गुरुवार, 20 अगस्त 2020

श्री गणपति सहस्रनाम स्तोत्रम्



ॐ अब्याज करुणा मूर्तये नमः 

श्री गणपति सहस्रनाम स्तोत्रम्

विनियोग: 
अस्य श्री महागणपति सहस्रनाम स्तोत्र मंत्रस्य महागणपति ऋषि:,अनुष्टुप छन्द:, महागणपति देवतां, गं बीजम्, हुम् शक्ति:, स्वाहा कीलकम्, चतुर्विध पुरुषार्थ सिद्ध्यर्थे जपे विनियोग: |

ऋष्यादि अंगन्यासः

महागणपति ऋषये नमः, 
अनुष्टुप चन्दसे नमः, 
महागणपति देवतायै नमः, 
गं बीजाय नमः, 
हुं शक्तये नमः, 
स्वाहा कीलकाय नमः, 
विनियोगाय नमः,

ध्यान

गण्डपाली गलद्यान पूर लाल समानसान् | 
द्विरेफान् कर्णतालाभ्यां वारयन्तं मुहुर्मुहः ||
कराग्रधूत माणिक्य कुम्भवक्त्र विनिर्गतैः |
रत्नवर्षेः प्रीणयन्तं साधकान् मदविह्वलम् | 
माणिक्य मुक्तटोपितं सर्वाभरण भूतिषम् ||

सहस्रनाम स्तोत्र

गणेश्वरो गणक्रीडो गणनाथो गणाधिपः | 
एक दंष्ट्रो वक्यतुण्डो गजवक्त्रो महोदरः ||1||

लम्बोदरो धूम्रवर्णो विकटो विध्ननाशकः | 
सुमुखो दुर्मुखो बुद्धो विघ्नराजो गजाननः ||2||

भीमः प्रमोद आमोदः सुरानन्दो मदोत्कटः | 
हेरम्बः शम्बरः शुम्भर्लम्बकर्णोँ महाबलः ||3||

नन्दनोsलम्पटोsभीरुमेधनादो गणंञ्जयः | 
विनायको विरुपाक्षो धीर शूरो वरप्रदः ||4||

महागणपतिर्बुद्धि प्रियः क्षिप्रप्रसादनः | 
रुद्रप्रियो गणाध्यक्षः उमापुत्रोsघनाशनः ||5||

कुमार गुरुरीशान पुत्रो मूषकवाहनः | 
सिद्धिप्रियः सिद्दिपतिः सिद्धः सिद्धिविनायकः ||6||

अविघ्नस्तुम्बुरः सिँहवाहनोँ मोहिनीप्रियः | 
कंकटो राजपुत्रः शालकः सम्मितोsमितः ||7||

कूष्माण्डसामसम्भूतिर्दुर्जयो धूर्जयो जयः | 
भूपतिर्भुवनपतिर्भूतानां पतिरव्ययः ||8||

विश्वकर्ता विश्वमुखो विश्वरुपो निधिर्घृणिः | 
कविः कवीनामृषभो ब्राह्मणस्पतिः ||9||

ज्येष्ठराजो निधिप्रियपति प्रियः | 
हिरण्मय पुरान्तःस्थः सूर्यमण्डल मध्यमः ||10||

कराहतिध्वस्तसिन्धुसालिलः पूषदंतभित् | 
उमांककेलिकुतुकी मुक्तिदः कुलपालनः ||11||

किरीटी कुण्डलीहारी वनमाली मनोमयः |
वैमुख्यहतदैत्यश्रीः पादहतजितक्षितिः ||12||

सद्योजातस्वर्णमुञ्जमेखली दुर्निमित्तहृत् | 
दुःस्वप्नहृत प्रसहनो गुणी नादप्रतिष्ठितः ||13||

सुरुपः सर्वनेत्रधिवासी वीरासनाश्रयः | 
पीताम्बरः खण्डरदः खण्डेन्दुकृतशेखरः ||14||

चित्रांकश्यामदशनो भालचन्द्रश्चतुर्भुजः | 
योगाधिपस्तारकस्थः पुरुषो गजकर्णकः ||15||

गणाधिराजो विजयस्थिरो गजपतिध्वजी | 
देवदेवः समरप्राणदीपको वायुकीलकः ||16||

विपरिश्चद्वरदो नादोनादभिन्नबलाहकः | 
वराहरदनो मृत्युञ्जयो व्याघ्राजिनाम्बरः ||17||

इच्छाशक्तिधरो देवत्राता दैत्यविमर्दनः | 
शम्भुवक्त्रोद् भवः शम्भुकोपहा शम्भुहास्यभूः ||18||

शम्भुतेजः शिवाशोकहारी गैरीसुखावहः | 
अमांगमलजो गौरीतेजोभूः स्वर्धुनीभवः ||19||

यज्ञकायो महानादो गिरिवर्ष्मा शुभननः | 
सर्वात्मा सर्वदेवात्मा ब्रह्ममूर्धा ककुप् श्रुतिः ||20||

