितां लिपितनुं वागीश्वरीमाश्रये ॥ अथ अन्नपूर्णासहस्रनामस्तोत्रम् । ॥ ॐ अन्नपूर्णायै नमः ॥ अन्नपूर्णा अन्नदात्री अन्नराशिकृतालया । अन्नदा अन्नरूपा च अन्नदानरतोत्सवा ॥ १॥ अनन्ता च अनन्ताक्षी अनन्तगुणशालिनी । अच्युता अच्युतप्राणा अच्युतानन्दकारिणी ॥ २॥ अव्यक्ताऽनन्तमहिमा अनन्तस्य कुलेश्वरी । अब्धिस्था अब्धिशयना अब्धिजा अब्धिनन्दिनी ॥ ३॥ अब्जस्था अब्जनिलया अब्जजा अब्जभूषणा । अब्जाभा अब्जहस्ता च अब्जपत्रशुभेक्षणा ॥ ४॥ अब्जानना अनन्तात्मा अग्रिस्था अग्निरूपिणी । अग्निजाया अग्निमुखी अग्निकुण्डकृतालया ॥ ५॥ अकारा अग्निमाता च अजयाऽदितिनन्दिनी । आद्या आदित्यसङ्काशा आत्मज्ञा आत्मगोचरा ॥ ६॥ आत्मसूरात्मदयिता आधारा आत्मरूपिणी । आशा आकाशपद्मस्था अवकाशस्वरूपिणी ॥ ७॥ आशापूरी अगाधा च अणिमादिसुसेविता । अम्बिका अबला अम्बा अनाद्या च अयोनिजा ॥ ८॥ अनीशा ईशिका ईशा ईशानी ईश्वरप्रीया । ईश्वरी ईश्वरप्राणा ईश्वरानन्ददायिनी ॥ ९॥ इन्द्राणी इन्द्रदयिता इन्द्रसूरिन्द्रपालिनी । इन्दिरा इन्द्रभगिनी इन्द्रिया इन्दुभूषणा ॥ १०॥ इन्दुमाता इन्दुमुखी इन्द्रियाणां वशङ्करी । उमा उमापतेः प्राणा ओड्याणपीठवासिनी ॥ ११॥ उत्तरज्ञा उत्तराख्या उकारा उत्तरात्मिका । ऋमाता ऋभवा ऋस्था ॠलॄकारस्वरूपिणी ॥ १२॥ ऋकारा च लृकारा च लॄतकप्रीतिदायिनी । एका च एकवीरा च एकारैकाररूपिणी ॥ १३॥ ओकारी ओघरूपा च ओघत्रयसुपूजिता । ओघस्था ओघसम्भूता ओघधात्री च ओघसूः ॥ १४॥ षोडशस्वरसम्भूता षोडशस्वररूपिणी । वर्णात्मा वर्णनिलया शूलिनी वर्णमालिनी ॥ १५॥ कालरात्रिर्महारात्रिर्मोहरात्रिः सुलोचना । काली कपालिनी कृत्या कालिका सिंहगामिनी ॥ १६॥ कात्यायनी कलाधारा कालदैत्यनिकृन्तनी । कामिनी कामवन्द्या च कमनीया विनोदिनी ॥ १७॥ कामसूः कामवनिता कामधुक् कमलावती । कामदात्री कराली च कामकेलिविनोदिनी ॥ १८॥ कामना कामदा काम्या कमला कमलार्चिता । काश्मीरलिप्तवक्षोजा काश्मीरद्रवचर्चिता ॥ १९॥ कनका कनकप्राणा कनकाचलवासिनी । कनकाभा काननस्था कामाख्या कनकप्रदा ॥ २०॥ कामपीठस्थिता नित्या कामधामनिवासिनी । कम्बुकण्ठी करालाक्षी किशोरी च कलापिनी ॥ २१॥ कला काष्ठा निमेषा च कालस्था कालरूपिणी । कालज्ञा कालमाता च कालधात्री कलावती ॥ २२॥ कालदा कालहा कुल्या कुरुकुल्ला कुलाङ्गना । कीर्तिदा कीर्तिहा कीर्तिः कीर्तिस्था कीर्तिवर्धनी ॥ २३॥ कीर्तिज्ञा कीर्तितपदा कृत्तिका केशवप्रिया । केशिहा केलीकारी च केशवानन्दकारिणी ॥ २४॥ कुमुदाभा कुमारी च कर्मदा कमलेक्षणा । कौमुदी कुमुदानन्दा कौलिनी च कुमुद्वती ॥ २५॥ कोदण्डधारिणी क्रोधा कूटस्था कोटराश्रया । कालकण्ठी करालाङ्गी कालाङ्गी कालभूषणा ॥ २६॥ कङ्काली कामदामा च कङ्कालकृतभूषणा । कपालकर्त्रिककरा करवीरस्वरूपिणी ॥ २७॥ कपर्दिनी कोमलाङ्गी कृपासिन्धुः कृपामयी । कुशावती कुण्डसंस्था कौबेरी कौशिकी तथा ॥ २८॥ काश्यपी कद्रुतनया कलिकल्मषनाशिनी । कञ्जस्था कञ्जवदना कञ्जकिञ्जल्कचर्चिता ॥ २९॥ कञ्जाभा कञ्जमध्यस्था कञ्जनेत्रा कचोद्भवा । कामरूपा च ह्रींकारी कश्यपान्वयवर्धिनी ॥ ३०॥ खर्वा च खञ्जनद्वन्द्वलोचना खर्ववाहिनी । खड्गिनी खड्गहस्ता च खेचरी खड्गरूपिणी ॥ ३१॥ खगस्था खगरूपा च खगगा खगसम्भवा । खगधात्री खगानन्दा खगयोनिस्वरूपिणी ॥ ३२॥ खगेशी खेटककरा खगानन्दविवर्धिनी । खगमान्या खगाधारा खगगर्वविमोचिनी ॥ ३३॥ गङ्गा गोदावरी गीतिर्गायत्री गगनालया । गीर्वाणसुन्दरी गौश्च गाधा गीर्वाणपूजिता ॥ ३४॥ गीर्वाणचर्चितपदा गान्धारी गोमती तथा । गर्विणी गर्वहन्त्री च गर्भस्था गर्भधारिणी ॥ ३५॥ गर्भदा गर्भहन्त्री च गन्धर्वकुलपूजिता । गया गौरी च गिरिजा गिरिस्था गिरिसम्भवा ॥ ३६॥ गिरिगह्वरमध्यस्था कुञ्जरेश्वरगामिनी । किरीटिनी च गदिनी गुञ्जाहारविभूषणा ॥ ३७॥ गणपा गणका गण्या गणकानन्दकारिणी । गणपूज्या च गीर्वाणी गणपाननन्दकारिणी ॥ ३८॥ गुरुमाता गुरुरता गुरुभक्तिपरायणा । गोत्रा गौः कृष्णभगिनी कृष्णसूः कृष्णनन्दिनी ॥ ३९॥ गोवर्धनी गोत्रधरा गोवर्धनकृतालया । गोवर्धनधरा गोदा गौराङ्गी गौतमात्मजा ॥ ४०॥ घर्घरा घोररूपा च घोरा घर्घरनादिनी । श्यामा घनरवाऽघोरा घना घोरार्तिनाशिनी ॥ ४१॥ घनस्था च घनानन्दा दारिद्र्यघननाशिनी । चित्तज्ञा चिन्तितपदा चित्तस्था चित्तरूपिणी ॥ ४२॥ चक्रिणी चारुचम्पाभा चारुचम्पकमालिनी । चन्द्रिका चन्द्रकान्तिश्च चापिनी चन्द्रशेखरा ॥ ४३॥ चण्डिका चण्डदैत्यघ्नी चन्द्रशेखरवल्लभा । चाण्डालिनी च चामुण्डा चण्डमुण्डवधोद्यता ॥ ४४॥ चैतन्यभैरवी चण्डा चैतन्यघनगेहिनी । चित्स्वरूपा चिदाधारा चण्डवेगा चिदालया ॥ ४५॥ चन्द्रमण्डलमध्यस्था चन्द्रकोटिसुशीतला । चपला चन्द्रभगिनी चन्द्रकोटिनिभानना ॥ ४६॥ चिन्तामणिगुणाधारा चिन्तामणिविभूषणा । भक्तचिन्तामणिलता चिन्तामणिकृतालया ॥ ४७॥ चारुचन्दनलिप्ताङ्गी चतुरा च चतुर्मुखी । चैतन्यदा चिदानन्दा चारुचामरवीजिता ॥ ४८॥ छत्रदा छत्रधारी च छलच्छद्मविनाशिनी । छत्रहा छत्ररूपा च छत्रच्छायाकृतालया ॥ ४९॥ जगज्जीवा जगद्धात्री जगदानन्दकारिणी । यज्ञप्रिया यज्ञरता जपयज्ञपरायणा ॥ ५०॥ जननी जानकी यज्वा यज्ञहा यज्ञनन्दिनी । यज्ञदा यज्ञफलदा यज्ञस्थानकृतालया ॥ ५१॥ यज्ञभोक्त्री यज्ञरूपा यज्ञविघ्नविनाशिनी । जपाकुसुमसङ्काशा जपाकुसुमशोभिता ॥ ५२॥ जालन्धरी जया जैत्री जीमूतचयभाषिणी । जयदा जयरूपा च जयस्था जयकारिणी ॥ ५३॥ जगदीशप्रिया जीवा जलस्था जलजेक्षणा । जलरूपा जह्नुकन्या यमुना जलजोदरी ॥ ५४॥ जलजास्या जाह्नवी च जलजाभा जलोदरी । यदुवंशोद्भवा जीवा यादवानन्दकारिणी ॥ ५५॥ यशोदा यशसां राशिर्यशोदानन्दकारिणी । ज्वलिनी ज्वालिनी ज्वाला ज्वलत्पावकसन्निभा ॥ ५६॥ ज्वालामुखी जगन्माता यमलार्जुनभञ्जनी । जन्मदा जन्महा जन्या जन्मभूर्जनकात्मजा ॥ ५७॥ जनानन्दा जाम्बवती जम्बूद्वीपकृतालया । जाम्बूनदसमानाभा जाम्बूनदविभूषणा ॥ ५८॥ जम्भहा जातिदा जातिर्ज्ञानदा ज्ञानगोचरा । ज्ञानरूपाऽज्ञानहा च ज्ञानविज्ञानशालिनी ॥ ५९॥ जिनजैत्री जिनाधारा जिनमाता जिनेश्वरी । जितेन्द्रिया जनाधारा अजिनाम्बरधारिणी ॥ ६०॥ शम्भुकोटिदुराधर्षा विष्णुकोटिविमर्दिनी । समुद्रकोटिगम्भीरा वायुकोटिमहाबला ॥ ६१॥ सूर्यकोटिप्रतीकाशा यमकोटिदुरापहा । कामधुक्कोटिफलदा शक्रकोटिसुराज्यदा ॥ ६२॥ कन्दर्पकोटिलावण्या पद्मकोटिनिभानना । पृथ्वीकोटिजनाधारा अग्निकोटिभयङ्करी ॥ ६३॥ अणिमा महिमा प्राप्तिर्गरिमा लघिमा तथा । प्राकाम्यदा वशकरी ईशिका सिद्धिदा तथा ॥ ६४॥ महिमादिगुणोपेता अणिमाद्यष्टसिद्धिदा । जवनध्नी जनाधीना जामिनी च जरापहा ॥ ६५॥ तारिणी तारिका तारा तोतला तुलसीप्रिया । तन्त्रिणी तन्त्ररूपा च तन्त्रज्ञा तन्त्रधारिणी ॥ ६६॥ तारहारा च तुलजा डाकिनीतन्त्रगोचरा । त्रिपुरा त्रिदशा त्रिस्था त्रिपुरासुरघातिनी ॥ ६७॥ त्रिगुणा च त्रिकोणस्था त्रिमात्रा त्रितनुस्थिता । त्रैविद्या च त्रयी त्रिघ्नी तुरीया त्रिपुरेश्वरी ॥ ६८॥ त्रिकोदरस्था त्रिविधा त्रैलोक्या त्रिपुरात्मिका । त्रिधाम्नी त्रिदशाराध्या त्र्यक्षा त्रिपुरवासिनी ॥ ६९॥ त्रिवर्णी त्रिपदी तारा त्रिमूर्तिजननी त्वरा । त्रिदिवा त्रिदिवेशाऽऽदिर्देवी त्रैलोक्यधारिणी ॥ ७०॥ त्रिमूर्तिश्च त्रिजननी त्रीभूस्त्रीपुरसुन्दरी । तपस्विनी तपोनिष्ठा तरुणी ताररूपिणी ॥ ७१॥ तामसी तापसी चैव तापघ्नी च तमोपहा । तरुणार्कप्रतीकाशा तप्तकाञ्चनसन्निभा ॥ ७२॥ उन्मादिनी तन्तुरूपा त्रैलोक्यव्यापिनीश्वरी । तार्किकी तर्किकी विद्या तापत्रयविनाशिनी ॥ ७३॥ त्रिपुष्करा त्रिकालज्ञा त्रिसन्ध्या च त्रिलोचना । त्रिवर्गा च त्रिवर्गस्था तपसस्सिद्धिदायिनी ॥ ७४॥ अधोक्षजा अयोध्या च अपर्णा च अवन्तिका । कारिका तीर्थरूपा च तीरा तीर्थकरी तथा ॥ ७५॥ दारिद्र्यदुःखदलिनी अदीना दीनवत्सला । दीनानाथप्रिया दीर्घा दयापूर्णा दयात्मिका ॥ ७६॥ देवदानवसम्पूज्या देवानां प्रियकारिणी । दक्षपुत्री दक्षमाता दक्षयज्ञविनाशिनी ॥ ७७॥ देवसूर्दक्षीणा दक्षा दुर्गा दुर्गतिनाशिनी । देवकीगर्भसम्भूता दुर्गदैत्यविनाशिनी ॥ ७८॥ अट्टाऽट्टहासिनी दोला दोलाकर्माभिनन्दिनी । देवकी देविका देवी दुरितघ्नी तटित्तथा ॥ ७९॥ गण्डकी गल्लकी क्षिप्रा द्वारा द्वारवती तथा । आनन्दोदधिमध्यस्था कटिसूत्रैरलङ्कृता ॥ ८०॥ घोराग्निदाहदमनी दुःखदुस्स्वप्ननाशिनी । श्रीमयी श्रीमती श्रेष्ठा श्रीकरी श्रीविभाविनी ॥ ८१॥ श्रीदा श्रीशा श्रीनिवासा श्रीमती श्रीर्मतिर्गतिः । धनदा दामिनी दान्ता धमदो धनशालिनी ॥ ८२॥ दाडिमीपुष्पसङ्काशा धनागारा धनञ्जया । धूम्राभा धूम्रदैत्त्रघ्नी धवला धवलप्रिया ॥ ८३॥ धूम्रवक्त्रा धूम्रनेत्रा धूम्रकेशी च धूसरा । धरणी धरिणी धैर्या धरा धात्री च धैर्यदा ॥ ८४॥ दमिनी धर्मिणी धूश्च दया दोग्ध्री दुरासदा । नारायणी नारसिंही नृसिंहहृदयालया ॥ ८५॥ नागिनी नागकन्या च नागसूर्नागनायिका । नानारत्नविचित्राङ्गी नानाभरणमण्डिता ॥ ८६॥ दुर्गस्था दुर्गरूपा च दुःखदुष्कृतनाशिनी । हीङ्कारी चैव श्रीङ्कारी हुङ्कारी क्लेशनाशिनी ॥ ८७॥ नगात्मजा नागरी च नवीना नूतनप्रिया । नीरजास्या नीरदाभा नवलावण्यसुन्दरी ॥ ८८॥ नीतिज्ञा नीतिदा नीतिर्निमनाभिर्नगेश्वरी । निष्ठा नित्या निरातङ्का नागयज्ञोपवीतिनी ॥ ८९॥ निधिदा निधिरूपाच निर्गुणा नरवाहिनी । नरमांसरता नारी नरमुण्डविभूषणा ॥ ९०॥ निराधारा निर्विकारा नुतिर्निर्वाणसुन्दरी । नरासृक्पानमत्ता च निर्वैरा नागगामिनी ॥ ९१॥ परमा प्रमिता प्राज्ञा पार्वती पर्वतात्मजा । पर्वप्रिया पर्वरता पर्वपावनपावनी ॥ ९२॥ परात्परतरा पूर्वा पश्चिमा पापनाशिनी । पशूनां पतिपत्नी च पतिभक्तिपरायणा ॥ ९३॥ परेशी पारगा पारा परञ्ज्योतिस्वरूपिणी । निष्ठुरा क्रूरहृदया परासिद्धिः परागतिः ॥ ९४॥ पशुघ्नी पशुरूपा च पशुहा पशुवाहिनी । पिता माता च यन्त्री च पशुपाशविनाशिनी ॥ ९५॥ पद्मिनी पद्महस्ता च पद्मकिञ्जल्कवासिनी । पद्मवक्त्रा च पद्माक्षी पद्मस्था पद्मसम्भवा ॥ ९६॥ पद्मास्या पञ्चमी पूर्णा पूर्णपीठनिवासिनी । पद्मरागप्रतीकाशा पाञ्चाली पञ्चमप्रिया ॥ ९७॥ परब्रह्मस्वरूपा च परब्रह्मनिवासिनी । परमानन्दमुदिता परचक्रनिवासिनी ॥ ९८॥ परेशी परमा पृथ्वी पीनतुङ्गपयोधरा । परापरा पराविद्या परमानन्ददायिनी ॥ ९९॥ पूज्या प्रज्ञावती पुष्टिः पिनाकिपरिकीर्तिता । प्राणघ्नी प्राणरूपा च प्राणदा च प्रियंवदा ॥ १००॥ फणिभूषा फणावेशी फकारकण्ठमालिनी । फणिराड्वृतसर्वाङ्गी फलभागनिवासिनी ॥ १०१॥ बलभद्रस्य भगिनी बाला बालप्रदायिनी । फल्गुरुपा प्रलम्बध्नी फल्गूत्सव विनोदिनी ॥ १०२॥ भवानी भवपत्नी च भवभीतिहरा भवा । भवेश्वरी भवाराध्या भवेशी भवनायिका ॥ १०३॥ भवमाता भवागम्या भवकण्टकनाशिनी । भवप्रिया भवानन्दा भव्या च भवमोचनी ॥ १०४॥ भावनीया भगवती भवभारविनाशिनी । भूतधात्री च भूतेशी भूतस्था भूतरूपिणी ॥ १०५॥ भूतमाता च भूतघ्नी भूतपञ्चकवासिनी । भोगोपचारकुशला भिस्साधात्री च भूचरी ॥ १०६॥ भीतिघ्नी भक्तिगम्या च भक्तानामार्तिनाशिनी । भक्तानुकम्पिनी भीमा भगिनी भगनायिका ॥ १०७॥ भगविद्या भगक्लिन्ना भगयोनिर्भगप्रदा । भगेशी भगरूपा च भगगुह्या भगापहा ॥ १०८॥ भगोदरी भगानन्दा भगाद्या भगमालिनी । भोगप्रदा भोगवासा भोगमूला च भोगिनी ॥ १०९॥ भेरुण्डा भेदिनी भीमा भद्रकाली भिदोज्झिता । भैरवी भुवनेशानी भुवना भुवनेश्वरी ॥ ११०॥ भीमाक्षी भारती चैव भैरवाष्टकसेविता । भास्वरा भास्वती भीतिर्भास्वदुत्तानशायिनी ॥ १११॥ भागीरथी भोगवती भवघ्नी भुवनात्मिका । भूतिदा भूतिरूपा च भूतस्था भूतवर्धिनी ॥ ११२॥ माहेश्वरी महामाया महातेजा महासुरी । महाजिह्वा महालोला महादंष्ट्रा महाभुजा ॥ ११३॥ महामोहान्धकारघ्नी महामोक्षप्रदायिनी । महादारिद्र्यशमनी महाशत्रुविमर्दिनी ॥ ११४॥ महाशक्तिर्महाज्योतिर्महासुरविमर्दिनी । महाकाया महावीर्या महापातकनाशिनी ॥ ११५॥ महारवा मन्त्रमयी मणिपूरनिवासिनी । मानसी मानदा मान्या मनश्चक्षुरगोचरा ॥ ११६॥ माहेन्द्री मधुरा माया महिषासुरमर्दिनी । महाकुण्डलिनी शक्तिर्महाविभववर्धिनी ॥ ११७॥ मानसी माधवी मेधा मतिदा मतिधारिणी । मेनकागर्भसम्भूता मेनकाभगिनी मतिः ॥ ११८॥ महोदरी मुक्तकेशी मुक्तिकाम्यार्थसिद्धिदा । माहेशी महिषारूढा मधुदैत्यविमर्दिनी ॥ ११९॥ महाव्रता महामूर्धा महाभयविनाशिनी । मातङ्गी मत्तमातङ्गी मातङ्गकुलमण्डिता ॥ १२०॥ महाघोरा माननीया मत्तमातङ्गगामिनी । मुक्ताहारलतोपेता मदधूर्णितलोचना ॥ १२१॥ महापराधराशिघ्री महाचोरभयापहा । महाचिन्त्यस्वरूपा च मणीमन्त्रमहौषधी ॥ १२२॥ मणिमण्डपमध्यस्था मणिमालाविराजिता । मन्त्रात्मिका मन्त्रगम्या मन्त्रमाता सुमन्त्रिणी ॥ १२३॥ मेरुमन्दिरमध्यस्था मकराकृतिकुण्डला । मन्थरा च महासूक्ष्मा महादूती महेश्वरी ॥ १२४॥ मालिनी मानवी माध्वी मदरूपा मदोत्कटा । मदिरा मधुरा चैव मोदिनी च महोद्धता ॥ १२५॥ मङ्गलाङ्गी मधुमयी मधुपानपरायणा । मनोरमा रमामाता राजराजेश्वरी रमा ॥ १२६॥ राजमान्या राजपूज्या रक्तोत्पलविभूषणा । राजीवलोचना रामा राधिका रामवल्लभा ॥ १२७॥ शाकिनी डाकिनी चैव लावण्याम्बुधिवीचिका । रुद्राणी रुद्ररूपा च रौद्रा रुद्रार्तिनाशिनी ॥ १२८॥ रक्तप्रिया रक्तवस्त्रा रक्ताक्षी रक्तलोचना । रक्तकेशी रक्तदंष्ट्रा रक्तचन्दनचर्चिता ॥ १२९॥ रक्ताङ्गी रक्तभूषा च रक्तबीजनिपातिनी । रागादिदोषरहिता रतिजा रतिदायिनी ॥ १३०॥ विश्वेश्वरी विशालाक्षी विन्ध्यपीठनिवासिनी । विश्वभूर्वीरविद्या च वीरसूर्वीरनन्दिनी ॥ १३१॥ वीरेश्वरी विशालाक्षी विष्णुमाया विमोहिनी । विद्यावती विष्णुरूपा विशालनयनोज्ज्वला ॥ १३२॥ विष्णुमाता च विश्वात्मा विष्णुजायास्वरूपिणी । वाराही वरदा वन्द्या विख्याता विलसल्कचा ॥ १३३॥ ब्रह्मेशी ब्रह्मदा ब्राह्मी ब्रह्माणी ब्रह्मरूपिणी । द्वारका विश्ववन्द्या च विश्वपाशविमोचनी । विश्वासकारिणी विश्वा विश्वशक्तिर्विचक्षणा ॥ १३४॥ बाणचापधरा वीरा बिन्दुस्था बिन्दुमालिनी । षट्चक्रभेदिनी षोढा षोडशारनिवासिनी ॥ १३५॥ शितिकण्ठप्रिया शान्ता शाकिनी वातरूपिणी । शाश्वती शम्भुवनिता शाम्भवी शिवरूपिणी ॥ १३६॥ शिवमाता च शिवदा शिवा शिवहृदासना । शुक्लाम्बरा शीतला च शीला शीलप्रदायिनी ॥ १३७॥ शिशुप्रिया वैद्यविद्या सालग्रामशिला शुचिः । हरिप्रिया हरमूर्तिर्हरिनेत्रकृतालया ॥ १३८॥ हरिवक्त्रोद्भवा हाला हरिवक्षःस्थलस्थिता । क्षेमङ्करी क्षितिः क्षेत्रा क्षुधितस्य प्रपूरणी ॥ १३९॥ वैश्या च क्षत्रिया शूद्री क्षत्रियाणां कुलेश्वरी । हरपत्नी हराराध्या हरसूर्हररूपिणी ॥ १४०॥ सर्वानन्दमयी सिद्धिस्सर्वरक्षास्वरूपिणी । सर्वदुष्टप्रशमनी सर्वेप्सितफलप्रदा ॥ १४१॥ सर्वसिद्धेश्वराराध्या सर्वमङ्गलमङ्गला । फलश्रुतिः । पुण्यं सहस्रनामेदं तव प्रीत्या प्रकाशितम् ॥ १४२॥ गोपनीयं प्रयत्नेन पठनीयं प्रयत्नतः । नातः परतरं पुण्यं नातः परतरं तपः ॥ १४३॥ नातः परतरं स्तोत्रं नातः परतरा गतिः । स्तोत्रं नामसहस्राख्यं मम वक्त्राद्विनिर्गतम् ॥ १४४॥ यः पठेत्परया भक्त्या श‍ृणुयाद्वा समाहितः । मोक्षार्थी लभते मोक्षं स्वर्गार्थी स्वर्गमाप्नुयात् ॥ १४५॥ कामार्थी लभते कामं धनार्थी लभते धनम् । विद्यार्थी लभते विद्यां यशोऽर्थी लभते यशः ॥ १४६॥ कन्यार्थी लभते कन्यां सुतार्थी लभते सुतान् । मूर्खोऽपि लभते शास्त्रं चोरोऽपि लभते गतिम् ॥ १४७॥ गुर्विणी जनयेत्पुत्रं कन्यां विन्दति सत्पतिम् । संक्रान्त्यां च चतुर्दश्यामष्टम्यां च विशेषतः ॥ १४८॥ पौर्णमास्याममावास्यां नवम्यां भौमवासरे । पठेद्वा पाठयेद्वापि पूजयेद्वापि पुस्तकम् ॥ १४९॥ स मुक्तस्सर्वपापेभ्यः कामेश्वरसमो भवेत् । लक्ष्मीवान् सुतवांश्चैव वल्लभस्सर्वयोषिताम् ॥ १५०॥ तस्य वश्यं भवेदाशु त्रैलोक्यं सचराचरम् । विद्यानां पारगो विप्रः क्षत्रियो विजयी रणे ॥ १५१॥ वैश्यो धनसमृद्धस्स्याच्छूद्रस्सुखमवाप्नुयात् । क्षेत्रे च बहुसस्यं स्याद्गावश्च बहुदुग्धदाः ॥ १५२॥ नाशुभं नापदस्तस्य न भयं नृपशत्रुतः । जायते नाशुभा बुद्धिर्लभते कुलपूज्यताम् ॥ १५३॥ न बाधन्ते ग्रहास्तस्य न रक्षांसि न पन्नगाः । न पिशाचा न डाकिन्यो भूतभेतालडम्भकाः ॥ १५४॥ बालग्रहाभिभूतानां बालानां शान्तिकारकम् । द्वन्द्वानां प्रतिभेदे च मैत्रीकरणमुत्तमम् ॥ १५५॥ लोहपाशैदृढैर्बद्धो बन्दी वेश्मनि दुर्गमे । तिष्ठञ्छृण्वन्पतन्मर्त्यो मुच्यते नात्र संशयः ॥ १५६॥ पश्यन्ति नहि ते शोकं वियोगं चिरजीविनः । श‍ृण्वती बद्धगर्भा च सुखं चैव प्रसूयते ॥ १५७॥ एकदा पठनादेव सर्वपापक्षयो भवेत् । नश्यन्ति च महारोगा दशधावर्तनेन च ॥ १५८॥ शतधावर्तने चैव वाचां सिद्धिः प्रजायते । नवरात्रे जिताहारो दृढबुद्धिर्जितेन्द्रियः ॥ १५९॥ अम्बिकायतने विद्वान् शुचिष्मान् मूर्तिसन्निधौ । एकाकी च दशावर्तं पठन्धीरश्च निर्भयः ॥ १६०॥ साक्षात्त्वगवती तस्मै प्रयच्छेदीप्सितं फलम् । सिद्धपीठे गिरौ रम्ये सिद्धक्षेत्रे सुरालये ॥ १६१॥ पठनात्साधकस्याशु सिद्धिर्भवति वाञ्छिता । दशावर्तं पठेन्नित्यं भूमीशायी नरश्शुचिः ॥ १६२॥ स्वप्ने मूर्तिमयां देवीं वरदां सोऽपि पश्यति । आवर्तनसहस्रैर्ये जपन्ति पुरुषोत्तमाः ॥ १६३॥ ते सिद्धा सिद्धिदा लोके शापानुग्रहणक्षमाः । प्रयच्छन्तश्च सर्वस्वं सेवन्ते तान्महीश्वराः ॥ १६४॥ भूर्जपत्रेऽष्टगन्धेन लिखित्वा तु शुभे दिने । धारयेद्यन्त्रितं शीर्षे पूजयित्वा कुमारिकाम् ॥ १६५॥ ब्राह्मणान् वरनारीश्च धूपैः कुसुमचन्दनैः । क्षीरखण्डादिभोज्यांश्च भोजयित्वा सुभक्तितः ॥ १६६॥ बध्नन्ति ये महारक्षां बालानां च विशेषतः । रुद्रं दृष्ट्वा यथा देवं विष्णुं दृष्ट्वा च दानवाः ॥ १६७॥ पन्नगा गरुडं दृष्ट्वा सिंहं दृष्ट्वा यथा गजाः । मण्डूका भोगिनं दृष्ट्वा मार्जारं मूषिकास्तथा ॥ १६८॥ विघ्नभूताः पलायन्ते तस्य वक्त्रविलोकनात् । अग्निचोरभयं तस्य कदाचिन्नैव सम्भवेत् ॥ १६९॥ पातकान्विविधान्सोऽपि मेरुमन्दरसन्निभान् । भस्मितान्कुरुते क्षिप्रं तृणं वह्निहुतं यथा ॥ १७०॥ नृपाश्च वश्यतां यान्ति नृपपूज्याश्च ते नराः । महार्णवे महानद्यां पोतस्थे च न भीः कचित् ॥ १७१॥ रणे द्यूते विवादे च विजयं प्राप्नुवन्ति ते । सर्वत्र पूजितो लोकैर्बहुमानपुरस्सरैः ॥ १७२॥ रतिरागविवृद्धाश्च विह्वलाः कामपीडिताः । यौवनाक्रान्तदेहास्तान् श्रयन्ते वामलोचनाः ॥ १७३॥ सहस्रं जपते यस्तु खेचरी जायते नरः । सहस्रदशकं देवि यः पठेद्भक्तिमान्नरः ॥ १७४॥ सा तस्य जगतां धात्री प्रत्यक्षा भवति ध्रुवम् । लक्षं पूर्णं यदा देवि स्तोत्रराजं जपेत्सुधीः ॥ १७५॥ भवपाशविनिर्मुक्तो मम तुल्यो न संशयः । सर्वतीर्थेषु यत्पुण्यं सर्वतीर्थेषु यत्फलम् ॥ १७६॥ सर्वधर्मेषु यज्ञेषु सर्वदानेषु यत्फलम् । सर्ववेदेषु प्रोक्तेषु यत्फलं परिकीर्तितम् ॥ १७७॥ तत्पुण्यं कोटिगुणितं सकृज्जप्त्वा लभेन्नरः । देहान्ते परमं स्थानं यत्सुरैरपि दुर्लभम् । स यास्यति न सन्देहस्स्तवराजस्य कीर्तनात् ॥ १७८॥ ॥ इति रुद्रयामले श्रीअन्नपूर्णासहस्रनामस्तोत्रं सम्पूर्णम् ॥