ब्रह्माण्डकुम्भाचिद्वयोमभलः सत्यशिरोरुहः | 
जगज्जन्मलयोन्मेषनिमेषोग्न्यर्कसोमदृक् ||21||

गिरिन्द्रैकरदो धर्माधर्मोष्ठः सामवृंहितः | 
ग्रहर्क्षदशनो वाणीजिह्वो वासवनासिकः ||22||

कुलावंलासः सोमार्कघण्टो रुद्रशिरोधरः | 
नदीनदभुजः सर्पाँगुलीकस्तारकानखः ||23||

भ्रूमध्यसंस्थितकरो ब्रह्मविद्यामदोत्कटः | 
व्योमनाभिः श्रीहृदयो मेरुपृष्ठोsर्णवोदरः ||24||

कुक्षिस्थयक्षंगधर्वरक्षः किन्नरमानुषः | 
पृथ्वीकटिः सृष्टिलिँग शैलोरुर्दस्त्रजानुकः ||25||

पातालजंघो मुनिपात्कालांगुष्ठस्त्रयी तनुः | 
ज्योतिर्मण्डललांगूलो हृदयालाननिश्चलः ||26||

हृत्पद् मकर्णिकाशालिवियत्केलि सरोवरः | 
सद् भक्त ध्यान निगडः पूजावारीनिवारितः ||27||

प्रतापी कश्यपसुतो गणपो विष्टपी बली | 
यशस्वी धार्मिकः खोजा प्रथभः प्रथमेश्वरः ||28||

चिन्तामणिद्वीपपतिः कल्पद्रुमवनालयः | 
रत्नमण्डपमध्यस्थो रत्नसिंहासनाश्रयः ||29||

तीव्रशिरोद् धृतपदो ज्वालिनी मैलिलातितः | 
नन्दानन्दित पीठश्रीर्भोगदा भूषितासनः ||30||

सकामदायिनीपिठः स्फुरदुग्रासनाश्रयः | 
तेजोवतीशिरोरत्नं सत्यानित्याळतंसितः ||31||

सविघ्ननाशिनीपीठः सर्वशक्त्यम्बुजाश्रयः | 
लिपिपद् मासनाधारो वह्निधामत्रयाश्रयः ||32||

उन्नतप्रपदो गूढगुल्फः संवृतपार्ष्णिकः | 
पीनजंघोश्लिष्टजानुः स्थूलोरु प्रोन्नमत्कटिः ||33||

निम्नाभिः स्थूलकुक्षिः पीनवक्षा बृहद् भुजः | 
पीनस्कन्धः कम्बुकण्ठो लम्बोष्ठो लम्बनासिकः ||34||

भग्नवामरदस्तुंगसव्यदन्तो महाहनुः | 
ह्रस्वनेत्रत्रयः शूर्पकर्णो निविडमस्तकः ||35||

स्तवकाकारकुम्भाग्रो रत्नमौलिनिरंकुशः | 
सर्पाहारकटिसूत्रः सर्पयज्ञोपवीतवान् ||36||

सर्पकोटीरकटकः सर्पग्रैवेयकांगदः | 
सर्पकक्ष्योदराबन्धः सर्पराजत्तरीयकः ||37||

रक्तो रक्ताम्बरधरो रक्तमाल्य विभूषणः | 
रक्तेक्ष्णो रक्तकरो रक्तताल्वोष्ठ पल्लवः ||38||

श्वेतः श्वेताम्बरधरः श्वेतमाल्यविभूषणः | 
श्वेतातपत्ररुचिरः श्वेत चामरवीजितः ||39||

सर्वावयव सम्पूर्ण सर्व लक्षण लक्षितः | 
सर्वाभरणशोभाढ़्यः सर्वशोभासमन्वितः ||40||

सर्वमंगलमंगल्यः सर्वकारणकारणम् | 
सर्वदैककरः शांर्गी बीजापुरी गदाधरः ||41||

इक्षुचापधरः शूली चक्रपाणि सरोजभृत् | 
पाशी धृतोत्पलः शालीमञ्जरीस्वदन्तभृत् ||42||

कल्पवल्लीधरो विश्वाभयदैककरो वशी | 
अक्षमालाधरो ज्ञानमुद्रावान् मुद्गरायुधः ||43||

पूर्णापात्री कम्बुधरो विधृतालिसमुद्गकः ||44 ||
पुष्करस्थलस्वर्णघटी पूर्णरत्नाभिवर्षकः |

भारती सुन्दरी नाथो विनायकरति प्रियः ||45||

महालक्ष्मीप्रियतमः सिद्ध लक्ष्मी मनोरमः | 
रमालमेश पूर्वागो दक्षिणोमामहेश्वरः ||46||