शनिवार, 13 मार्च 2021

श्री अणु राघवेन्द्रस्तोत्रम्

 

श्री अणु राघवेन्द्रस्तोत्रम्

पूज्याय राघवेन्द्राय सत्यधर्मरताय च । भजतां कल्पवृक्षाय नमतां कामधेनवे ॥ १॥ दुर्वादिध्वान्तरवये वैष्णवेन्दीवरेन्दवे । श्रीराघवेन्द्रगुरवे नमोऽत्यन्तदयालवे ॥ २॥ श्रीसुधीन्द्राब्धिसम्भूतान् राघवेन्द्रकलानिधीन् । सेवे सज्ज्ञानसौख्यार्थं सन्तापत्रयशान्तये ॥ ३॥ अघं द्रावयते यस्माद्वेङ्कारो वाञ्छितप्रदः । राघवेन्द्रयतिस्तस्माल्लोके ख्यातो भविष्यति ॥ ४॥ व्यासेन व्युप्तबीजः श्रुतिभुवि भगवत्पादलब्धाङ्कुरश्रीः ब्रध्नैरीषत्प्रभिन्नोऽजनि जयमुनिना सम्यगुद्भिन्नशाखः । मौनीशव्यासराजादुदितकिसलयःपुष्पितोऽयं जयीन्द्रा- दद्य श्रीराघवेन्द्राद्विलसति फलितो मध्वसिद्धान्तशाखी ॥ ५॥ मूकोऽपि यत्प्रसादेन मुकुन्दशयनायते । राजराजायते रिक्तो राघवेन्द्रं तमाश्रये ॥ ६॥ इति श्री अणुराघवेन्द्रस्तोत्रं सम्पूर्णम् ।

शुक्रवार, 12 मार्च 2021

अञ्जनशैलनाथस्तोत्रम्

 