महीवराहवामांगो रतिकन्दर्पपश्चिमः | 
आमोदमोदजननः सप्रमोद प्रमोदनः ||47||

समेधितसमृद्धि श्री ऋद्धि सिद्धि प्रवर्तकः | 
दत्तसौमुख्य सुमुखः कान्तिकन्दलिताश्रयः ||48||

मदनावत्याश्रिताङ् घ्रिः कृतवैमुख्यदुर्मुखः | 
विघ्रसपल्लवः पद्माः सेवोन्निद्रमदद्रवः ||49||

विघ्नकृन्निघ्न चरणे द्राविणी शक्ति सत्कृतः | 
तीव्रा प्रसन्न नयनो ज्वालिनीपालितैकदृक् ||50||

मोहिनी मोहनो भोगदायिनी कान्तिमण्डितः | 
कामिनीकान्तवक्र श्रीराधिष्ठिततवसुन्धरः ||51||

वसुन्धरामदोन्नद्ध महाशंख निधि प्रभोः | 
नमद्वसुमती मौलि महापद् निधि प्रभुः ||52||

सर्वसद्गुरुसंसेव्य सोचिष्ठकेशहृदाश्रयः | 
ईशानमूर्धा देवेन्द्रशिखा पवननन्दनः ||53||

अग्रप्रत्यग्रनयनो दिव्यास्त्राणां प्रयोगवित् | 
ऐरावतादिसर्वाशावरणा वरणप्रियः ||54||

वज्राद्यस्त्रपरीवारो गणचण्ढसमाश्रयः | 
जयाजयापरीवारो विजयाविजयावहः ||55||

अजितार्चितपादाब्जो नित्यनित्यावतंशित | 
विलासिनीकृतोल्लासः शौण्डी सौन्दर्यमण्डितः ||56||

अनन्तानन्तः सुखदः सुमंगलसुमंगलः |
इच्छाशक्ति ज्ञानशक्ति क्रियाशक्ति निषेवितः ||57||

सुभगासंश्रितपदो ललिता ललिताश्रयः | 
कामिनी कामनः काममालिनी केलिलालितः ||58||

सरस्वत्याश्रयो गौरीनन्दनः श्री निकेतनः | 
गुरुगुप्तपदो वाचासिद्धौ वागीश्वरीपतिः ||59||

नलिनी कामुको वामारामो ज्येष्टा मनोरमः | 
रौद्रीमुद्रित पादाब्जो हुम्बीजस्तुंग शक्तिकः ||60||

विश्वादिजननत्राणः स्वाहा शक्ति सकीलकः | 
अमृताब्धिकृतावासो मदधूर्णितलोचनः ||61||

अच्छिष्टगण उच्छिष्टगणेशो गणनायकः | 
सार्वकालिक संसिद्धिं नित्यशैवो दिगम्बरः ||62||

अनपायोsनन्त दृष्टिरप्रमेयोsजरामरः | 
अनाविलोsप्रतिरथो ह्यच्युतोsमृतमक्षयम् ||63||

अप्रतर्क्योsक्षयोsजय्योsनाधारोsनामयोsमलः | 
अमोघसिद्धिरद्वैतमघोरोsप्रतिमाननः ||64||

अनाकारोsब्धिभूम्यग्निबलघ्नोsव्यक्त लक्षणः | 
आधारपीठः आधारः आधाराधेयवर्जितः ||65||

आखुकेतनो आशापूरक आखुमहारथः | 
इक्षु सागरमध्यस्थ इक्षुभक्षणलालसः ||66||

इक्षुचापातिरेक श्रीरिक्षुचाप निषेवितः | 
इन्द्रगोपसमान श्रीरिन्द्रनील समद्युतिः ||67||

इन्दीवरदलश्याम इन्दुमण्डल निर्मलः | 
इध्मप्रिय इडाभाग इराधामेन्दिरा प्रियः ||68||

इक्ष्वाकुविघ्नविध्वंसी इतिकर्तव्यतेप्सेतः | 
ईशानमैलिरीशान ईशानसुत ईतिहा ||69||

ईषागात्रयकल्पान्त ईहामात्रविवर्जितः | 
उपेनद्र उडुभृन्मौलिरुण्डेरकबलिप्रियः ||70||

उन्नतानन उत्तुंगः उदारत्रिदशाग्रणीः | 
ऊर्जस्वानूष्मलमद ऊहापोहदुरासदः ||71||

ऋग्युः सामसम्भूतिदऋद्धिः सिद्धिः प्रवर्तक | 
ऋजुचित्तैक सुलभः ऋणत्रय विमोचकः ||72||

लुप्तविघ्नः स्वभक्तानां लुप्तशक्तिः सुरद्विषाम् | 
लुप्तश्रीर्विमुखार्चानां लुताविस्फोटनाशनः ||73||

एकार पीठ मध्यस्थ एकपादकृतासनः | 
एजिताखिल दैत्य श्रीरेधिताखिलासंश्रयः ||74||

ऐश्वर्य निधिश्वर्यमैहिकामुष्मिक प्रदः | 
ऐरम्मदसमोन्मेषं ऐरावत निभाननः || 75||

ओँकारवाच्य ओँकार ओजस्वानोषधीपतिः | 
औदार्यनिधिरौद्धत्यधुर्य औन्नत्यनिस्वनः ||76||

अंकुशः सुरनागानामंकुशः सुरविद्विषाम् | 
अः समस्तविसर्गान्तपदेषु परिकीर्तितः ||77||

कमण्डलधुरः कल्पः कपर्दी कलभाननः | 
कर्मसाक्षी कर्मकर्ता कर्माकर्म फलप्रदः ||78||

कदम्बगोलकाकारः कूष्माण्ड गणनायकः | 
कारुण्यदेहः कपिलः कथकः कटिसूत्रभृत् ||79||

खर्च खंगाप्रियः खंगखान्तान्तस्थः खनिर्मलः | 
खल्वाट शृंगनिलयः खट्वांगी खदुरासदः ||80||

गुणाढ्यो गहनो गस्थो गद्य पद्य सुधार्णवः | 
गद्यगानप्रियो गर्जो गीतगीर्वाण पूर्वजः ||81||

गुह्यचाररतो गुह्यो गुह्यगम निरूपितिः | 
गुहाशयो गुहब्धिस्थो गुरुगम्यो गुरोर्गुरुः ||82||

घण्टाघर्घरिकामाली घटकुम्भो घटोदरः | 
चण्डश्चंडेश्वर सुहृच्चण्डीशश्चण्ड विक्रमः ||83||

चराचरपतिश्चिन्तामणिचर्वणलालसः | 
छन्दश्छन्दोवपुश्चन्दो दुर्लक्षश्छन्दविग्रहः ||84||

जगद्योनिर्जगत्साक्षी जगदीशो जगन्मयः | 
जपो जपपरो जप्यो जिह्वासिंहासनप्रभुः ||85||

झलज्झलोल्लसद्यानंझकारि भ्रमराकुलः | 
टंकारस्फरसंरावष्टंकारिमणिनूपुरः ||86||

ठद्वयीपल्लवान्तः स्थसर्वन्त्रैक सिद्धिदः | 
डिण्डिमुण्डो डाकिनीशो डामरो डिण्डिमप्रियः ||87||

ढक्कानिनादमुदितौ ढौको ढुण्ढि विनायकः | 
तत्त्वानां परमं तत्त्वं तत्त्वं पद निरूपतिः ||88||

तारकान्तरसंस्थानस्तारकस्तारकान्तकः |, 
स्थाणुः स्थाणुप्रियः स्थाता स्थावरं जंगम् जगत् ||89||

दक्षयज्ञप्रमथनो दाता दानवमोहनः | 
दयावान् दित्यविभवो दण्डभृद्दण्डनायकः ||90||

दन्तप्रभिन्नाभ्रमेलो दैत्यवारणदारणः | 
दंष्ट्रालग्नद्विघटो देवार्थनृगजाकृतिः ||91||

धनधान्यपतिर्धन्यो धनदो धरणीधरः | 
ध्यानैक प्रकटो ध्येयो ध्यानं ध्यानपरायणः ||92||

नन्द्या नन्दिप्रियो नादो नादमध्य प्रतिष्ठितः | 
निष्कलो निर्मलो नित्यो नित्यानित्यो निरामयः || 93 ||

परं व्योम परं धाम परमात्मा परं पदम् | 
परात्परः पशुपतिः पशुपाश विमोचकः || 94 ||

पूर्णानन्दः परानन्दः पुराणपुरुषोत्तमः | 
पद्मप्रसन्ननयनः प्रणताज्ञानमोचनः || 95 ||

प्रमाण प्रत्यतीतः प्रणतार्तिनिवारणः | 
फलहस्तः फणिपतिः पेत्कारः फाणित प्रियः || 96 ||

बाणार्चिताघ्रियुगलो बालकेलि कीतूहलीः | 
ब्रह्म ब्रह्मर्चितापदो ब्रह्मचारी बृहस्पतिः || 97 ||

ब्रह्मत्तमो ब्रह्मपरो ब्रह्मण्यो ब्रह्मवित्प्रियः | 
ब्रह्मान्नादग्र् यचीत्कारो ब्राह्माण्ठवलिमेखलः || 98 ||

भ्रूक्षेपदन लक्ष्मीको भर्गो भद्रो भयापहः | 
भगवान् भक्तिसुलभौ भूतिदो भूतिभूषणः ||99||

भव्यो भूतोलयो भोगदाता भ्रूमध्य गोचरः | 
मन्त्रो मन्त्रपतिर्मन्त्री मदमत्तमनोरमः ||100||