अञ्जनशैलनाथस्तोत्रम्

पुलकिनि भुजमध्ये पूजयन्तं पुरन्ध्रीं भुवननयनपुण्यं पूरिताशेषकामम् । पुनरपि वृषशैले फुल्लनीलोत्पलाभं पुरुषमनुभवेयं पुण्डरीकायताक्षम् ॥ १॥ आजानसौहृदमपारकृपामृताब्धिं अव्याजवत्सलमवेलसुशीलमाद्यम् । आनन्दराशिमनुरागमयावरोधं आराधयामि हरिमञ्जनशैलनाथम् ॥ २॥ आताम्रपादमवदातसुवर्णचेलं आपीनबाहुशिखरोज्ज्वलशङ्खचक्रम् । आविस्स्मिताननममन्ददयाकटाक्षं आराधयामि हरिमञ्जनशैलनाथम् ॥ ३॥ अप्राकृतावयवसंहितसंनिवेशं आरूढयौवनमहीनकुमारभावम् । अम्लानकान्तिमतिवाङ्मनसानुभावं आराधयामि हरिमञ्जनशैलनाथम् ॥ ४॥ आशावकाशसमुदित्वरसर्वगन्धं आस्वादयत्सुगमसर्वरसस्वभावम् । आश्लेषगम्यसुखसंस्पृशनातिरेकं आराधयामि हरिमञ्जनशैलनाथम् ॥ ५॥ आदर्शयन्तमतिसंकुचिताक्षिशक्तिं आश्रावयन्तमखिलान् बधिरान् प्रकृत्या । आभाषयन्तमभितो नतमूकवर्गं आराधयामि हरिमञ्जनशैलनाथम् ॥ ६॥ आधावयन्तमतिमारुतमेव पङ्गून् आजानुलम्बिभुजयन्तमहो कुबाहून् । अन्यांश्च कृतशिरसः प्रतिजीवयन्तं आराधयामि हरिमञ्जनशैलनाथम् ॥ ७॥ आजन्मनिर्धनजनानलकेशयन्तं अज्ञानपि त्रिदशदेशिकदेश्ययन्तम् । अह्नाय वन्ध्यमपि मर्त्यमवन्ध्ययन्तं आराधयामि हरिमञ्जनशैलनाथम् ॥ ८॥ आबद्धकङ्कणमशेषशरण्यतायां आपत्सहायमपराधसहं नतानाम् । आसन्नसामगसुखालससूरिवर्गं आराधयामि हरिमञ्जनशैलनाथम् ॥ ९॥ अध्यासितासनसरोजसनूपुराङ् घ्रिं आमुक्तवीरकटकायतवृत्तजङ्घम् । आश्चर्यजानुयुगमप्रतिमोरुकाण्डं आराधयामि हरिमञ्जनशैलनाथम् ॥ १०॥ आवर्तिनिम्ननिखिलाण्डनिदाननाभिं आयामिदोर्विवरकेलिगृहावरोधम् । आबद्धरत्नमयभूषभुजाचतुष्कं आराधयामि हरिमञ्जनशैलनाथम् ॥ ११॥ अंसावलम्बिमणिकुण्डलकान्तगण्डं आविस्स्मितांशुमधुराधरबन्धुजीवम् । आस्याब्जसौरभसमुत्सुकदीर्घनासं आराधयामि हरिमञ्जनशैलनाथम् ॥ १२॥ अर्धेन्दुभास्वदलिकोल्लसदूर्ध्वपुण्ड्रं आलोलनीलकुटिलालकचारुवक्त्रम् । आविर्मयूखमणिचूडमहाकिरीटं आराधयामि हरिमञ्जनशैलनाथम् ॥ १३॥ वादिभीतिकरार्येण रचिता भावबन्ध तः शोभते वेङ्कटाद्रीशविषया स्तुतिरद्भुता ॥ ॥ इति अञ्जनशैलनाथस्तोत्रं संपूर्णम् ॥

गुरुवार, 11 मार्च 2021

अङ्गारकस्तोत्रम्

 

अङ्गारकस्तोत्रम्

अस्य श्री अङ्गारकस्तोत्रस्य । विरूपाङ्गिरस ऋषिः । अग्निर्देवता । गायत्री छन्दः । भौमप्रीत्यर्थं जपे विनियोगः । अङ्गारकः शक्तिधरो लोहिताङ्गो धरासुतः । कुमारो मङ्गलो भौमो महाकायो धनप्रदः ॥ १॥ ऋणहर्ता दृष्टिकर्ता रोगकृद्रोगनाशनः । विद्युत्प्रभो व्रणकरः कामदो धनहृत् कुजः ॥ २॥ सामगानप्रियो रक्तवस्त्रो रक्तायतेक्षणः । लोहितो रक्तवर्णश्च सर्वकर्मावबोधकः ॥ ३॥ रक्तमाल्यधरो हेमकुण्डली ग्रहनायकः । नामान्येतानि भौमस्य यः पठेत्सततं नरः ॥ ४॥ ऋणं तस्य च दौर्भाग्यं दारिद्र्यं च विनश्यति । धनं प्राप्नोति विपुलं स्त्रियं चैव मनोरमाम् ॥ ५॥ वंशोद्द्योतकरं पुत्रं लभते नात्र संशयः । योऽर्चयेदह्नि भौमस्य मङ्गलं बहुपुष्पकैः ॥ ६॥ सर्वा नश्यति पीडा च तस्य ग्रहकृता ध्रुवम् ॥ ७॥ ॥ इति श्रीस्कन्दपुराणे अङ्गारकस्तोत्रं संपूर्णम् ॥

बुधवार, 10 मार्च 2021

श्रीअङ्गारकाष्टोत्तरशतनामस्तोत्रम्

 

श्रीअङ्गारकाष्टोत्तरशतनामस्तोत्रम्

मङ्गल बीज मन्त्र - ॐ क्राँ क्रीं क्रौं सः भौमाय नमः ॥ महीसुतो महाभागो मंगळो मंगळप्रदः । महावीरो महाशूरो महाबलपराक्रमः ॥ १॥ महारौद्रो महाभद्रो माननीयो दयाकरः । मानजोऽमर्षणः क्रूरः तापपापविवर्जितः ॥ २॥ सुप्रतीपः सुताम्राक्षः सुब्रह्मण्यः सुखप्रदः । वक्रस्तम्भादिगमनो वरेण्यो वरदः सुखी ॥ ३॥ वीरभद्रो विरूपाक्षो विदूरस्थो विभावसुः । नक्षत्रचक्रसञ्चारी क्षत्रपः क्षात्रवर्जितः ॥ ४॥ क्षयवृद्धिविनिर्मुक्तः क्षमायुक्तो विचक्षणः । अक्षीणफलदः चक्षुर्गोचरष्षुभलक्षणः ॥ ५॥ वीतरागो वीतभयो विज्वरो विश्वकारणः । नक्षत्रराशिसञ्चारो नानाभयनिकृन्तनः ॥ ६॥ कमनीयो दयासारः कनत्कनकभूषणः । भयघ्नो भव्यफलदो भक्ताभयवरप्रदः ॥ ७॥ शत्रुहन्ता शमोपेतः शरणागतपोषकः । साहसः सद्गुणाध्यक्षः साधुः समरदुर्जयः ॥ ८॥ दुष्टदूरः शिष्टपूज्यः सर्वकष्टनिवारकः । दुश्चेष्टवारको दुःखभञ्जनो दुर्धरो हरिः ॥ ९॥ दुःस्वप्नहन्ता दुर्धर्षो दुष्टगर्वविमोचकः । भरद्वाजकुलोद्भूतो भूसुतो भव्यभूषणः ॥ १०॥ रक्ताम्बरो रक्तवपुर्भक्तपालनतत्परः । चतुर्भुजो गदाधारी मेषवाहो मिताशनः ॥ ११॥ शक्तिशूलधरश्शक्तः शस्त्रविद्याविशारदः । तार्किकः तामसाधारः तपस्वी ताम्रलोचनः ॥ १२॥ तप्तकाञ्चनसंकाशो रक्तकिञ्जल्कसन्निभः । गोत्राधिदेवो गोमध्यचरो गुणविभूषणः ॥ १३॥ असृजंगारकोऽवन्तीदेशाधीशो जनार्दनः । सूर्ययाम्यप्रदेशस्थो यावनो याम्यदिऽग्मुखः ॥ १४॥ त्रिकोणमण्डलगतो त्रिदशाधिपसन्नुतः । शुचिः शुचिकरः शूरो शुचिवश्यः शुभावहः ॥ १५॥ मेषवृश्चिकराशीशो मेधावी मितभाषणः । सुखप्रदः सुरूपाक्षः सर्वाभीष्टफलप्रदः ॥ १६॥ ॥ इति मङ्गल एवं अङ्गारकाष्टोत्तरशतनामस्तोत्रम् सम्पूर्णम् ॥

मंगलवार, 9 मार्च 2021

अघनाशकगायत्रीस्तोत्रम्

 

अघनाशकगायत्रीस्तोत्रम्

नारद उवाच - भक्तानुकम्पिन्सर्वज्ञ हृदयं पापनाशनम् । गायत्र्याः कथितं तस्माद्गायत्र्याः स्तोत्रमीरय ॥ १॥ आदिशक्ते जगन्मातर्भक्तानुग्रहकारिणि । सर्वत्र व्यापिकेऽनन्ते श्रीसन्ध्ये ते नमोऽस्तु ते ॥ २॥ त्वमेव सन्ध्या गायत्री सावित्री च सरस्वती । ब्राह्मी च वैष्णवी रौद्री रक्ता श्वेता सितेतरा । ३॥। प्रातर्बाला च मध्याह्ने यौवनस्था भवेत्पुनः । ब्रह्मा सायं भगवती चिन्त्यते मुनिभिः सदा ॥ ४॥ वृद्धा सायं हंसस्था गरुडारूढा तथा वृषभवाहिनी । ऋग्वेदाध्यायिनी भूमौ दृश्यते या तपस्विभिः ॥ ५॥ यजुर्वेदं पठन्ती च अन्तरिक्षे विराजते । सा सामगापि सर्वेषु भ्राम्यमाणा तथा भुवि ॥ ६॥ रुद्रलोकं गता त्वं हि विष्णुलोकनिवासिनी । त्वमेव ब्रह्मणो लोकेऽमर्त्यानुग्रहकारिणी ॥ ७॥ सप्तर्षिप्रीतिजननी माया बहुवरप्रदा । शिवयोः करनेत्रोत्था ह्यश्रुस्वेदसमुद्भवा ॥ ८॥ आनन्दजननी दुर्गा दशधा परिपठ्यते । वरेण्या वरदा चैव वरिष्ठा वरवर्णिनी ॥ ९॥ गरिष्ठा च वरार्हा च वरारोहा च सप्तमी । नीलगङ्गा तथा सन्ध्या सर्वदा भोगमोक्षदा ॥ १०॥ भागीरथी मर्त्यलोके पाताले भोगवत्यपि । त्रिलोकवाहिनी देवी स्थानत्रयनिवासिनी ॥ ११॥ भूर्लोकस्था त्वमेवासि धरित्री लोकधारिणी । भुवो लोके वायुशक्तिः स्वर्लोके तेजसां निधिः ॥ १२॥ महर्लोके महासिद्धिर्जनलोके जनेत्यपि । तपस्विनी तपोलोके सत्यलोके तु सत्यवाक् ॥ १३॥ कमला विष्णुलोके च गायत्री ब्रह्मलोकगा । ब्रह्मलोकदा रुद्रलोके स्थिता गौरी हरार्धाङ्गनिवासिनी ॥ १४॥ अहमो महतश्चैव प्रकृतिस्त्वं हि गीयसे । साम्यावस्थात्मिका त्वं हि शबलब्रह्मरूपिणी ॥ १५॥ ततः परापरा शक्तिः परमा त्वं हि गीयसे । इच्छाशक्तिः क्रियाशक्तिर्ज्ञानशक्तिस्त्रिशक्तिदा ॥ १६॥ गङ्गा च यमुना चैव विपाशा च सरस्वती । सरयूर्देविका सिन्धुर्नर्मदेरावती तथा ॥ १७॥ गोदावरी शतद्रुश्च कावेरी देवलोकगा । कौशिकी चन्द्रभागा च वितस्ता च सरस्वती ॥ १८॥ गण्डकी तापिनी तोया गोमती वेत्रवत्यपि । इडा च पिङ्गला चैव सुषुम्णा च तृतीयका ॥ १९॥ गान्धारी हस्तिजिह्वा च पूषापूषा तथैव च । अलम्बुषा कुहूश्चैव शङ्खिनी प्राणवाहिनी ॥ २०॥ नाडी च त्वं शरीरस्था गीयसे प्राक्तनैर्बुधैः । हृतपद्मस्था प्राणशक्तिः कण्ठस्था स्वप्ननायिका ॥ २१॥ तालुस्था त्वं सदाधारा बिन्दुस्था बिन्दुमालिनी । मूले तु कुण्डली शक्तिर्व्यापिनी केशमूलगा ॥ २२॥ शिखामध्यासना त्वं हि शिखाग्रे तु मनोन्मनी । किमन्यद् बहुनोक्तेन यत्किञ्चिज्जगतीत्रये ॥ २३॥ तत्सर्वं त्वं महादेवि श्रिये सन्ध्ये नमोऽस्तु ते । इतीदं कीर्तितं स्तोत्रं सन्ध्यायां बहुपुण्यदम् ॥ २४॥ महापापप्रशमनं महासिद्धिविधायकम् । य इदं कीर्तयेत् स्तोत्रं सन्ध्याकाले समाहितः ॥ २५॥ अपुत्रः प्राप्नुयात् पुत्रं धनार्थी धनमाप्नुयात् । सर्वतीर्थतपोदानयज्ञयोगफलं लभेत् ॥ २६॥ भोगान् भुक्त्वा चिरं कालमन्ते मोक्षमवाप्नुयात् । तपस्विभिः कृतं स्तोत्रं स्नानकाले तु यः पठेत् ॥ २७॥ यत्र कुत्र जले मग्नः सन्ध्यामज्जनजं फलम् । लभते नात्र सन्देहः सत्यं च नारद ॥ २८॥ श‍ृणुयाद्योऽपि तद्भक्त्या स तु पापात् प्रमुच्यते । पीयूषसदृशं वाक्यं सन्ध्योक्तं नारदेरितम् ॥ २९॥ ॥ इति श्रीदेवीभागवते महापुराणे द्वादशस्कन्धे पञ्चमोऽध्याये श्रीअघनाशकगायत्रीस्तोत्रं सम्पूर्णम् ॥

सोमवार, 8 मार्च 2021

ऋग्वेदान्तर्गता अग्नेः अष्टोत्तरशतनामावलिः

 