मेखलवान् मन्दगतिर्मतिमत्कमलेक्षणः | 
महाबलो महावीर्यो महापाणो महामनाः ||101||

यज्ञो यज्ञपतिर्यज्ञगोप्ता यज्ञफलप्रदः | 
यशस्करो योगगम्यो याज्ञिको याजकप्रियः ||102||

रसो रसप्रियोँ रस्यो रञ्जको रावणार्चितः | 
रक्षोरक्षाकरो रत्नगर्भो राजगार्चितः ||103||

लक्ष्यं लक्ष्यप्रदो रक्ष्यो लयस्थो लड्डुकप्रियः | 
लनप्रियो लास्यपरो लाभकृल्लोकाविश्रुतः ||104||

वरेण्यो वह्विदनो वन्द्यो वेदान्तगोचरः | 
विकर्ता वश्वितश्चक्षुविधाता विश्यवतोमुखः ||105||

वामदेवो विश्ववनेता वज्रिवज्रनिवारणः | 
विश्व बन्धनविष्कम्भाराधारा विश्वेश्वर प्रभुः ||106||

शब्दब्रह्म शमप्राप्यः शम्भूशक्ति गणेश्वरः | 
सास्ता शिखाग्रनिलयः शरण्यः शिखरीश्वरः ||107||

षड्ऋतु कुसुमस्रग्वी षडाधारः षडक्षरः | 
संसार वैद्यः सर्वज्ञ सर्वभेषजभेषजनम् ||108||

सृष्टिस्थितिलयक्रीडः सुरकुञ्जर भेदनः | 
सिन्दूरितमहाकुम्भः सदसद् व्यक्तिदायकः ||109||

साक्षी समुद्रमथनः स्वसंवेद्यः स्वदक्षिणः | 
स्वतन्त्रः सत्यसंकल्पः सामगानरतः सुखिः ||101||

हंसो हस्तिपिशाचीशो हवनं हव्यकव्यभुक् | 
हव्यो हुतप्रियो हर्णो हृल्लेखामन्त्रमध्यगः ||111||

क्षेत्राधिपः क्षमाभर्ता क्षमापरपरायणः | 
क्षिप्र क्षेमकरः क्षोमानन्दः क्षोणी सुरद्रुमः ||112||

धर्मप्रदोsर्थदः कामदाता सौभाग्यवर्द्धनः | 
विद्याप्रदो विभवदो भुक्ति मुक्ति फलप्रदः ||113||

आभिरुप्यकरो वीर श्रीप्रदो विजयप्रदः | 
सर्ववश्यकरो गर्भदोषहा पुत्र पौत्रदः ||114||

मेधादः कीर्तिदः शोकहारी दौर्भाग्यनाशनः | 
प्रतिवादी मुखस्तम्भो रुष्टचित्त अप्रसादनः ||115||

पराभिचारसमनो दुःखभञ्जन कारकः | 
लवस्रुटिः कलाकाष्ठा निमेषस्तत्परः क्षण ||116||

घटी मुहुर्तँ प्रहरो दिवा नक्तमहर्शिम् | 
पक्षो मासोsयनं वर्षँ युगं कल्पो महालयः ||117||

राशिस्तारा तिथिर्योगो वारः करणमंशकम् | 
लग्नं होरा कालचक्रं मेरु सप्तर्षयो ध्रुवः ||118||

राहुर्मन्दः कविर्जीवो बुद्धौ भौमः राशिः रविः | 
कालः सृष्टिः स्थितिविश्वं स्थावरं जंगमञ्चयत् ||119||

भुरापोsग्निमरुद् व्योमाहंकृतिः प्रकृतिः पुमान् | 
ब्रह्मा विष्णुः शिवो रुद्रः ईशः शक्तिः सदाशिवः ||120||

त्रिदशाः पितरः भूता मनुष्याः पाशवः खगाः || 121||
समुद्राः सरितः शैला भूतं भव्यं भवोद् भवः |

सांख्यं पातञ्जलं योगः पुराणनि श्रुतिः स्मृति || 122||

वेदांगानि सदाचारो मीमांसा न्यायविस्तारः | 
आयुर्वेदो धनुर्वेदा गंधर्व काव्यनाटकम् |123||

वेखानसं भागवतं सात्त्वतं पाञ्चरात्रकम् | 
शैवं पाशुपतं कालामुखम् भैरवशासनम् ||124||

शाक्तं वैनायक सौरं जैनमार्हतसंहिता | 
सदसद् व्यक्तमव्यक्तं सचेतनमचेतनम् ||125||

बन्धो मोक्षः सुखं भोगोsयोगः सत्यमणुर्महान् | 
स्वास्ति हुं फट् स्वधा स्वाहा श्रौषड्वण्णमः ||126||

ज्ञानविज्ञानमानन्दो बोधः संविच्छमो यमः | 
एक एकाक्षरधरा एकाक्षरपरायणः ||127||

एकाग्रधीरेकवीर एकानेक स्वरुपधृक् | 
द्विरुपो द्विभुजोत्र्यक्षो द्विरदो द्वीपरक्षकः ||128||

द्वैमातुरो द्विवदनो द्वन्द्वातीतो द्वयातिगः | 
त्रिधामा त्रिकरस्त्रेतात्रिवर्ग फलदायकः ||129||

त्रिगुणात्मका त्रिलोकादिस्त्रिशक्तीशश्चित्रलोचनः | 
चतुर्बाहुश्चतुर्दन्तश्चतुरात्मा चतुर्मुखः ||130||

चतुर्विधोपायमयश्चतुर्वर्णाश्रमाश्रयः | 
चतुर्विधवचोवृत्तिपरिवृत्तिप्रवर्तकः ||131||

चतुर्थी पूजनप्रीतश्चतुर्थीतिथि सम्भवः | 
पञ्चाक्षरत्म पञ्चात्मा पञ्चास्यः पञ्चकृत्यकृत् ||132||

पञ्जाधारः पञ्जवर्णः पञ्चाक्षरपरायणः | 
पञ्चतालः पञ्चकरः पञ्चप्रणवभावितः ||133||

पञ्चब्रह्ममयस्फूर्तिः पञ्चावरणवारितः | 
पञ्चाभक्ष्यप्रियः पञ्चवाणः पञ्चशिवात्मकः ||134||

षट्कोणपीठः षट्चक्रधामा षड्ग्रन्थिभेदकः | 
षड्ध्वाध्वान्तविध्वंसी षडंगुलमहाहृदः ||135||

षण्मुखः षण्मुखभ्राता षड्शक्ति परिवारितः | 
षड्वैरिवर्गविध्वंसी षडूर्मिभयभञ्जनः ||136||

षट्तर्कतूरः षट्कर्मनिरतः षड् रसाश्रयः | 
सप्तपातालचरणः सप्तद्वीपोरुमण्डलः ||137||

सप्तस्वर्लोकमुकुटः सप्तसप्तिवरप्रदः | 
सप्तांगराज्यसुखदः सप्तर्षिगणमण्डितः ||138||

सप्तच्छन्दोनिधिः सप्तहोता सप्तस्वराश्रयः | 
सप्तब्धिकेलिसारः सप्तमातृनेषेवितः ||139||

सप्तच्छन्दोमोदमदः सप्तच्छन्दोँमखप्रभुः | 
अष्टमूर्तिध्येयमूर्तिरष्टप्रकृतिकारणम्: ||140||

अष्टांगयोगफलभूरष्टत्राम्बुजासनः | 
अष्टशक्तिसमृद्धश्रीरष्टैश्वर्यप्रदायकः ||141||

अष्टपीठोपपीठश्रीरष्टमातृसमावृतः | 
अष्टभैरवसेव्याsष्टवसुवन्धोsष्टमूर्तिभृत् ||142||

अष्यचक्रस्फुरन्मूर्तिरष्ट द्रव्य हविः प्रियः | 
नवनागासनाध्यासी नवनिध्यनुशासिता ||143||

नवद्वारपुराधारो नवधारनिकेतनः | 
नवनारायण स्तुत्यो नवदुर्गानिषेवितः ||144||

नवानाथ महानाथो नवनागविभूषणः | 
नवरत्नविचित्रांगो नवशक्तिशिरोधृतः ||145||

दशात्मको दशभुजो दशादिक्पति वन्दितः | 
दशाध्यायो दशप्राणो दशोन्द्रियनियामकः ||146||

दशाक्षरमहामन्त्रो दशदिशाव्यापिविग्रहः | 
एकादशादिभिर्रुद्रैः स्तुत एकादशाक्षरः ||147||

द्वादशोद्दण्डदोर्दण्डो द्वादशान्तनिकेतनः | 
त्रयो दशभिदाभिन्नविश्वेदेवाधिदैवतम् ||148||

चतुर्दशन्द्रवरदश्चतुर्दशानमनु प्रभुः | 
चतुर्दशादिविद्याढ्यश्चतुर्दशजगत्प्रभुः ||149||

सामपञ्जदशः पञ्चशीशीतांशुनिर्मलः | 
षोडशाधारनिलयः षोडशस्वरमातृकः ||150||

षोडशान्तपदावासः षोडशोन्दुकलात्मकः | 
कला सप्तदशी सप्तदशः सप्तदशाक्षरः ||151||

अष्टादशद्वीपपतिरष्टादशपुराणकृत् | 
अष्टादशौषधि सृष्टिरष्टादशविधिः स्मृतः ||152||

अष्टादशलिपिव्यष्टि समष्टिज्ञान कोविदः | 
एकविँश पुमानेकविँशत्यंगुलि पल्लवः ||153||

चतुर्विँशतितत्त्वामा पञ्चविँशाख्य पुरुषः | 
सप्तविँशतितारेशः सप्तविँशति योगकृत् ||154||