ऋग्वेदान्तर्गता अग्नेः अष्टोत्तरशतनामावलिः

१. ॐ अजाय नमः । (अथ. ४-१४-६) २. ॐ अजराय नमः । (१-५८-२) ३. ॐ अजिराय नमः । (७-११-२) ४. ॐ अजुर्याय नमः । (१-६७-१) ५. ॐ अतन्द्राय नमः । (१-७२-७) ६. ॐ अग्नये नमः । (१-१-१) ७. ॐ अद्भुतक्रतवे नमः । (८-२३-८) ८. ॐ अङ्कूयते नमः । (६-१५-२७) ९. ॐ अङ्गिरसे नमः । (१-३१-१७) १०. ॐ अर्वते नमः । (६-१२-६) ११. ॐ सप्तहोतृभिरञ्जानाय नमः । (३-१०-४) १२. ॐ आश‍ृण्वते नमः । (४-३-३) १३. ॐ आशुहेमाय नमः । (२-३५-१) १४. ॐ अप्याय नमः । (१-१४५-५) १५. ॐ आसते नमः । (६-७-१) १६. ॐ असुराय नमः । (४-२-५) १७. ॐ आहुताय नमः । (२-८-२) १८. ॐ आदित्याय नमः । (४-१-२) १९. ॐ आपये नमः । (१-३१-१६) २०. ॐ आबाधाय नमः । (८-२३-३) २१. ॐ आकूतते नमः । (अथ. १९-४-२) २२. ॐ आघृणीवसवे नमः । (८-६०-२०) २३. ॐ इधानाय नमः । (१-७९-५) २४. ॐ इद्धाय नमः । (१-६६-९) २५. ॐ इन्धानाय नमः । (१-१४३-७) २६. ॐ इषः सहस्रिणीर्दधते नमः । (१-१८८-२) २७. ॐ ईड्याय नमः । (१-१-२) २८. ॐ ईळेन्याय नमः । (१-७९-५) २९. ॐ ईशानाय नमः । (७-१५-११) ३०. ॐ ईषयते नमः । (६-१-२) ३१. ॐ इळाय नमः । (१-१३-४) ३२. ॐ ईळिताय नमः । (१-१३९-७) ३३. ॐ उक्थ्याय नमः । (१-७२-२) ३४. ॐ उक्षते नमः । (१-१२२-४) ३५. ॐ उक्षमाणाय नमः । (२-२-४) ३६. ॐ उक्षान्नाय नमः । (८-४३-११) ३७. ॐ दिवमुत्पतते नमः । (अथ. १९-६५-१) ३८. ॐ ऊर्जःपुत्राय नमः । (१-९६-३) ३९. ॐ ऊर्जसनाय नमः । (६-४-४) ४०. ॐ ऊर्ध्वाय नमः । (१०-७०-१) ४१. ॐ ऊर्जोनपादे नमः । (१-५८-८) ४२. ॐ ऊशते नमः । (२-३६-४) ४३. ॐ पृथिवीमुतद्यामृजूयमानाय नमः । (१०-८८-९) ४४. ॐ ऋताय नमः । (१-६५-३) ४५. ॐ ऋत्वियाय नमः । (३-२९-१०) ४६. ॐ ऋतप्रवीताय नमः । (१-७०-७) ४७. ॐ ऋतचिदे नमः । (१-१४५-५) ४८. ॐ ऋतावते नमः । (४-१-२) ४९. ॐ ऋन्धाय नमः । (१०-११०-२) ५०. ॐ ऋग्मियाय नमः । (८-२३-३) ५१. ॐ ऋषूणां पुत्राय नमः । (५-२५-१) ५२. ॐ ऋषिकृते नमः । (१-३१-१६) ५३. ॐ ऋतवृधे नमः । (३-२-१) ५४. ॐ ऋतुपे नमः । (३-२०-४) ५५. ॐ ऋभवे नमः । (३-५-६) ५६. ॐ ऋषीणां पुत्राय नमः । (अथ. ४-३९-९) ५७. ॐ ऋषभाय नमः । (वा. य. २१-३८) ५८. ॐ ऋभ्वने नमः । (१०-२०-५) ५९. ॐ ऋतुपतये नमः । (१०-२-१) ६०. ॐ ऋषये नमः । (३-३१-३) ६१. ॐ ओषधीनां गर्भाय नमः । (३-१-१३) ६२. ॐ एकाय नमः । (१०-१-५) ६३. ॐ चर्षणीसदामोजिष्ठाय नमः । (वा. य. २८-१) ६४. ॐ ककुदे नमः । (८-४४-१६) ६५. ॐ ककुद्मते नमः । (१०-८-२) ६६. ॐ क्रतुविदे नमः । (१०-२-५) ६७. ॐ कृष्णयामाय नमः । (६-६-१) ६८. ॐ कनिक्रदते नमः । (१-१२८-३) ६९. ॐ कण्वतमाय नमः । (१०-११५-५) ७०. ॐ कण्वसखाय नमः । (१०-११५-५) ७१. ॐ केवलाय नमः । (१-१३-१०) ७२. ॐ कृष्णवर्तनये नमः । (अथ. ८-२३-१९) ७३. ॐ कपये नमः । (अथ. ६-४९-१) ७४. ॐ कवये नमः । (१-१२-६) ७५. ॐ कवितमाय नमः । (३-१४-१) ७६. ॐ कविशस्ताय नमः । (३-११-४) ७७. ॐ कविक्रतवे नमः । (१-१-२) ७८. ॐ कविप्रशस्ताय नमः । (५-१-८) ७९. ॐ कृष्णाध्वने नमः । (२-४-६) ८०. ॐ क्रव्यादाय नमः । (१०-१६९-१०) ८१. ॐ क्रव्यवाहनाय नमः । (१०-१६-११) ८२. ॐ क्षत्राणि धारयते नमः । (अथ. ७-७८-२) ८३. ॐ क्षत्राय नमः । (वा. य. २८-३४) ८४. ॐ क्षपावते नमः । (१-७०-५) ८५. ॐ क्षत्रभृते नमः । (अथ. ७-८४-१) ८६. ॐ क्षयाय नमः । (३-२-१३) ८७. ॐ गणश्रिये नमः । (८-२३-४) ८८. ॐ चरथां गर्भाय नमः । (१-७०-३) ८९. ॐ अपां गर्भाय नमः । (१-७०-३) ९०. ॐ गातुवित्तमाय नमः । (८-१०३।१) ९१. ॐ बह्वीनामपसां गर्भाय नमः । (१-९५-४) ९२. ॐ स्थातां गर्भाय नमः । (१-७०-३) ९३. ॐ गुहाहिताय नमः । (४-७-६) ९४. ॐ गृत्साय नमः । (३-१-२) ९५. ॐ गृहपतये नमः । (१-१२-६) ९६. ॐ गृध्नवे नमः । (१-७०-११) ९७. ॐ गोपे नमः । (२-९-६) ९८. ॐ घोराय नमः । (४-६-६) ९९. ॐ चनोहिताय नमः । (३-११-२) १००. ॐ जातवेदसे नमः । (१-४४-१) १०१. ॐ तपुर्मूर्ध्ने नमः । (७-३-१) १०२. ॐ दीर्घतन्तवे नमः । (१०-६९-७) १०३. ॐ धृतव्रताय नमः । (८-६४-२५) १०४. ॐ बृहद्भानवे नमः । (१-२७-१२) १०५. ॐ मधुवचसे नमः । (४-६-५) १०६. ॐ यज्ञाय नमः । (७-१६-२) १०७. ॐ रण्वाय नमः । (१-६५-५) १०८. ॐ वनस्पतये नमः । (१-१३-११) १०८ ॥ इति ऋग्वेदान्तर्गता अग्नेः अष्टोत्तरशतनामावलिः समाप्ता ॥

रविवार, 7 मार्च 2021

अग्नेः अष्टोत्तरशतनामस्तोत्रम्

 

अग्नेः अष्टोत्तरशतनामस्तोत्रम्

ॐ श्रीगणेशाय नमः । अथ अग्नेः अष्टोत्तरशतनामस्तोत्रम् । अकारदिक्रमेण अजोऽजरोऽजिरोऽजुर्योऽतन्द्रोऽग्निरद्भुतक्रतुः । अङ्कूयन्नङ्गिरा अर्वन्नुञ्जानः सप्तहोतृभिः ॥ १॥ आश‍ृण्वन्नाशुहेमोऽप्य आसन्नासुर आहुतः । आदित्य आपिराबाध आकूतिराघृणीवसुः ॥ २॥ इधान इद्ध इन्धानो दधत्सहस्रिणीरिषः । ईड्य ईळेन्य ईशान ईषयन्निळ ईळितः ॥ ३॥ उक्थ्य उक्षन्नुक्षमाण उक्षान्नो दिवमुत्पतन् । ऊर्जःपुत्र ऊर्जसन ऊर्ध्व ऊर्जोनपादूशन् ॥ ४॥ ऋजूयमानः पृथिवीमुतद्यामृत ऋत्वियः । ऋतप्रवीत ऋतचिदृतावदृन्ध ऋग्मियः ॥ ५॥ ऋषूणां पुत्र ऋषिकृदृतवृधृतुपा ऋभुः । ऋषीणां पुत्र ऋषभ ऋभ्व ऋतुपतिरृषिः ॥ ६॥ ऋतुपाति ओषधीनां गर्भ एक ओजिष्ठश्चर्षणीसदाम् । ककुत्ककुद्मान्क्रतुवित् कृष्णयामः कनिक्रदत् ॥ ७॥ कण्वतमः कण्वसखः केवलः कृष्णवर्तनिः । कपिः कविः कवितमः कविशस्तः कविक्रतुः ॥ ८॥ कविप्रशस्तः कृष्णाध्वा क्रव्यादः क्रव्यवाहनः । क्षत्राणि धारयन् क्षत्रः क्षपावान् क्षत्रभृत् क्षयः ॥ ९॥ गणश्रीश्चरथां गर्भोऽपां गर्भो गातुवित्तमः । बह्वीनामपसां गर्भस्थातां गर्भो गुहाहितः ॥ १०॥ गृत्सो गृहपतिर्गृध्नुर्गोपा घोरश्चनोहितः । जातवेदास्तपुर्मूर्धा दीर्घतन्तुर्धृतव्रतः ॥ ११॥ बृहद्भानुर्मधुवचा यज्ञो रण्वो वनस्पतिः । देवानामवगम्याग्नेः नाम्नामष्टोत्तरं शतम् ॥ १२॥ ॥ अग्नेः अष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥

शनिवार, 6 मार्च 2021

अग्निस्तोत्रम्

अग्निस्तोत्रम्


ॐ नमः सर्वभूतानां साधनाय महात्मने ।
एकद्विपञ्चधिष्ण्याय राजसूये षडात्मने ॥ १॥

नमः समस्तदेवानां वृत्तिदाय सुवर्चसे ।
शुक्ररूपाय जगतामशेषाणां स्थितिप्रदः ॥ २॥

त्वं मुखं सर्वदेवानां त्वयात्तं भगवन्हविः ।
प्रीणयस्यखिलान्देवांस्त्वत्प्राणाः सर्वदेवताः ॥ ३॥

हुतं हविस्त्वय्यनल मेधत्वमुपगच्छति ।
ततश्च जलरूपेण परिणाममुपैति यत् ॥ ४॥

तेनाखिलौषधीजन्म भवत्यनिलसारथे ।
औषधीभिरशेषाभिः सुखं जीवन्ति जन्तवः ॥ ५॥

वितन्वते नरा यज्ञांस्त्वत्सृष्टास्वोषधीषु च ।
यज्ञैर्देवास्तथा दैत्यास्तद्वद्रक्षांसि पावक ॥ ६॥

आप्याय्यन्ते च ते यज्ञास्त्वदाधारा हुताशन ।
अतः सर्वस्य योनिस्त्वं वह्ने सर्वमयस्तथा ॥ ७॥

देवता दानवा यक्षा दैत्या गन्धर्वराक्षसाः ।
मानुषाः पशवो वृक्षा मृगपक्षिसरीसृपाः ॥ ८॥

आप्याय्यन्ते त्वया सर्वे संवर्ध्यन्ते च पावक ।
त्वत्त एवोद्भवं यान्ति त्वय्यन्ते च तथा लयम् ॥ ९॥

अपः सृजसि देवत्वं त्वमत्सि पुनरेव ताः ।
पच्यमानास्त्वया ताश्च प्राणिनां पुष्टिकारणम् ॥ १०॥

देवेषु तेजोरूपेण कान्त्या सिद्धेष्ववस्थितः ।
विषरूपेण नागेषु वायुरूपः पतत्त्रिषु ॥ ११॥

मनुजेषु भवान्क्रोधो मोहः पक्षिमृगादिषु ।
अवष्टम्भोसि तरुषु काठिन्यं त्वं महीं प्रति ॥ १२॥

जले द्रवस्त्वं भगवाञ्जवरूपी तथाऽनिले ।
व्यापित्वेन तथैवाग्ने नभसि त्वं व्यवस्थितः ॥ १३॥

त्वमग्ने सर्वभूतानामन्तश्चरसि पालयन् ।
त्वामेकमाहुः कवयस्त्वामाहुस्त्रिविधः पुनः ॥ १४॥

त्वामष्टधा कल्पयित्वा यज्ञवाहमकल्पयन् ।
त्वया सृष्टमिदं विश्वं वदन्ति परमर्षयः ॥ १५॥  var  स्पष्टमिदं

त्वामृते हि जगत्सर्वं सद्यो नश्येद्धुताशन ।
तुभ्यं कृत्वा द्विजः पूजां स्वकर्मविहितां गतिम् ॥ १६॥

प्रयान्ति हव्यकव्याद्यैः स्वधास्वाहाभ्युदीरणात् ।
परिणामात्मवीर्याणि प्राणिनाममरार्चित ॥ १७॥

दहन्ति सर्वभूतानि ततो निष्क्रम्य हेतयः ।
जातवेदस्त्वयैवेदं विश्वं सृष्टं महाद्युते ॥ १८॥

तवैव वैदिकं कर्म सर्वभूतात्मकं जगत् ।
नमस्तेऽनल पिङ्गाक्ष नमस्तेऽस्तु हुताशन! ॥ १९॥

पावकाद्य नमस्तेऽस्तु नमस्ते हव्यवाहन ।
त्वमेव सर्वभूतानां पावनाद्विश्वपावनः ॥ २०॥

त्वमेव भुक्तपीतानां पाचनाद्विश्वपाचकः ।
सस्यानां पाककर्ता त्वं पोष्टा त्वं जगतस्तथा ॥ २१॥

त्वमेव मेघस्त्वं वायुस्त्वं बीजं सस्यहेतुकम् ।
पोषाय सर्वभूतानां भूतभव्यभवो ह्यसि ॥ २२॥

त्वं ज्योतिः सर्वभूतेषु त्वमादित्यो विभावसुः ।
त्वमहस्त्वं तथा रात्रिरुभे सन्ध्ये तथा भवान् ॥ २३॥

हिरण्यरेतास्त्वं वह्ने हिरण्योद्भवकारणम् ।
हिरण्यगर्भश्च भवान्हिरण्यसदृशप्रभः ॥ २४॥

त्वं मुहूर्तं क्षणश्च त्वं, त्वं त्रुटिस्त्वं तथा लवः ।
कलाकाष्ठानिमेषादिरूपेणासि जगत्प्रभो! ॥ २५॥

त्वमेतदखिलं कालः परिणामात्मको भवान् ।
या जिह्वा भवतः काली कालनिष्टाकरी प्रभो ।
तया नः पाहि पापेभ्यः ऐहिकाच्च महाभयात् ॥ २६॥

करालीनाम या जिह्वा महाप्रलयकारणम् ।
तया नः पाहि पापेभ्यः ऐहिकाच्च महाभयात् ॥ २७॥

मनोजवा च या जिह्वा लघिमागुणलक्षणा ।
तया नः पाहि पापेभ्यः ऐहिकाच्च महाभयात् ॥ २८॥

करोति कामं भूतेभ्यो या ते जिह्वा सुलोहिता ।
तया नः पाहि पापेभ्यः ऐहिकाच्च महाभयात् ॥ २९॥

सुधूम्रवर्णा या जिह्वा प्राणिनां रोगदायिका ।
तया नः पाहि पापेभ्यः ऐहिकाच्च महाभयात् ॥ ३०॥

स्फुलिङ्गिनी च या जिह्वा यतः सकलपुद्गलाः ।
तया नः पाहि पापेभ्यः ऐहिकाच्च महाभयात् ॥ ३१॥

याते विश्वसृजा जिह्वा प्राणिनां शर्मदायिनी ।
तया नः पाहि पापेभ्यः ऐहिकाच्च महाभयात् ॥ ३२॥

पिङ्गाक्ष लोहितग्रीव कृष्णवर्त्म हुताशन ।
त्राहिमां सर्वदोषेभ्यः संसारादुद्धरेह माम् ॥ ३३॥

प्रसीद वह्ने सप्तार्चिः कृशानो हव्य वाहन ।
अग्निपावक शुक्रादि नामाष्टाभिरुदीरितः ॥ ३४॥

अग्नेऽग्रे सर्वभूतानां समुत्पत्तिरिभावसो ।
प्रसीद हव्यवाहाख्य, अभिष्टुत मयाव्यय ॥ ३५॥

त्वमक्षयो वह्निरचिन्त्य रूपः समृद्धिमन्दुष्प्रसहाऽतितीव्रः ।
तवाव्ययं भीममशेषलोक संवर्धकं हन्त्यधवातिवीर्यम् ॥ ३६॥

त्वमुत्तमं तत्त्वमशेष सत्व हृत्पुण्डरीकस्थमनन्तमीड्यम् ।
त्वया ततं विश्वमिदं चराचरं हुताशनैको बहुधा त्वमत्र! ॥ ३७॥

त्वमक्षयः सगिरिवना वसुन्धरा नभः ससोमार्कमहर्दिवाखिलं! ।
महोदधेर्जठर गतश्च बाडबो भवान्विभुः पिबति पयांसि पावक ॥ ३८॥

हुताशनस्त्वमिति सदाभि पूज्यसे महाक्रतौ नियमपरैर्महर्षिभिः ।
अभिष्टुतः पिसिसि च सोममध्वरे वषट्कृतान्यपि च हवीषि भूतये ॥ ३९॥

त्वं विप्रैः सततमिहेज्यसे फलार्थं वेदाङ्गेष्वथ सकलेषु गीय से त्वं ।
त्वद्धेतोर्यजन परायणा द्विजेन्द्रा वेदाङ्गान्यधिगमयन्ति सर्वकाले ॥ ४०॥

त्वं ब्रह्मा यजनपरस्तथैव विष्णुः भूतेशः सुरपतिरर्यमा जलेशः ।
सूर्येन्दू सकल सुरासुराश्च हव्यैः सन्तोष्याऽभिमतफलान्यथाप्नुवन्ति ॥ ४१॥

अर्चिभिः परममहोपघातदुष्टं संस्पृष्टं तव शुचि जायते समस्तम् ।
स्नानानां परममतीव भस्मना सत्सन्ध्यायां मुनिभिरतीव सेव्यसे तत् ॥ ४२॥

तत्कृत्वा त्रिदिवमवाप्नुवन्ति लोकाः सद्भक्त्या सुखनियताः समूहगतिम् ।
प्रसीदवह्ने शुचिनामधेय प्रसीद वायो विमलातिदीप्ते ॥ ४३॥

प्रसीद मे पावक वैद्युताभ प्रसीद हव्याशन पाहि मां त्वम् ।
यत्तेवह्ने शिवं रूपं ये च ते सप्त हेतयः ।
तैः पाहि न स्तुतोदेव पिता पुत्रमिवात्मजम् ॥ ४४॥

इति श्रीमार्कण्डेयपुराणे भौत्यमन्वन्तरेऽग्निस्तोत्रं सम्पूर्णम् ।
षण्ण्वतितमोऽध्यायः ।

शुक्रवार, 5 मार्च 2021

ॐ अग्निसहस्रनामावलिः ऋचासहिता

 

ॐ अग्निसहस्रनामावलिः ऋचासहिता

१. ॐ अग्नये नमः । (१-१-१) २. ॐ वसुपतये नमः । (२-१-११) ३. ॐ होत्रे नमः । (१-१-८) ४. ॐ दीदिवये नमः । (१-१-८) ५. ॐ रत्नधातमाय नमः । (१-१-१) ६. ॐ आध्रस्यचित्पित्रे नमः । (१-३१-१४) ७. ॐ शीर्षतो जाताय नमः । (१०-८८-१६) ८. ॐ सुक्रतवे नमः । (१-१२८-४) ९. ॐ यूने नमः । (१-१२-६) १०. ॐ भासाकेतवे नमः । (१०-२०-३) ११. ॐ बृहत्केतवे नमः । (५-८-२) १२. ॐ बृहदर्चसे नमः । (५-२५-७) १३. ॐ कविक्रतवे नमः । (१-१-२) १४. ॐ सत्याय नमः । (१-१-५) १५. ॐ सत्ययजाय नमः । (६-१६-४६) १६. ॐ दूताय नमः । (१-२१-१) १७. ॐ विश्ववेदसे नमः । (१-१२-१) १८. ॐ अपस्तमाय नमः । (१०-११५-२) १९. ॐ स्वेदमेवर्धमानाय नमः । (१-१-८) २०. ॐ अर्हते नमः । (१-९४-२) २१. ॐ तनूकृते नमः । (१-३१-१) २२. ॐ मृळयत्तमाय नमः । (१-९४-१४) २३. ॐ क्षेमाय नमः । (१०-२०-६) २४. ॐ गुहाचरते नमः । (३-१-१) २५. ॐ पृथिव्या नाभये नमः । (१-५९-२) २६. ॐ सप्तमानुषाय नमः । (८-३९-८) २७. ॐ अद्रेः सूनवे नमः । (१०-२०-७) २८. ॐ नराशंसाय नमः । (१-१३-३) २९. ॐ बर्हिषे नमः । (१-१३-५) ३०. ॐ स्वर्णराय नमः । (६-१५-४) ३१. ॐ ईळिताय नमः । (१-१३९-७) ३२. ॐ पावकाय नमः । (१-२२-१०) ३३. ॐ क्षामारेरिहते नमः । (१०-४५-४) ३४. ॐ घृतपृष्ठाय नमः । (५-४-३) ३५. ॐ वनस्पतये नमः । (१-१३-११) ३६. ॐ सुजिह्वाय नमः । (१-१०-८) ३७. ॐ यज्ञन्ये नमः । (१-१५-१२) ३८. ॐ उक्षते नमः । (१-१२२-४) ३९. ॐ सत्यमन्मने नमः । (१-७३-२) ४०. ॐ सुमद्रथाय नमः । (८-५६-५) ४१. ॐ समुद्राय नमः । (४-५८-१) ४२. ॐ सुत्यजाय नमः । (८-६०-१६) ४३. ॐ मित्राय नमः । (३-५-३) ४४. ॐ मियेध्याय नमः । (१-२६-१) ४५. ॐ नृमणे नमः । (१०-४५-१) ४६. ॐ अर्यम्णे नमः । (५-३-२) ४७. ॐ पूव्ययि नमः । (१-२६-५) ४८. ॐ चित्ररथाय नमः । (१०-१-५) ४९. ॐ स्पार्हाय नमः । (४-१-१२) ५०. ॐ सुप्रथसे नमः । (२-२-१) ५१. ॐ सहसोयह्णे नमः । (१-२६-१०) ५२. ॐ यज्वने नमः । (३-१४-१) ५३. ॐ रजसा विमानाय नमः । (३-२६-७) ५४. ॐ रक्षोघ्ने नमः । (४-४-१) ५५. ॐ अथर्यवे नमः । (७-१-१) ५६. ॐ अध्रिगवे नमः । (३-२१-४) ५७. ॐ सहन्त्याय नमः । (१-२७-८) ५८. ॐ यज्ञियाय नमः । (३-१-२१) ५९. ॐ धूमकेतवे नमः । (१-२७-११) ६०. ॐ वाजाय नमः । (२-१-१२) ६१. ॐ अङ्गिरस्तमाय नमः । (१-३१-२) ६२. ॐ पुरुचंद्राय नमः । (१-२७-११) ६३. ॐ वपुषे नमः । (१-१४१-२) ६४. ॐ रेवते नमः । (३-२३-२) ६५. ॐ अनिमानाय नमः । (१-२७-११) ६६. ॐ विचर्षणये नमः । (१-३१-६) ६७. ॐ द्विमात्रे नमः । (१-३१-२) ६८. ॐ मेधिराय नमः । (११-३१-२) ६९. ॐ देवानां देवाय नमः । (१-३१-१) ७०. ॐ शंतमाय नमः । (१-१२८-७) ७१. ॐ वसवे नमः । (१-३१-३) ७२. ॐ चोदिष्ठाय नमः । (८-१०२-३) ७३. ॐ वृषभाय नमः । (१-३१-५) ७४. ॐ चारवे नमः । (१-१४-१३) ७५. ॐ पुरोगे नमः । (१०-१२४-१) ७६. ॐ पुष्टिवर्धनाय नमः । (१-३१-५) ७७. ॐ रायोधर्त्रे नमः । (५-१५-१) ७८. ॐ मन्द्रजिह्वाय नमः । (४-११-५) ७९. ॐ कल्याणाय नमः । (१-३१-९) ८०. ॐ वसुवित्तमाय नमः । (१-४५-७) ८१. ॐ जामये नमः । (१-७५-४) ८२. ॐ पूष्णे नमः । (२-१-६) ८३. ॐ वावशानाय नमः । (१०-५-५) ८४. ॐ व्रतपे नमः । (१-३१-१०) ८५. ॐ अस्तृताय नमः । (६-१६-२०) ८६. ॐ अन्तराय नमः । (१०-५३-१) ८७. ॐ सम्मिश्लाय नमः । (१०-६-४) ८८. ॐ अंगिरसां ज्येष्ठाय नमः । (१-१२७-२) ८९. ॐ गवां त्रात्रे नमः । (१-३१-१२) ९०. ॐ महिव्रताय नमः । (१-४५-३) ९१. ॐ विशांदूताय नमः । (१-३६-५) ९२. ॐ तपुर्मूर्ध्ने नमः । (७-३-१) ९३. ॐ स्वध्वराय नमः । (१-१२७-१) ९४. ॐ देववीतमाय नमः । (१-३६-९) ९५. ॐ प्रत्नाय नमः । (३-९-८) ९६. ॐ धनस्पृते नमः । (१-३६-१०) ९७. ॐ अवित्रे नमः । (३-१९-५) ९८. ॐ तपुर्जंभाय नमः । (१-५८-५) ९९. ॐ महागयाय नमः । (१-६६-२०) १००. ॐ अरुषाय नमः । (३-७-५) १०१. ॐ अतिथये नमः । (१-४४-४) १०२. ॐ अस्यद्मसद्वने नमः । (६-४-४) १०३. ॐ दक्षपतये नमः । (१-९५-६) १०४. ॐ सहाय नमः । (१-३६-१८) १०५. ॐ तुविष्मते नमः । (४-५-३) १०६. ॐ शवसासूनवे नमः । (१-२७-२) १०७. ॐ स्वधान्वे नमः । (१-१४४-७) १०८. ॐ ज्योतिषे नमः । (४-१०-३) १०९. ॐ अप्सुजे नमः । (८-४३-२८) ११०. ॐ अध्वराणां रथ्ये नमः । (१-४४-२) १११. ॐ श्रेष्ठाय नमः । (१-४४-४) ११२. ॐ स्वाहुताय नमः । (१-४४-४) ११३. ॐ वातचोदिताय नमः । (१-५८-५) ११४. ॐ धर्णसये नमः । (५-८-४) ११५. ॐ भोजनाय नमः । (१-४४-५) ११६. ॐ त्रात्रे नमः । (१-४४-५) ११७. ॐ मधुजिह्वाय नमः । (१-४४-६) ११८. ॐ मनुर्हिताय नमः । (८-१९-२१) ११९. ॐ नमस्याय नमः । (१-७२-५) १२०. ॐ ऋग्मियाय नमः । (४-२३-३) १२१. ॐ जीराय नमः । (१-४४-४) १२२. ॐ प्रचेतसे नमः । (१-४४-११) १२३. ॐ प्रभवे नमः । (८-४३-२१) १२४. ॐ आश्रिताय नमः । (४-७-६) १२५. ॐ रोहिदश्वाय नमः । (४-१-८) १२६. ॐ सुप्रणीतये नमः । (१-७३-१) १२७. ॐ स्वराजे नमः । (१-३६-७) १२८. ॐ गृत्साय नमः । (३-१-२) १२९. ॐ सुदीदिताय नमः । (३-८-१) १३०. ॐ दक्षाय नमः । (३-१४-७) १३१. ॐ विवस्वतो दूताय नमः । (४-७-४) १३२. ॐ बृहद्भासे नमः । (१-४५-८) १३३. ॐ रयिवते नमः । (६-५-७) १३४. ॐ रयये नमः । (२-१-१२) १३५. ॐ अध्वराणां पतये नमः । (१-४४-९) १३६. ॐ सभ्राजे नमः । (८-१९-३२) १३७. ॐ घृष्वये नमः । (४-२-१३) १३८. ॐ दास्वते नमः । (१-१२७-१) १३९. ॐ विशां प्रियाय नमः । (५-१-९) १४०. ॐ घृतस्नवे नमः । (५-२६-२) १४१. ॐ अदितये नमः । (१-९४-१५) १४२. ॐ स्वर्वते नमः । (१-५९-४) १४३. ॐ श्रुत्कर्णाय नमः । (१-४४-१३) १४४. ॐ नृतमाय नमः । (१-७७-४) १४५. ॐ यमाय नमः । (१-६६-८) १४६. ॐ अंगिरसे नमः । (१-३१-१७) १४७. ॐ सहसः सूनवे नमः । (१-५८-८) १४८. ॐ वसूनामरतये नमः । (१०-५८-७) १४९. ॐ क्रतवे नमः । (१-६७-२) १५०. ॐ सप्तहोत्रे नमः । (३-२१-१४) १५१. ॐ केवलाय नमः । (१-१३-१०) १५२. ॐ अप्याय नमः । (१-१४५-५) १५३. ॐ विभाव्ने नमः । (१-५८-९) १५४. ॐ मघोने नमः । (१-५८-९) १५५. ॐ धुनये नमः । (१-७९-१) १५६. ॐ समिधानाय नमः । (१-१४३-२) १५७. ॐ प्रतरणाय नमः । (२-१-१२) १५८. ॐ पृक्षाय नमः । (१-१४१-२) १५९. ॐ तमसि तस्थुषे नमः । (६-९-७) १६०. ॐ वैश्वानराय नमः । (१-५९-१) १६१. ॐ दिवोमूर्ध्ने नमः । (८-४४-१६) १६२. ॐ रोदस्योररतये नमः । (१-५९-२) १६३. ॐ प्रियाय नमः । (१-२६-७) १६४. ॐ यज्ञानां नाभये नमः । (६-७-२) १६५. ॐ अत्रये नमः । (२-८-५) १६६. ॐ सदे नमः । (८-४३-१४) १६७. ॐ सिन्धूनाञ्जामये नमः । (१-६५-७) १६८. ॐ आहुताय नमः । (२-८-२) १६९. ॐ मातरिश्वने नमः । (३-२६-२) १७०. ॐ वसुधितये नमः । (१-१२८-८) १७१. ॐ वेधसे नमः । (१-६५-१०) १७२. ॐ ऊर्ध्वयि नमः । (१०-७०-१) १७३. ॐ तक्से नमः । (३-१-२) १७४. ॐ हिताय नमः । (१-१२८-७) १७५. ॐ अश्विने नमः । (७-१-१२) १७६. ॐ भूर्णये नमः । (१-६६-२) १७७. ॐ इनाय नमः । (१०-३-१) १७८. ॐ वामाय नमः । (१०-१५२-१) १७९. ॐ जनीनां पतये नमः । (१-६६-८) १८०. ॐ अन्तमाय नमः । (५-२४-१) १८१. ॐ पायवे नमः । (६-१५-८) १८२. ॐ मर्तेषु मित्राय नमः । (१-६७-१) १८३. ॐ अर्याय नमः । (४-१-७) १८४. ॐ श्रुष्टये नमः । (१-६७-१) १८५. ॐ साधवे नमः । (१-६७-२) १८६. ॐ अहये नमः । (१-७९-१) १८७. ॐ ऋभवे नमः । (३-५-६) १८८. ॐ भद्राय नमः । (१-६७-२) १८९. ॐ अपुर्याय नमः । (१-६७-१) १९०. ॐ हव्यदातये नमः । (३-२-८) १९१. ॐ चिकित्वते नमः । (१-६८-६) १९२. ॐ विश्वशुचे नमः । (७-१३-१) १९३. ॐ पृणते नमः । (१०-१२२-४) १९४. ॐ शंसाय नमः । (४-६-११) १९५. ॐ संज्ञातरूपाय नमः । (१-६९-९) १९६. ॐ अपां गर्भाय नमः । (७-९-३) १९७. ॐ तुविश्रवस्तमाय नमः । (३-११-६) १९८. ॐ गृघ्नवे नमः । (१-७०-११) १९९. ॐ शूराय नमः । (१-७०-११) २००. ॐ सुचन्द्राय नमः । (१-७४-६) २०१. ॐ अश्वाय नमः । (१०-१८८-१) २०२. ॐ अदब्धाय नमः । (१-७६-२) २०३. ॐ वेधस्तमाय नमः । (१-७५-२) २०४. ॐ शिशवे नमः । (१०-१-२) २०५. ॐ वाजश्रवसे नमः । (३-२६-५) २०६. ॐ हर्यमाणाय नमः । (३-६-४) २०७. ॐ ईशानाय नमः । (१-१५-११) २०८. ॐ विश्वचर्षणये नमः । (१-२७-९) २०९. ॐ पुरुषशस्ताय नमः । (१-७३-२) २१०. ॐ वाध्र्यश्वाय नमः । (१०-६९-१२) २११. ॐ अनूनवर्चसे नमः । (१०-१४६-२) २१२. ॐ कनिक्रदते नमः । (१-१२८-३) २१३. ॐ हरिकेशाय नमः । (३-२-१३) २१४. ॐ रथ्ये नमः । (३-२-८) २१५. ॐ मर्याय नमः । (१-७७-३) २१६. ॐ स्वश्वाय नमः । (४-२-४) २१७. ॐ राजते नमः । (१-१-८) २१८. ॐ तुविष्वणये नमः । (१-५८-४) २१९. ॐ तिग्मजम्भाय नमः । (१-७९-६) २२०. ॐ सहस्राक्षाय नमः । (१-७९-१२) २२१. ॐ तिग्मशोचिषे नमः । (१-२९-१०) २२२. ॐ द्रुहन्तराय नमः । (१-१२५-३) २२३. ॐ ककुदे नमः । (८-४६-२) २२४. ॐ उक्थ्याय नमः । (१-७९-१२) २२५. ॐ विशा गोपे नमः । (१-९४-५) २२६. ॐ महिष्ठाय नमः । (८-१०३-८) २२७. ॐ भारताय नमः । (२-७-१) २२८. ॐ मृगाय नमः । (१-१४५-५) २२९. ॐ शतात्मने नमः । (१-१४९-३) २३०. ॐ उरुज्रयसे नमः । (१-१२७-१०) २३१. ॐ वीराय नमः । (८-२३-१४) २३२. ॐ चेकितानाय नमः । (३-२९-७) २३३. ॐ धृतव्रताय नमः । (८-६४-२५) २३४. ॐ तनूरुचे नमः । (२-१-९) २३५. ॐ चेतनाय नमः । (२-५-१) २३६. ॐ अपूर्व्याय नमः । (३-१३-५) २३७. ॐ व्यध्वने नमः । (१-१४१-७) २३८. ॐ चक्रये नमः । (३-१६-४) २३९. ॐ धियावसवे नमः । (१-५८-९) २४०. ॐ विश्वेषु सिन्धुषु श्रिताय नमः । (८-३९-८) २४१. ॐ अनेहसे नमः । (३-९-१) २४२. ॐ ज्येष्ठाय नमः । (८-७४-४) २४३. ॐ चनोहिताय नमः । (३-११-२) २४४. ॐ अदाभ्याय नमः । (१-३१-१०) २४५. ॐ चुदाय नमः । (१-१४३-६) २४६. ॐ ऋतुपे नमः । (३-२०-४) २४७. ॐ अमृक्ताय नमः । (३-११-६) २४८. ॐ शवसस्पतये नमः । (१-१४५-१) २४९. ॐ गुहासते नमः । (१-१४१-३) २५०. ॐ वीरुधां गर्भाय नमः । (२-१-१४) २५१. ॐ सुमेधसे नमः । (३-१५-५) २५२. ॐ शुष्मिणस्पतये नमः । (१-१४५-१) २५३. ॐ सृप्रदानवे नमः । (१-९६-३) २५४. ॐ कवितमाय नमः । (३-१४-१) २५५. ॐ श्वितानाय नमः । (६-६-२) २५६. ॐ यज्ञसाधनाय नमः । (१-१४५-३) २५७. ॐ तुविद्युम्नाय नमः । (३-१६-३) २५८. ॐ अरुणस्तूपाय