द्वात्रिशद्भैरवाधीशश्चतुनिस्त्रंशन्महाहृदः | 
षट् त्रिँशत्तत्त्वसम्भूतिरष्टात्रिँशक्तलातनुः ||155||

नमदेकोनपञ्चाशन्मरुद्वर्गनिरर्गलः | 
पंचाशदरक्षरश्रेणी पंचाशदुद्रविग्रहः ||156||

पञ्चाशद्विष्णुशक्तीशः पञ्चाशन्मातृकालयः | 
द्विपञ्चाशद्वपुश्रेणी त्रिषष्ट्यक्षर संश्रयः ||157||

चतुःषष्ट्यर्णनिर्णेता चतुःषष्टिकलानिधिः | 
चतुः षष्टिमहासिद्धयोगिनी वृन्दवन्दितः ||158||

अष्यषष्टिमहातीर्थक्षेक्र भैरव भावनः | 
चतुर्नवतिमन्त्रामा षण्णावत्यधिक प्रभुः ||159||

शतानन्दः शतधृतिः शतपत्रायतेक्षणः | 
शतनीकः शतमखः शतधारावरायुधः ||160||

सहस्रपत्रनिलयः सहस्रफणभूषणः | 
सहस्रशीर्षापुरुषः सहस्राक्ष, सहस्रपात् ||161||

सहस्रनामसंस्तुत्यः सहस्राक्षलापहः | 
दशसाहस्रफलभृत् फणिराजकृतासनः ||162||

अष्टाशीतिसहस्रद्यमहर्षिस्तोत्रयन्त्रितः | 
लक्षधीश प्रियाधीरो लक्षाधारमनोमयः ||163||

चतुर्लक्षजपप्रीतश्चर्लुक्षप्रकाशितः | 
चतुशीतिलक्षणां जीवानां देहसंस्थितः ||164||

कोटिसूर्यपतिकाशः कोटिचन्द्रांशुनिर्मलः | 
शिवाभवाध्युष्टकोटि विनायकधुरन्धरः ||165||

सप्तकोटि महामन्त्रतावयवद्युतिः | 
त्रयनिस्त्रंशत्कोटिसुरश्रेणी प्रणत पादुकः ||166||

अनन्त नामानन्त श्रीरन्तानन्तसौख्यदः | 
ऊँ इतिवैनायक नाम्नां सहस्रमिदमीरितम् ||167||

 

सहस्त्रनाम माहात्म्य

इदं ब्रह्मे मुहूर्ते यः पठेत् प्रत्यंह नरः |
करस्थं तस्य सकलमैहिकामष्मिकं सुखम् ||168||

आयुरारोग्यमैश्वर्यँ धैर्य शौर्य बलं यशः | 
मेधा प्रजा धृतिः कान्ति सौभाग्यमथि रूपता ||169||

सत्यं दया क्षमा शान्तिर्दाक्षिण्यं धर्मशीलता | 
जगत् संयमनं विश्वसंवादो वादपाटवम् ||170||

सभापाण्डित्यमौदार्य गाम्भीर्य ब्रह्मवर्चसम् | 
औन्नत्यं कुलं शीलं प्रतापो वीर्यमार्यता ||171||

ज्ञानं विज्ञानमास्तिक्यं स्थैर्य विश्वातिशायिता |
धनधान्याभिवृद्धिश्च सकृदस्य जपाद्भवेत् ||172||

वश्यं चतुर्विधं नृणां जपादस्य प्रजायते | 
राजो राजकलत्रस्य राजत्रस्य मन्त्रिणः ||173||

जप्यते यस्य वश्यार्थ सः दासस्तस्य जायते | 
धर्मार्थकाममोक्षाणामनायासेन साधनम् ||174||

शकिनी डाकिनी रक्षोयक्षोरगभयापहम् | 
साम्राज्यं सुखदं चैव समस्तरिपुमर्दनम् ||175||

समस्त कलहध्वंसी दग्धबीजप्ररोहणम् | 
दुःस्वप्न शामनं क्रुद्धस्वामीचित्त प्रसादनमम् ||176||

षट् कर्माष्टमहासिद्धि त्रिकाल ज्ञान साधनम् | 
परकृत्याशमनं परचक्र विमर्दनम् ||177||

समरांगणरणे सर्वोषामिदमेकं जयावहम् | 
सर्वबन्ध्यात्वदोषध्नं गर्भरक्षौककारणम् ||178||

पठ्यते प्रत्यहं यत्र स्तोत्र गणपतिरिदम् | 
देशे तत्र दुर्भिक्षमीतयो दुरतानि ||179||

तद्गृहं जहाति श्रीर्यत्रायं जप्यते स्तवः | 
क्षयकुष्टप्रमेहार्शोभगन्दरविषूचिकाः ||180||

गुल्मं प्लीहानमश्मानमतिसारं महोदरम् | 
कासं श्वासमुद्वर्त शूलं शोफादिसम्भवम् ||181||