नमः । (३-२९-३) २५९. ॐ विश्वविदे नमः । (३-२९-७) २६०. ॐ गौतुवित्तमाय नमः । (८-१०३-१) २६१. ॐ श्रुष्टीवते नमः । (३-२७-२) २६२. ॐ श्रेणिदते नमः । (१०-२०-३) २६३. ॐ दात्रे नमः । (३-१३-३) २६४. ॐ पृथुपाजसे नमः । (३-५-१) २६५. ॐ सहस्कृताय नमः । (१-४५-९) २६६. ॐ अभिश्रिये नमः । (१-९८-१) २६७. ॐ सत्यवाचे नमः । (७-२-३) २६८. ॐ त्वेषाय नमः । (१-६६-१६) २६९. ॐ मात्रोः पुत्राय नमः । (३-२-२) २७०. ॐ महिन्तमाय नमः । (१०-११४-६) २७१. ॐ घृतयोनये नमः । (५-८-६) २७२. ॐ दिदृक्षेयाय नमः । (३-१-१२) २७३. ॐ विश्वदेव्याय नमः । (१-१४८-१) २७४. ॐ हिरण्ययाय नमः । (४-५८-५) २७५. ॐ अनुषत्याय नमः । (३-२६-१) २७६. ॐ कृष्णजंहसे नमः । (१-१४१-७) २७७. ॐ शतनीथाय नमः । (१०-६९-७) २७८. ॐ अप्रतिष्कुताय नमः । (३-२३-३) २७९. ॐ इळायास्पुत्राय नमः । (३-२९-३) २८०. ॐ ईळेन्याय नमः । (१-६९-५) २८१. ॐ विचेतसे नमः । (२-१०-१) २८२. ॐ वाघतामुशिजे नमः । (३-३-८) २८३. ॐ वीताय नमः । (४-७-६) २८४. ॐ अर्काय नमः । (३-२६-७) २८५. ॐ मानुषाय नमः । (१-४४-१०) २८६. ॐ अजस्राय नमः । (१०-६-२) २८७. ॐ विप्राय नमः । (१-१२७-१) २८८. ॐ श्रोत्रे नमः । (३-२६-२) २८९. ॐ उविये नमः । (२-३५-८) २९०. ॐ वृषाय नमः । (३-२७-१४) २९१. ॐ आयोयुवानाय नमः । (४-१-११) २९२. ॐ आबाधाय नमः । (८-२३-३) २९३. ॐ वीळुजम्भाय नमः । (३-८९-१३) २९४. ॐ हरिव्रताय नमः । (३-३-५) २९५. ॐ दिवःकेतवे नमः । (३-२-१४) २९६. ॐ भुवोमूर्ध्ने नमः । (१०-८८-६) २९७. ॐ सरण्यते नमः । (३-१-१९) २९८. ॐ दुर्दभाय नमः । (४-९-२) २९९. ॐ सुरुचे नमः । (१-१२२-१) ३००. ॐ दिव्येनशोचिषाराजते नमः । (३-२-४) ३०१. ॐ सुदीतये नमः । (३-२७-१) ३०२. ॐ इषिराय नमः । (३-२-१४) ३०३. ॐ बृहते नमः । (१-४५-८) ३०४. ॐ सुदृशीकाय नमः । (५-४-२) ३०५. ॐ विशां केतवे नमः । (१०-१५६-५) ३०६. ॐ पुरुहूताय नमः । (१-४४-७) ३०७. ॐ उपस्थसदे नमः । (१०-१५६-५) ३०८. ॐ पुरोयाव्णे नमः । (८-८४-८) ३०९. ॐ पुर्वणीकाय नमः । (६-१०-२) ३१०. ॐ अनिवृताये नमः । (३-२९-६) ३११. ॐ सत्पतये नमः । (२-१-४) ३१२. ॐ द्युमते या नमः । (२-२-६) ३१३. ॐ यज्ञस्य विदुषे नमः । (१०-५३-१) ३१४. ॐ अव्यथ्याय नमः । (२-३५-५) ३१५. ॐ दुर्वर्तवे नमः । (६-६-५) ३१६. ॐ भूर्जयते नमः । (१०-४६-६) ३१७. ॐ अपदे नमः । (४-१-१) ३१८. ॐ अमृताय नमः । (१-२६-१) ३१९. ॐ सौभगस्येशाय नमः । (३-१६-१) ३२०. ॐ स्वराज्याय नमः । (२-८-५) ३२१. ॐ देवहूतमाय नमः । (३-१३-६) ३२२. ॐ कीलालपे नमः । (१०-९१-१४) ३२३. ॐ वीतिहोत्राय नमः । (३-२४-२) ३२४. ॐ धृतनिर्णिजे नमः । (३-२७-५) ३२५. ॐ सनश्रुताय नमः । (३-११-४) ३२६. ॐ शुचिवर्णाय नमः । (५-२-३) ३२७. ॐ तुविग्रीवाय नमः । (५-२-१२) ३२८. ॐ भारत्यै नमः । (१-१४२-९) ३२९. ॐ शोचिषस्पतये नमः । (५-६-६) ३३०. ॐ सोमपृष्ठाय नमः । (८-४३-११) ३३१. ॐ हिरिश्मश्रवाय नमः । (५-७-७) ३३२. ॐ भद्रशोचिषे नमः । (५-४-७) ३३३. ॐ जुगुर्वपाये नमः । (१-१४२-८) ३३४. ॐ ऋत्विजे नमः । (१-१-१) ३३५. ॐ पूर्वेभिरृषिभिरीड्याय नमः । (१-१-२) ३३६. ॐ चित्तश्रवस्तमाया नमः । (१-१-५) ३३७. ॐ भीमाय नमः । (१-७०-११) ३३८. ॐ स्तियानां वृषभाय नमः । (७-५-२) ३३९. ॐ नूतनैरीड्याय नमः । (१-१-२) ३४०. ॐ आसुराय नमः । (३-२८-११) ३४१. ॐ स्तभूयमानाय नमः । (३-७-४) ३४२. ॐ अध्वराणां गोपे नमः । (१-१-८) ३४३. ॐ विश्पतये नमः । (१-२२-२) ३४४. ॐ अस्मयवे नमः । (६-४८-२) ३४५. ॐ ऋतस्य गोपे नमः । (१०-११८-७) ३४६. ॐ जीराश्वाय नमः । (१-१४१-१२) ३४७. ॐ जोह्हूत्राय नमः । (२-१०-१) ३४८. ॐ दम्पतये नमः । (१-१२७-८) ३४९. ॐ कवये नमः । (१-१२-६) ३५०. ॐ ऋतजाताय नमः । (१-३६-१९) ३५१. ॐ द्युक्षवचसे नमः । (६-१५-४) ३५२. ॐ जुह्वास्याय नमः । (१-१२-६) ३५३. ॐ अमीवचातनाय नमः । (१-१२-७) ३५४. ॐ सोमगोपे नमः । (१०-४५-५) ३५५. ॐ शुक्रशोचिषे नमः । (२-२-३) ३५६. ॐ घृताहवनाय नमः । (१-१२-५) ३५७. ॐ आयजये नमः । (८-२३-१७) ३५८. ॐ असन्दिताय नमः । (४-४-२) ३५९. ॐ सत्यधर्मणे नमः । (१-१२-७) ३६०. ॐ शशमानाय १०-१४२-६ ३६१. ॐ शुशुनयी नमः । (८-२३-५) ३६२. ॐ वातजूताय नमः । (१-५८-४) ३६३. ॐ विश्वरूपाय नमः । (१-१३-१०) ३६४. ॐ त्वष्ट्रे नमः । (२-१-५) ३६५. ॐ चारुतमाया नमः । (५-१-९) ३६६. ॐ महते नमः । (१-२७-११) ३६७. ॐ इळायै नमः । (१-१४२-९) ३६८. ॐ सरस्वत्यै नमः । (२-१-११) ३६९. ॐ हर्षते नमः । (१-१२७-६) ३७०. ॐ तिसृभ्यो देवीभ्यः नमः । (१-१३-९) ३७१. ॐ मयोभूभ्यः नमः । (१-१३-९) ३७२. ॐ अर्वते नमः । (६-१२-६) ३७३. ॐ सुपेशोभ्यां नमः । (१-१३-७) ३७४. ॐ दैवीभ्यां होतृभ्यां नमः । (१-१३-८) ३७५. ॐ स्वर्पतये नमः । (८-४४-१८) ३७६. ॐ सुभासे नमः । (८-२३-२०) ३७७. ॐ दैवीभ्यो द्वार्भ्यः नमः । (१-१३-६) ३७८. ॐ जराबोधाय नमः । (१-२७-१०) ३७९. ॐ हूयमानाय नमः । (१०-१२२-५) ३८०. ॐ विभावसवे नमः । (१-४४-१०) ३८१. ॐ सहसावते नमः । (१-१८६-५) ३८२. ॐ मर्मृजेन्याय नमः । (२-१०-१) ३८३. ॐ हिंस्राय नमः । (१०-८७-३) ३८४. ॐ अमृतस्य रक्षित्रे नमः । (६-७-७) ३८५. ॐ द्रविणोदसे नमः । (२-१-७) ३८६. ॐ भ्राजमानाय नमः । (९-५-१०) ३८७. ॐ धृष्णवे नमः । (३-१६-२२) ३८८. ॐ ऊर्जां पतये नमः । (१-२६-१) ३८९. ॐ पित्रे नमः । (१-३१-१०) ३९०. ॐ सदायविष्ठाय नमः । (१-२६-२) ३९१. ॐ वरुणाय नमः । (२-१-४) ३९२. ॐ वरेण्याय नमः । (१-२६-२) ३९३. ॐ भाजयवे नमः । (२-१-४) ३९४. ॐ पृथवे नमः । (२-१०-४) ३९५. ॐ वन्द्याय नमः । (१-३१-१२) ३९६. ॐ अध्वराणां सम्राजते नमः । (१-२७-१) ३९७. ॐ सुशेवाय नमः । (१-२७-२) ३९८. ॐ धियै नमः । (१-९५-८) ३९९. ॐ ऋषये नमः । (३-२१-३) ४००. ॐ शिवाय नमः । (१-३१-१) ४०१. ॐ पृथुप्रगाम्णे नमः । (१-२७-२) ४०२. ॐ विश्वायवे नमः । (१-२७-३) ४०३. ॐ मीढुषे नमः । (१-२७-२) ४०४. ॐ थन्त्रे नमः । (१०-४६-१) ४०५. ॐ शुचते नमः । (६-३-३) ४०६. ॐ सख्ये नमः । (१-३१-१) ४०७. ॐ अनवद्याय नमः । (१-३१-९) ४०८. ॐ पप्रथानाय नमः । (५-१५-४) ४०९. ॐ स्तवमानाय नमः । (१-१४७-५) ४१०. ॐ विभवे नमः । (१-३१-२) ४११. ॐ रायवे नमः । (१-३१-२) ४१२. ॐ श्वैत्रेयाय नमः । (५-१९-३) ४१३. ॐ प्रथमाय नमः । (१-३१-२) ४१४. ॐ द्युसाय नमः । (२-२-१) ४१५. ॐ बृहदुक्ष्णे नमः । (१०-६९-७) ४१६. ॐ सुकृत्तराय नमः । (१-३१-४) ४१७. ॐ वयस्कृते नमः । (१०-७-७) ४१८. ॐ अग्निदे नमः । (२-१-२) ४१९. ॐ तोकस्यत्रात्रे नमः । (१-३१-१२) ४२०. ॐ प्रीताय नमः । (१-६६-४) ४२१. ॐ विदुष्टराय नमः । (४-७-८) ४२२. ॐ तिग्माग्नीकाय नमः । (१-९५-२) ४२३. ॐ होत्रवाहाय नमः । (५-२६-७) ४२४. ॐ विगाहाय नमः । (२-३-५) ४२५. ॐ स्वतवते नमः । (४-२-६) ४२६. ॐ भृमये नमः । (१-३१-१६) ४२७. ॐ जुजुषाणाय नमः । (१०-१५०-२) ४२८. ॐ सप्तरश्मये नमः । (१-१४६-१) ४२९. ॐ ऋषिकृते नमः । (१-३१-१६) ४३०. ॐ तुर्वणये नमः । (१-१२८-३) ४३१. ॐ शुचये नमः । (१-३१-१७) ४३२. ॐ भूरिजन्मने नमः । (१०-५-१) ४३३. ॐ समनगे नमः । (७-९-४) ४३४. ॐ प्रशस्ताय नमः । (१-३६-९) ४३५. ॐ विश्वतस्पृथवे नमः । (२-१-१२) ४३६. ॐ वाजस्य राज्ञे नमः । (१-३६-१२) ४३७. ॐ श्रुत्यस्य राज्ञे नमः । (१-३६-१२) ४३८. ॐ विश्वभरसे नमः । (४-१-१९) ४३९. ॐ वृष्णे नमः । (१-३६-८) ४४०. ॐ सत्यतातये नमः । (४-४-१४) ४४१. ॐ जातवेदसे नमः । (१-४४-१) ४४२. ॐ त्वाष्ट्राय नमः । (३-७-४) ४४३. ॐ अमर्त्याय नमः । (१-४४-१) ४४४. ॐ वसुश्रवसे नमः । (५-२४-२) ४४५. ॐ सत्यशुष्माय नमः । (१-५९-४) ४४६. ॐ भाऋजीकाय नमः । (१-४४-३) ४४७. ॐ अध्वश्रिये नमः । (१-४४-३) ४४८. ॐ सप्रथस्तमाय नमः । (१-४५-७) ४४९. ॐ पुरुरूपाय नमः । (५-८२-५) ४५०. ॐ बृहद्भानवे नमः । (१-२७-१२ ।) ४५१. ॐ विश्वदेवाय नमः । (१-१४१-१२) ४५२. ॐ मरुत्सखाय नमः । (८-१०३-१४) ४५३. ॐ रुशदूर्मये नमः । (१-५८-४) ४५४. ॐ जेहमानाय नमः । (१०-३-६) ४५५. ॐ भृगवते नमः । (४-७-४) ४५६. ॐ वृत्रघ्ने नमः । (२-१-११) ४५७. ॐ क्षयाय नमः । (३-२-१३) ४५८. ॐ वामस्यरातये नमः । (१०-१४०-५) ४५९. ॐ कृष्टीनां राज्ञे नमः । (१-५९-५) ४६०. ॐ रुद्राय नमः । (८-७२-३) ४६१. ॐ शचीवसवे नमः । (८-६०-१२) ४६२. ॐ दक्षैः सुदक्षाय नमः । (१०-१९-३) ४६३. ॐ इन्धानाय नमः । (१-१४३-७) ४६४. ॐ विश्वकृष्टये नमः । (१-५९-७) ४६५. ॐ बृहस्पतये नमः । (३-२६-२) ४६६. ॐ अपांसधस्थाय नमः । (१०-४६-२) ४६७. ॐ वसुविदे नमः । (८-२३-१६) ४६८. ॐ रण्वाय नमः । (१-६५-५) ४६९. ॐ भुज्मने नमः । (१-६६-५) ४७०. ॐ विशांपतये नमः । (१-१२७-८) ४७१. ॐ सहस्रवल्शाय नमः । (९-५-१०) ४७२. ॐ धरुणाय नमः । (५-१५-१) ४७३. ॐ वह्वसे नमः । (१-६०-१) ४७४. ॐ शम्भवे नमः । (१-६५-५) ४७५. ॐ सहन्तमाय नमः । (१-१२७-९) ४७६. ॐ अच्छिद्रोतये नमः । (१-१४५-३) ४७७. ॐ चित्रशीचिषे नमः । (५-१७-२) ४७८. ॐ हृषीवते नमः । (१-१२७-६) ४७९. ॐ विशामतिथये नमः । (३-२६-२) ४८०. ॐ दुर्धरीतवे नमः । (१०-२०-२) ४८१. ॐ सपर्येण्याय नमः । (६-१-६) ४८२. ॐ वेदिषदे नमः । (१-१४०-१) ४८३. ॐ चित्राय नमः । (१-९४-५) ४८४. ॐ आतनये नमः । (२-१-१०) ४८५. ॐ दैव्यः केतवे नमः । (१-२७-१२) ४८६. ॐ तिग्महेतये नमः । (४-४-४) ४८७. ॐ कनीनाञ्जारय नमः । (१-६६-८) ४८८. ॐ आनवाय नमः । (८-७४-४) ४८९. ॐ ऊर्जाहुतये नमः । (८-३९-४) ४९०. ॐ ऋताय नमः । (१-६५-३) ४९१. ॐ चेत्याव नमः । (६-१-५) ४९२. ॐ प्रजानते नमः । (३-२९-१८) ४९३. ॐ सर्पिरासुतये नमः । (२-७-६) ४९४. ॐ गुहाचतते नमः । (१-६५-१) ४९५. ॐ चित्रमहसे नमः । (१०-१२२-१) ४९६. ॐ द्व्रन्नाय नमः । (६-१२-४) ४९७. ॐ सूराय नमः । (८-५६-५) ४९८. ॐ नितोशनाय नमः । (६-१-८) ४९९. ॐ क्रत्वा चेतिष्ठाय नमः । (१-६५-९) ५००. ॐ ऋतचिदे नमः । (१-१४५-५) ५०१. ॐ त्रिवरूथाय नमः । (६-१५-९) ५०२. ॐ सहस्रजिते नमः । (५-२६-६) ५०३. ॐ संदृशे नमः । (१-६६-१) ५०४. ॐ जूर्णये नमः । (८-७२-९) ५०५. ॐ क्षोदसे नमः । (१-६५-६) ५०६. ॐ आयवे नमः । (१०-२०-७) ५०७. ॐ उषर्बुधे नमः । (१-६५-९) ५०८. ॐ वाजसातमाय नमः । (१-७८-३) ५०९. ॐ नित्याय नमः । (१-६६-१) ५१०. ॐ सूनवे नमः । (६-४-४) ५११. ॐ जन्याय नमः । (१०-९१-२) ५१२. ॐ ऋतप्रजाताय नमः । (१-६५-१०) ५१३. ॐ वृत्रहन्तमाय नमः । (१-७८-४) ५१४. ॐ वर्षिष्ठाय नमः । (५-७-१) ५१५. ॐ स्पृहयद्वर्णाय नमः । (२-११-५) ५१६. ॐ घृणये नमः । (६-१६-३८) ५१७. ॐ जाताय नमः । (१-६६-८) ५१८. ॐ यरास्तमाय नमः । (२-८-१) ५१९. ॐ वनेषु जायवे नमः । (१-६७-१) ५२०. ॐ पुत्रः सन्पित्रे नमः । (१-६९-२) ५२१. ॐ शुक्राय नमः । (१-६९-२) ५२२. ॐ दुरोणयवे नमः । (८-६०-१९) ५२३. ॐ आशहेमाय नमः । (२-३५-१) ५२४. ॐ क्षयते नमः । (३-२५-३) ५२५. ॐ घोराय नमः । (४-६-६) ५२६. ॐ देवावां केतेवे नमः । (३-१-१७) ५२७. ॐ अह्नवाय नमः । (८-६०-१६) ५२८. ॐ दुरोकशोचिषे नमः । (१-६६-५) ५२९. ॐ पलिताय नमः । (१०-४-५) ५३०. ॐ सुवर्चसे नमः । (१-१५-१) ५३१. ॐ बहुलाय नमः । (२-१-१२) ५३२. ॐ अभ्दुताय नमः । (२-७-६?) ५३३. ॐ रपीणां राज्ञे नमः । (८-१९-८) ५३४. ॐ निषत्ताय नमः । (१-५८-३) ५३५. ॐ धूर्षदे नमः । (१-४३-७) ५३६. ॐ रूक्षाय नमः । (६-३-७) ५३७. ॐ ध्रुवाय नमः । (६-१५-७) ५३८. ॐ हरये नमः । (७-१०-१) ५३९. ॐ धर्माय नमः । (३-१७-१) ५४०. ॐ द्विजन्मने नमः । (१-६०-१) ५४१. ॐ सुतुकाय नमः । (१०-३-१) ५४२. ॐ शुशुक्वते नमः । (१-६९-१) ५४३. ॐ जाराय नमः । (१-६९-१) ५४४. ॐ उक्षिताय नमः । (१-३६-१९) ५४५. ॐ नाद्याय नमः । (२-६५-१) ५४६. ॐ सिष्णवे नमः । (८-१९-३१) ५४७. ॐ दधये नमः । (१०-४६-१) ५४८. ॐ सिंहाय नमः । (१-९५-५) ५४९. ॐ ऊर्ध्वरोचिषे नमः । (६-१५-२) ५५०. ॐ अनानताय नमः । (७-६-४) ५५१. ॐ शेवाय नमः । (१-५८-६) ५५२. ॐ पितूनांस्वाद्मने नमः । (१-६९-३) ५५३. ॐ आहावाय नमः । (६-७-२) ५५४. ॐ अप्सुसिंह इवश्रिताय नमः । (३-९-४) ५५५. ॐ वनानां गर्भाय नमः । (१-७०-३) ५५६. ॐ चरथां गर्भाय नमः । (१-७०-३) ५५७. ॐ यज्ञाय नमः । (७-१६-२) ५५८. ॐ पुरूवसवे नमः । (२-१-५) ५५९. ॐ क्षपावते नमः । (१-७०-५) ५६०. ॐ नृपतये नमः । (२-१-७) ५६१. ॐ मेध्याय नमः । (५-१-१२) ५६२. ॐ विश्वस्मै नमः । (१-१२८-६) ५६३. ॐ श्वेताय नमः । (३-१-४) ५६४. ॐ अपरीवृताय नमः । (२-१०-३) ५६५. ॐ स्थातां गर्भाय नमः । (१-७०-३) ५६६. ॐ शुक्रवर्चसे नमः । (१०-१४०-२) ५६७. ॐ परमे पदे तस्थुषे नमः । (१-७२-४) ५६८. ॐ देवानां मतींश्च जन्मविदुषे नमः । (१-७०-६) ५६९. ॐ श्येताय नमः । (१-७१-४) ५७०. ॐ शुचिव्रताय नमः । (८-४३-१६) ५७१. ॐ ऋतप्रवीताय नमः । (१-७०-७) ५७२. ॐ सुब्रह्मणे नमः । (७-१६-२) ५७३. ॐ सवित्रे नमः । (४-१३-२) ५७४. ॐ चित्तये नमः । (१-६७-१०) ५७५. ॐ अप्सुषदे नमः । (३-३-४) ५७६. ॐ चन्द्राय नमः । (५-१०-४) ५७७. ॐ पुराय नमः । (१०-८७-२२) ५७८. ॐ तूर्णितमाय नमः । (४-४-३) ५७९. ॐ स्पन्द्राय नमः । (६-१२-५आ) ५८०. ॐ देवेषु जागृवये नमः । (१-३१-९) ५८१. ॐ पुरएत्रे नमः । (१-७६-२) ५८२. ॐ सत्यतराय नमः । (१-७६-५) ५८३. ॐ ऋताव्ने नमः । (१-७७-१) ५८४. ॐ देववाहनाय नमः । (३-१७-१४) ५८५. ॐ अतन्द्राय नमः । (१-६२-६) ५८६. ॐ इन्द्राय नमः । (२-१-३) ५८७. ॐ ऋतुविदे नमः । (१०-२-५) ५८८. ॐ शोचिष्ठाय नमः । (५-२४-४) ५८९. ॐ शुचिदत्ते नमः । (५-७-७) ५९०. ॐ शिताय नमः । (८-२३-१३) ५९१. ॐ हिरण्यकेशाय नमः । (१-७९-१) ५९२. ॐ सुप्रीताय नमः । (६-१५-२) ५९३. ॐ वसूनां जनित्रे नमः । (१-७६-४) ५९४. ॐ असुराय नमः । (४-२-५) ५९५. ॐ ऋभ्वने नमः । (१०-२०-५) ५९६. ॐ सुशर्मणे नमः । (३-१५-१) ५९७. ॐ देवाव्ये नमः । (३-२९-८) ५९८. ॐ दाशुषे रत्नानि दधते नमः । (४-१५-३) ५९९. ॐ पूर्वय नमः । (७-६-३) ६००. ॐ दधृपो नमः । (१०-१६-७) ६०१. ॐ दिवस्पायवे नमः । (८-६०-१९) ६०२. ॐ पोत्रे नमः । (१-९४-६) ६०३. ॐ धीराय नमः । (१-९४-६) ६०४. ॐ सहस्रसासे नमः । (१-१८८-३) ६०५. ॐ सुमृळीकाय नमः । (४-१-२०) ६०६. ॐ देवकामाय नमः । (२-३-९) ६०७. ॐ नवजाताय नमः । (५-१५-३) ६०८. ॐ धनञ्जयाय नमः । (१-७४-३) ६०९. ॐ शश्वत्तमाय नमः । (१०-७०-३) ६१०. ॐ नीलपृष्ठाय नमः । (३-७-३) ६११. ॐ ऋष्वाय नमः । (१-१४६-२) ६१२. ॐ मन्द्रतराय नमः । (३-७-९) ६१३. ॐ अग्रियाय नमः । (६-१६-४८) ६१४. ॐ स्वर्चिषे नमः । (२-३-२) ६१५. ॐ अंशाय नमः । (२-१-४) ६१६. ॐ दारबे ७-६-१ ६१७. ॐ अस्रिधे नमः । (१-१३-९) ६१८. ॐ शितिपृष्ठाय नमः । (३-७-१) ६१९. ॐ नमोवरते नमः । (१-६५-१) ६२०. ॐ प्रविदुषे नमः । (५-२६-१) ६२१. ॐ तरुणाय नमः । (७-४-२) ६२२. ॐ चर्षणीनां सभ्राजे नमः । (३-१०-१) ६२३. ॐ विचक्षणाय नमः । (३-३-१०) ६२४. ॐ स्वंगाय नमः । (१०-१-१) ६२५. ॐ सुवीराय नमः । (१-३१-१०) ६२६. ॐ कृष्णाध्वने नमः । (२-४-६) ६२७. ॐ सुप्रतूर्तये नमः । (३-९-१) ६२८. ॐ इळाय नमः । (१-१३-४) ६२९. ॐ मह्यै नमः । (१-१४२-६) ६३०. ॐ यविष्ठ्याय नमः । (१-३६-६) ६३१. ॐ दक्षुषे नमः । (१-१४१-७) ६३२. ॐ अवृकाय नमः । (६-१५-३) ६३३. ॐ वाशीमते नमः । (१०-२०-६) ६३४. ॐ अवनाय नमः । (८-७२-१०) ६३५. ॐ घृताय नमः । (४-५८-१) ६३६. ॐ ईवते नमः । (४-१५-५) ६३७. ॐ अस्त्रे नमः । (४-४-१) ६३८. ॐ विश्ववाराय नमः । (३-१७-१) ६३९. ॐ चित्रभानवे नमः । (१-२७-६) ६४०. ॐ अपांनपदे नमः । (१-१४३-१) ६४१. ॐ नृचक्षसे नमः । (३-१५-३) ६४२. ॐ ऊर्जयते नमः । (२-३५-७) ६४३. ॐ शीरीया नमः । (३-९-८) ६४४. ॐ सहोजसे नमः । (१-५८-१) ६४५. ॐ अद्भुतक्रतवे नमः । (८-२३-८) ६४६. ॐ बहूनामवमाय नमः । (२-३५-१२) ६४७. ॐ अभिद्यवे नमः । (८-७५-६) ६४८. ॐ भानवे नमः । (३-२२-२) ६४९. ॐ मित्रमहाय नमः । (१-४४-१२) ६५०. ॐ भगाय नमः । (२-१-७) ६५१. ॐ वृश्चद्वनाय नमः । (६-६-१) ६५२. ॐ रोरुचानाय नमः । (४-१-७) ६५३. ॐ पृथिव्याः पतये नमः । (८-४४-१६) ६५४. ॐ आघृणाय नमः । (२-१-७) ६५५. ॐ दिवः सूनवे नमः । (३-२५-१) ६५६. ॐ दस्मवर्चसे नमः । (६-१३-२) ६५७. ॐ यन्तुराय नमः । (३-२७-११) ६५८. ॐ दुष्टराय नमः । (३-२४-१) ६५९. ॐ जयते नमः । (१०-४६-५) ६६०. ॐ स्वर्विदे नमः । (३-३-५) ६६१. ॐ गणश्रिये नमः । (८-२३-४) ६६२. ॐ रथिराय नमः । (७-७-४) ६६३. ॐ नाकाय नमः । (५-१७-२) ६६४. ॐ शुभ्राय नमः । (१०-४६-५) ६६५. ॐ अप्तुराया नमः । (३-२७-११) ६६६. ॐ ससाय नमः । (३-५-६) ६६७. ॐ हिरिशिप्राय नमः । (२-२-५) ६६८. ॐ विश्वमिन्वाय नमः । (३-२०-३) ६६९. ॐ भृगूणां रातये नमः । (३-२-४) ६७०. ॐ अद्वयते नमः । (३-२९-५) ६७१. ॐ सुहोत्रे नमः । (८-१०३-१२) ६७२. ॐ सुरणाय नमः । (३-२९-१४) ६७३. ॐ सुदिवे नमः । (१०-३-५) ६७४. ॐ मन्धात्रे नमः । (१०-२-२) ६७५. ॐ स्ववसाय नमः । (५-८-२) ६७६. ॐ पुंसे नमः । (४-३-१०) ६७७. ॐ अश्वदान्वे नमः । (५-१८-३) ६७८. ॐ श्रेष्ठशोचिष नमः । (८-१९-४) ६७९. ॐ यजीयसे नमः । (२-९-४) ६८०. ॐ हयताय नमः । (८-४४-५) ६८१. ॐ अर्णवाय नमः । (३-२२-२) ६८२. ॐ सुप्रतीकाय नमः । (१-१४३-३) ६८३. ॐ चित्रयामाय नमः । (३-२-१३) ६८४. ॐ स्वभिष्टये नमः । (८-१९-३२) ६८५. ॐ चक्षणये नमः । (६-४-२) ६८६. ॐ रुशते नमः । (४-७-९) ६८७. ॐ बृहत्सूराय नमः । (८-५०-५) ६८८. ॐ पृष्ठबन्धवे नमः । (३-२०-३) ६८९. ॐ शचीवते नमः । (३-२१-४) ६९०. ॐ संयताय नमः । (२-२-२) ६९१. ॐ चिकिदे नमः । (१०-३-१) ६९२. ॐ विशामीड्याय नमः । (८-२३-२०) ६९३. ॐ अहिंस्यमानाय नमः । (१-१४१-५) ६९४. ॐ वयोधसे नमः । (१-७३-१) ६९५. ॐ गिर्वणसे नमः । (२-६-२) ६९६. ॐ तपुषे नमः । (२-४-६) ६९७. ॐ वशान्नाय नमः । (८-४३-११) ६९८. ॐ उग्राय नमः । (१-१२७-११) ६९९. ॐ अद्वयाविने नमः । (३-२-१५) ७००. ॐ त्रिधातवे नमः । (८-२२-९) ७०१. ॐ तरणये नमः । (३-२९-१३) ७०२. ॐ स्वयवे नमः । (२-४-७) ७०३. ॐ त्रययाय्याय नमः । (६-२-७) ७०४. ॐ चर्षणीनां होत्रे नमः । (१-२७-२) ७०५. ॐ वीळवे नमः । (८-४४-२७) ७०६. ॐ प्रजापतये नमः । (९-५-९) ७०७. ॐ गुहमानाय नमः । (४-१-११) ७०८. ॐ निर्मथिताय नमः । (३-२३-१) ७०९. ॐ सुदानवे नमः । (३-२९-७) ७१०. ॐ इषिताय नमः । (१०-११०-३) ७११. ॐ यजते नमः । (५-८-१) ७१२. ॐ मेधाकाराय नमः । (१०-९१-८) ७१३. ॐ विप्रवीराय नमः । (१०-१८८-२) ७१४. ॐ क्षितीनां वृषभाय नमः । (१०-१८७-१) ७१५. ॐ अरतये नमः । (१-१२८-६) ७१६. ॐ वाजिन्तमाय नमः । (१०-११५-६) ७१७. ॐ कण्वतमाय नमः । (१०-११५-५) ७१८. ॐ जरित्रे नमः । (३-१५-५) ७१९. ॐ मित्रियाय नमः । (८-१९-४) ७२०. ॐ अजराय नमः । (१-५८-२) ७२१. ॐ रायस्पतये नमः । (१-१४९-१) ७२२. ॐ कूचिदर्थिने नमः । (४-७-६) ७२३. ॐ कृष्णयामाय नमः । (६-६-१) ७२४. ॐ दिविक्षयाय नमः । (३-२-१३) ७२५. ॐ घृतप्रतीकाय नमः । (१-१४३-७) ७२६. ॐ चेतिष्ठाय नमः । (१-६५-९) ७२७. ॐ पुरुक्षवे नमः । (१-६८-१०) ७२८. ॐ सत्वनाय नमः । (१०-११५-४) ७२९. ॐ अक्षिताय नमः । (८-१२-१०) ७३०. ॐ नित्यहोत्रे नमः । (१०-७-४) ७३१. ॐ पूतदक्षाय नमः । (३-१-३) ७३२. ॐ ककुद्मते नमः । (१०-८-२) ७३३. ॐ क्रव्यवाहनाय नमः । (१०-१६-११) ७३४. ॐ दिधिषाय्याय नमः । (१-७३-२) ७३५. ॐ दिद्युतानाय नमः । (३-२-४) ७३६. ॐ सुद्योत्मने नमः । (१-१४१-१२) ७३७. ॐ दस्युहंतमाय नमः । (६-१६-१५) ७३८. ॐ पुरुवाराय नमः । (२-२-२) ७३९. ॐ पुरुतमाय नमः । (६-६-२) ७४०. ॐ जर्हृषाणाय नमः । (१०-१६-७) ७४१. ॐ पुरोहिताय नमः । (१-१-१) ७४२. ॐ शुचिजिह्वाय नमः । (२-९-१) ७४३. ॐ जर्भुराणाय नमः । (२-१०-५) ७४४. ॐ रेजमानाय नमः । (१०-६-५) ७४५. ॐ तनूनपदे नमः । (३-२९-११) ७४६. ॐ आदितेयाय नमः । (१०-८८-११) ७४७. ॐ देवतमाय नमः । (१०-३-६) ७४८. ॐ दीर्घतन्तवे नमः । (१०-६९-७) ७४९. ॐ पुरन्दराय नमः । (६-१६-१४) ७५०. ॐ दिवियोनये १०-८८-७ ७५१. ॐ दर्शतश्रिये नमः । (१०-९१-२) ७५२. ॐ जरमाणाय नमः । (१०-१८८-५) ७५३. ॐ पुरुप्रियाय नमः । (१-१२-२) ७५४. ॐ ज्रयसानाय नमः । (१०-११५-४) ७५५. ॐ पुरुप्रैषाय नमः । (१-१४७-३६) ७५६. ॐ विश्वतूर्तये नमः । (२-३-८) ७५७. ॐ पितुष्पित्रे नमः । (६-१६-३५) ७९८. ॐ सहसानाय नमः । (१-१८९-८) ७५९. ॐ सञ्चिकितुषे नमः । (४-७-८) ७६०. ॐ दैवोदासाय नमः । (८-१०३-२) ७६१. ॐ सहोवृधाय नमः । (१-३६-२) ७६२. ॐ शोचिष्केशाय १-४५-६ ७६३. ॐ धृषाद्वर्णाय नमः । (१०-८७-२२) ७६४. ॐ सुजाताय नमः । (२-१-१५) ७६५. ॐ पुरुचेतनाय नमः । (६-१६-१९) ७६६. ॐ विश्वश्रुष्टये नमः । (१-१२८-१) ७६७. ॐ विश्ववार्याय नमः । (८-११-११) ७६८. ॐ आयजिष्ठाय नमः । (२-९-६) ७६९. ॐ सदानवाय नमः । (३-११-९) ७७०. ॐ दैवीनां क्षितीनां नेत्रे नमः । (३-२०-४) ७७१. ॐ विश्वादाय नमः । (८-४४-२६) ७७२. ॐ पुरुशोभनाय नमः । (५-२-४) ७७३. ॐ यज्ञवन्यवे नमः । (४-१-९) ७७४. ॐ वह्नितमाय नमः । (४-१-४) ७७५. ॐ रंसुजिह्वाय नमः । (४-१-८) ७७६. ॐ गुहाहिताय नमः । (४-७-६) ७७७. ॐ त्रिषधस्थाय नमः । (५-४-८) ७७८. ॐ विश्वधायसे नमः । (१-७३-३) ७७९. ॐ होत्राविदे नमः । (५-८-३) ७८०. ॐ विश्वदर्शताय नमः । (१-४४-१०) ७८१. ॐ चित्रराधसे नमः । (८-११-९) ७८२. ॐ सूनृतावते नमः । (१-५९-७) ७८३. ॐ सद्योजाताय नमः । (१०-११०-११) ७८४. ॐ परिष्कृताय नमः । (८-३९-९) ७८५. ॐ चित्रक्षत्राय नमः । (६-६-७) ७८६. ॐ वृद्धशोचिषे नमः । (५-१६-३) ७८७. ॐ वनिष्ठाय नमः । (७-१०-२) ७८८. ॐ ब्रह्मणस्पत्ये नमः । (२-१-३?) ७८९. ॐ वभ्रये नमः । (३-१-१२) ७९०. ॐ परस्पे नमः । (२-९-२) ७९१. ॐ उषसामिधानाय नमः । (१०-४५-५) ७९२. ॐ सासहये नमः । (३-१६-४) ७९३. ॐ सदृशे नमः । (८-११-८) ७९४. ॐ वाजिने नमः । (२-१०-१) ७९५. ॐ प्रशंस्याय नमः । (२-२-३) ७९६. ॐ मधुपृचे नमः । (२-१०-६) ७९७. ॐ चिकित्राय नमः । (१०-९१-४) ७९८. ॐ नक्ष्याय नमः । (७-१५-७) ७९९. ॐ सुदक्षाय नमः । (२-९-१) ८००. ॐ अदृपिताय नमः । (४-३-३) ८०१. ॐ वसिष्ठाय नमः । (२-९-१) ८०२. ॐ दिव्याय नमः । (६-६-१) ८०३. ॐ जुषाणाय नमः । (१०-१२२-२) ८०४. ॐ रघुयते नमः । (४-५-९) ८०५. ॐ प्रयज्यवे नमः । (३-६-२) ८०६. ॐ दुर्याय नमः । (७-१-११) ८०७. ॐ सुराघसे नमः । (४-२-४) ८०८. ॐ प्रयताय नमः । (४-५-१०) ८०९. ॐ अप्रमृष्याय नमः । (२-३५-६) ८१०. ॐ वातोपधूताय नमः । (१०-९१-७) ८११. ॐ महिनादृशेन्याय नमः । (१०-८८-७) ८१२. ॐ श्रीणामुदाराय नमः । (१०-४५-५) ८१३. ॐ रयीणां धरुणाय नमः । (१०-४५-५) ८१४. ॐ दीद्यते नमः । (१-४३-७) ८१५. ॐ रुरुक्वते नमः । (१-१४९-३) ८१६. ॐ द्रविणस्यवे नमः । (२-६-३) ८१७. ॐ अत्याय नमः । (३-७-९) ८१८. ॐ श्रियंवसानाय नमः । (२-१०-१) ८१९. ॐ प्रवपते नमः । (१०-११५-३) ८२०. ॐ यजिष्ठाय नमः । (१-३६-१०) ८२१. ॐ वस्याय नमः । (१-१४१-१२) ८२२. ॐ विदानाय नमः । (२-९-१) ८२३. ॐ दिविजे नमः । (८-४३-२८) ८२४. ॐ पनिष्ठाय नमः । (३-१-१३) ८२५. ॐ दम्याय नमः । (८-२३-२४) ८२६. ॐ परिज्मने नमः । (६-२-८) ८२७. ॐ सुहवाय नमः । (३-१५-१) ८२८. ॐ विरूपाय नमः । (३-१-१३) ८२९. ॐ जनानां जामये नमः । (१-७५-४) ८३०. ॐ विषिताय नमः । (६-१२-५) ८३१. ॐ वपुष्याय नमः । (४-१-८) ८३२. ॐ शुक्तेभिरंगैरज आततन्वते नमः । (३-१-५) ८३३. ॐ अद्रुहे नमः । (३-२२-४) ८३४. ॐ वरूथ्याय नमः । (५-२४-१) ८३५. ॐ सुद्रशीकरूपाय नमः । (४-५-१५) ८३६. ॐ ब्रह्मणे नमः । (२-१-२८) ८३७. ॐ विविदुषे नमः । (४-५-३) ८३८. ॐ चिकितवे नमः । (८-५६-५) ८३९. ॐ विभानवे नमः । (८-१०२-२) ८४०. ॐ धर्णये नमः । (१-१२७-७) ८४१. ॐ विधर्त्रे नमः । (२-१-३) ८४२. ॐ विविचये नमः । (५-८-३) ८४३. ॐ स्वनीकाय नमः । (२-१-८) ८४४. ॐ यह्वाय नमः । (१-३६-१) ८४५. ॐ प्रकेताय नमः । (१-९४-५) ८४६. ॐ वृषणाय नमः । (३-२९-३) ८४७. ॐ चकानाय नमः । (५-३-१०) ८४८. ॐ जुष्टाय नमः । (५-४-५) ८४९. ॐ मनोत्रे नमः । (२-९-४) ८५०. ॐ प्रमतये नमः । (१-३१-१०) ८५१. ॐ विहायसे नमः । (१-१२८-६) ८५२. ॐ जेन्याय नमः । (१-७१-४) ८५३. ॐ हविष्कृते नमः । (१-१३-३) ८५४. ॐ पितुमते नमः । (१-१४१-२) ८५५. ॐ शविष्ठाय नमः । (१-१२७-११) ८५६. ॐ मतये नमः । (१-९१-८) ८५७. ॐ सुपित्र्याय नमः । (१०-११५-६) ८५८. ॐ सहसिने नमः । (४-४-१) ८५९. ॐ दृशानाय नमः । (१०-४५-८) ८६०. ॐ शुचिप्रतीकाय नमः । (१-१४३-६) ८६१. ॐ विषुणवे नमः । (४-६-६) ८६२. ॐ मितद्रवे नमः । (४-६-५) ८६३. ॐ दविद्युतते नमः । (७-१०-१) ८६४. ॐ वाजपतये नमः । (४-१५-३) ८६५. ॐ विजावते नमः । (१-६९-३) ८६६. ॐ विश्वस्पनाभये नमः । (१०-५-३) ८६७. ॐ सनृजाय नमः । (१-१५-१२) ८६८. ॐ सुवृक्वये नमः । (२-४-१) ८६९. ॐ तिग्माय नमः । (४-६-८) ८७०. ॐ सुदंससे नमः । (२-२-३) ८७१. ॐ हरिताय नमः । (९-५-१०) ८७२. ॐ तमोघ्ने नमः । (१-१४०-१) ८७३. ॐ जनानां जेत्रे नमः । (१-६६-३) ८७४. ॐ ततुरये नमः । (१-१४५-३) ८७५. ॐ वनर्गवे नमः । (१-१४५-५) ८७६. ॐ प्रेष्ठाय नमः । (८-८४-१) ८७७. ॐ धनर्चाय नमः । (१०-४९-५) ८७८. ॐ सुषखाय नमः । (१०-९१-१) ८७९. ॐ धियंधये नमः । (७-१३-१) ८८०. ॐ मन्यवे नमः । (१०-८७-१३) ८८१. ॐ पयस्वते नमः । (१-२३-२३) ८८२. ॐ महिषाय नमः । (१०-१४०-६) ८८३. ॐ समानाय नमः । (४-५-७) ८८४. ॐ सूर्याय नमः । (३-१४-४) ८८५. ॐ घृणीवते नमः । (१०-१७६-३) ८८६. ॐ रथयवे नमः । (१०-७-५) ८८७. ॐ घृतश्रिये नमः । (१-१२८-४) ८८८. ॐ भ्रात्रे नमः । (८-४३-१६) ८८९. ॐ शिमीबते नमः । (१०-८-२) ८९०. ॐ भुवनस्य गर्भाय नमः । (१०-४५-१) ८९१. ॐ सहस्ररेतसे नमः । (४-५-३) ८९२. ॐ नृषदे नमः । (६-१५-३) ८९३. ॐ अप्रयुच्छते नमः । (१-१४३-८) ८९४. ॐ वेनाय नमः । (४-५८-४) ८९५. ॐ वपावते नमः । (६-१-३) ८९६. ॐ सुषुमते नमः । (१०-३-१) ८९७. ॐ शिशानाय नमः । (१०-८७-१) ८९८. ॐ मधुप्रतीकाय नमः । (१०-११८-४) ८९९. ॐ स्वयशसे नमः । (१-९५-२) ९००. ॐ सहीयसे नमः । (१०-१७६-४) ९०१. ॐ नव्याय नमः । (१-१४१-१०) ९०२. ॐ मुहुर्गिरे नमः । (१-१२८-३) ९०३. ॐ सुभगाय नमः । (१-३६-६) ९०४. ॐ रभस्वते नमः । (१०-३-७) ९०५. ॐ यज्ञस्य केतवे नमः । (१-१२७-६) ९०६. ॐ सुमनस्य मानाय नमः । (१०-५१-५) ९०७. ॐ देवाय नमः । (१-१-१) ९०८. ॐ श्रवस्याय नमः । (२-१०-१) ९०९. ॐ वयुनानिविदुषे नमः । (१-७२-७) ९१०. ॐ दिवस्पृथिव्योररतये नमः । (२-२-३) ९११. ॐ तनूपे नमः । (८-७१-१३) ९१२. ॐ विष्णवे नमः । (१०-१-३) ९१३. ॐ रथाय नमः । (३-११-५) ९१४. ॐ सुष्टुताय नमः । (५-१३-५) ९१५. ॐ ऋञ्जसानाय नमः । (१-९६-३) ९१६. ॐ विश्वस्य केतवे नमः । (१०-४५-६) ९१७. ॐ च्यवनाय नमः । (१०-६९-५) ९१८. ॐ सहस्याय नमः । (१-१४७-२) ९१९. ॐ हिरण्यरूपाय नमः । (२-३५-१०) ९२०. ॐ प्रमहसे नमः । (५-२८-४) ९२१. ॐ सुजंभाय नमः । (८-६०-१३) ९२२. ॐ रुशद्वसानाय नमः । (४-५-१५) ९२३. ॐ कृपनीळाय नमः । (१०-२०-३) ९२४. ॐ ऋंधते नमः । (१०-११०-२) ९२५. ॐ कृत्व्याय नमः । (६-२-८) ९२६. ॐ घृतान्नाय नमः । (७-३-१) ९२७. ॐ पुरुधप्रतीकाय नमः । (३-७-३) ९२८. ॐ सहस्रमुष्काय नमः । (८-१९-३२) ९२९. ॐ सुशम्ये नमः । (७-१६-२) ९३०. ॐ त्रिमूध्ने नमः । (१-१४६-१) ९३१. ॐ मन्द्राय नमः । (१-२६-७) ९३२. ॐ सहस्वते नमः । (१-१२७-१०) ९३३. ॐ इषयते नमः । (६-१-२) ९३४. ॐ तरुत्राय नमः । (६-१-१२) ९३५. ॐ तृषुच्युताय नमः । (१-१४०-३) ९३६. ॐ चंद्ररथाय नमः । (१-४१-१२) ९३७. ॐ भुरण्यवे नमः । (१-६८-९) ९३८. ॐ धासये नमः । (३-७-१) ९३९. ॐ सुवेदाय नमः । (४-७-६) ९४०. ॐ समिधासमिद्धाय नमः । (६-१५-७) ९४१. ॐ हिरण्यवर्णाय नमः । (२-३५-१०) ९४२. ॐ शमित्रे नमः । (२-३-१०) ९४३. ॐ सुदत्राय नमः । (७-८-३) ९४४. ॐ यज्ञस्य नेत्रे नमः । (२-५-२) ९४५. ॐ सुधिताय नमः । (३-२३-१) ९४६. ॐ सुशोकाय नमः । (१-७०-१) ९४७. ॐ कविप्रशस्ताय नमः । (५-१-८) ९४८. ॐ अमृतानां प्रथमाय नमः । (१-२४-२) ९४९. ॐ सहस्रश‍ृंगाय नमः । (५-१-८) ९५०. ॐ रयीणां रयिविदे नमः । (३-७-३) ९५१. ॐ ब्रध्नाय नमः । (३-७-५) ९५२. ॐ हृदिस्पृशे नमः । (४-१०-१) ९५३. ॐ प्रदिवाय नमः । (४-६-४) ९५४. ॐ दिविस्पृशे नमः । (१०-८८-१) ९५५. ॐ विश्वने नमः । (१०-३-६) ९५६. ॐ सुबन्धवे नमः । (३-१-३) ९५७. ॐ सुयजाय नमः । (५-८-३) ९५८. ॐ जरद्विषे नमः । (५-८-२) ९५९. ॐ अपाकचक्षसे नमः । (८-७५-७) ९६०. ॐ मधुहस्त्याय नमः । (५-५-२) ९६१. ॐ इद्धाय नमः । (१-६६-९) ९६२. ॐ घर्माय नमः । (१-११२-१) ९६३. ॐ त्रिपस्त्याय नमः । (८-३९-४) ९६४. ॐ द्रविणसे नमः । (३-७-१०) ९६५. ॐ प्रतिव्याय नमः । (८-२३-१) ९६६. ॐ पुरुष्टुताय नमः । (१-१४१-६) ९६७. ॐ कृष्णपवये नमः । (७-८-२) ९६८. ॐ सुशिप्राय नमः । (५-२२-४) ९६९. ॐ पिशंगरूपाय नमः । (२-३-९) ९७०. ॐ पुरुनिष्ठाय नमः । (५-१-६) ९७१. ॐ एकाय नमः । (१०-१-४) ९७२. ॐ हिरण्यदन्ताय नमः । (५-२-३) ९७३. ॐ सुमखाय नमः । (४-३-१४) ९७४. ॐ सुहव्याय नमः । (१-७४-५) ९७५. ॐ दस्माय नमः । (१-७७-३) ९७६. ॐ तपिष्ठाय नमः । (६-५-४) ९७७. ॐ सुसमिद्धाय नमः । (१-१३-१) ९७८. ॐ इर्याय नमः । (७-१३-३) ९७९. ॐ सुद्युते नमः । (१-१४०-१) ९८०. ॐ सुयज्ञाय नमः । (५-८-३) ९८१. ॐ सुमनसे नमः । (३-९-३) ९८२. ॐ सुरत्नाय नमः । (१०-७०-९) ९८३. ॐ सुश्रिये नमः । (३-३-५) ९८४. ॐ सुसंसदे नमः । (७-९-३) ९८५. ॐ सुरथाय नमः । (४-२-४) ९८६. ॐ सुसन्दृशे नमः । (१-१४३-३) ९८७. ॐ तन्वासुजाताय नमः । (३-१५-२) ९८८. ॐ वसुभिः सुजाताय नमः । (१०-७९-७) ९८९. ॐ सुदृशे नमः । (३-१७-४) ९९०. ॐ सुदेवाय नमः । (१-७४-५) ९९१. ॐ सुभराय नमः । (२-३-९) ९९२. ॐ सुबर्हिष्ये नमः । (४-१४-६) ९९३. ॐ ऊर्जोनपदे नमः । (१-५८-८) ९९४. ॐ रयिपतये नमः । (१-६०-४) ९९५. ॐ सुविदत्राय नमः । (२-९-६) ९९६. ॐ आपये नमः । (१-३१-१६) ९९७. ॐ अक्राय नमः । (१-१८९-७) ९९८. ॐ अजिराय नमः । (७-११-२) ९९९. ॐ गृहपतये नमः । (१-१२-६) १०००. ॐ पुरुवारपुष्टये नमः । (१-९६-४) १००१. ॐ विद्युदथाय नमः । (३-१४-१) १००२. ॐ सुसवित्रे नमः । (३-१८-५) १००३. ॐ चतुरक्षाय नमः । (१-३१-१३) १००४. ॐ इष्टये नमः । (१-१४३-८) १००५. ॐ दीद्यानाय नमः । (१-१२७-३) १००६. ॐ इन्दवे नमः । (९-५-९) १००७. ॐ उरुकृते नमः । (८-७५-११) १००८. ॐ घृतकेशाय नमः । (८-६०-२) १००९. ॐ आशवे नमः । (४-७-४) ॥ इति श्रीगोकर्णाभिजनस्य दीक्षितदामोदरसूनोः साम्बदीक्षितस्य कृतौ अग्निसहस्रनामावलिः ॥

एक खतरनाक साजिश की सच्चाई

  🔸“संयुक्त परिवार को तोड़कर उपभोक्ता बनाया गया भारत: एक खतरनाक साजिश की सच्चाई* ⚡“जब परिवार टूटते हैं, तभी बाजार फलते हैं” — ये सिर्फ विच...