शिरोरोगं वमनं हिक्का गण्डमालामरोचकम् | 
वातपित्तकफद्वन्द्वत्रिदोषजनितज्वरम् ||182||

आगन्तुं विषमं शीतमुष्णं चैकाहिकादिकम् | 
इत्याद्युक्तमनुक्तं वा रोगं दोषादिसम्भवम् ||183||

सर्व प्रशमयत्याशु स्तोत्रस्यास्य सकृज्जपः | 
सकृत्पाठेन संसिद्धः स्त्रीशूद्रपतितैरति ||184||

सहस्रनाममन्त्रोsयं जपितव्यः शुभाप्तये | 
महागणपतेः स्तोत्रं सकामः प्रजपन्निदम् ||185||

इच्छितान् सकलान् भोगानुपभुज्येह पार्थिवान् | 
मनोरथफलैर्दिव्यैमयानैर्मनोरमैः ||186||

चन्द्रन्द्रभास्करोपेन्द्रब्रह्मशर्वादिसद्वसुः | 
कामरूपः कामगतिः कामतो विचरान्निह ||187||

भुक्त्वा यथेप्सितान् भोगानभीष्टान् सहबन्धुभिः| 
गणेशानुचरो भूत्वा महागणपतये प्रियः ||188||

नन्दीश्वरादिसानन्दी नन्दितः सकलैर्गणः | 
शिवाभ्यां कृपया पुत्रनिर्विशेषं लालितः ||189||

शिवभक्तः पूर्णकामो गणेश्वरवरात् पुनः | 
जातिस्मरो धर्मपुरः सार्वभौमोsभिजायते ||190||

निष्कामस्तु जपेन्नित्यं भक्त्या विघ्नेश तत्परः | 
योग सिद्धि परां प्राप्य ज्ञानवैराग्य संस्थितः ||191||

निरन्तरोदितान्दे परमानन्दसंविदि | 
विश्वोत्तोर्ग्र परे पारे पुनरवृत्तिवर्जिते ||192||

लीनो वैनायके धाम्नि रमते नित्यनिवृतः | 
योनाभिर्हुनेदेतैर्रचयेत् पूजयेन्नरः ||193||

राजानो वश्यतां यान्ति रिपुवो यान्ति दासताम् | 
मन्त्रा सिद्ध्यन्ति सर्वेsपि सुलभास्तस्य सिद्धस्यः ||194||

मूलमन्त्रदपि स्तोत्रमिदं प्रियतरं मम | 
नमस्ये मासि शुक्लायां चतुर्थ्याँ मम जन्मनि ||195||

दूर्वाभिर्नामभिः पूजां तर्पणं विधिवच्चरेत् | 
अष्टद्रव्यैर्विशेषेण जुहुयाद्भक्ति संयुतः ||196||

तस्येप्सितानि सर्वाणि सिद्ध्यन्त्यत्रं संशयः | 
इदं प्रजप्तं पठितं श्रवितं श्रुतम् ||197||

व्याकुलं चर्चित ध्यातं विमृष्टमभिनन्दितमृ | 
इहामुत्र सर्वेषा विश्वैश्वर्यप्रदायकम् ||198||

स्वच्छन्दचारिणाप्येव येनायं धार्यते स्वतः | 
संरक्ष्यते शिवोद्भूतैर्गणेरेध्युष्ट कोटिभिः ||199||

पुस्तके लिखितं यत्र गृहे स्तोत्रं प्रपूजयेत् | 
तत्र सर्वेप्सिता लक्ष्मीः सन्निधत्ते निरन्तरम् ||200||

दानैरशेषैरखिलैर्व्रतैश्च तीर्थैरशेषैः सकलैर्मखैश्च | 
तत्फलं विन्दति यद्गणेशसहस्रनाम्नां स्मरणेन सद्यः ||201||

एतन्नाम्नां सहस्र पठति दिनमणौ प्रत्यंहप्रोज्जिहाने | 
सायं मध्यन्दिने वा त्रिषवणमथवा संततं वाजनो यः ||202||

स्यादैश्वर्यधुर्यः प्रभवति सतां कीर्तिमुच्चैस्तनोति | 
प्रत्यूहंहन्ति विश्वं वश्यति सुचिरं वर्धते पुत्रपौत्रैः ||203||

अकिञ्चनोsपि मत्प्राप्तिचिन्तको नियताशनः | 
जपेत्तु चतुरो नामान् गणेशार्चन तत्परः ||204||

दरिद्रतां समुन्मूल्य सप्तजन्मानुगामपि | 
लभते महती लक्ष्मीम            ||205||

 

गं गणपतये नमः


1 टिप्पणी:

एक खतरनाक साजिश की सच्चाई

  🔸“संयुक्त परिवार को तोड़कर उपभोक्ता बनाया गया भारत: एक खतरनाक साजिश की सच्चाई* ⚡“जब परिवार टूटते हैं, तभी बाजार फलते हैं” — ये सिर्फ विच...