🔴श्रीशुक्लयजुर्वेदीय रुद्राष्टाध्यायी 🔴
🔺 ( षष्ठ - अध्यायतः समाप्तिं यावत् )🔺
➖➖➖➖➖➖➖➖➖➖➖➖
🔴।। अथ षष्ठोऽध्यायः ॥🔴
(त्र्यम्बक यजनं)
हरिः ॐ , वयं-सोमव्रते तव मनस्तनूषु बिभ्रतः ॥ प्रजावन्तः सचेमहि ॥ १॥
एष ते रुद्रभागः सहस्वस्राऽम्बिकया तं जुषस्व स्वाहैष ते रुद्रभाग आखुस्ते पशुः ॥ २॥
अव रुद्रमदीमहि अव देवं त्र्यम्बकम् ॥
यथा नो वस्यसस्करद्यथा नः श्रेयसस्करद्यथा नो व्यवसायात् ॥ ३॥
भेषजमसि भेषजं गवेऽश्वाय पुरुषाय भेषजम् । सुखं मेषाय मेष्यै ॥ ४॥
त्र्यम्बकं यजामहे । सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय माऽमृतात् ।
त्र्यम्बकं यजामहे सुगन्धिं पतिवेदनम् । उर्वारुकमिव बन्धनादितो मुक्षीय मामुतः ॥ ५॥
एतत्ते रुद्रावसं तेन परो यमूजवतोऽतीहि ॥
अवतत धन्वा पिनाकवासस्कृत्तिवासा अहिंसन् नः शिवोऽतीहि ॥ ६॥
त्र्यायुषं जमदग्ने कश्यपस्य त्र्यायुषम् ॥ यद्देवेषु त्र्यायुषं तन्नोऽस्तु त्र्यायुषम् ॥ ७॥
शिवो नामाऽसि स्वधितिस्ते पिता नमस्तेऽस्तु मा मा हिंसीः ॥
निवर्तयाम्यामुषेऽन्नाद्याय प्रजननाय रायस्पोषाय सुप्रजास्त्वाय सुवीर्याय ॥ ८॥
इति रुद्रे षष्ठोऽध्यायः ॥ ६
🔴।।अथ सप्तमोऽध्यायः ॥🔴
(सर्वस्वार्पणं)
उग्नश्च भीमश्च ध्वान्तश्च धुनिश्च । सासहवांश्चाभियुग्वा च विक्षिपः स्वाहा ॥ १॥
अग्निं हृदयेनाशनिं हृदयाग्रेण पशुपतिं कृत्स्नहृदयेन भवं यक्ना ॥
शर्वं मतस्नाभ्यामीशानं मन्युना महादेवमन्तःपर्शव्येनोग्रं देवं वनिष्ठुना
वसिष्ठहनुः शिङ्गीनि कोश्याभ्याम् ॥ २॥
उग्रँल्लोहितेन मित्रं सौव्रत्येन रुद्रं दौव्रत्येन इन्द्रं प्रक्रीडेन मरुतो बलेन साध्यान्प्रमुदा ।
भवस्य कण्ठ्यं रुद्रस्यान्तः पार्श्व्यं महादेवस्य यकृच्छर्वस्य वनिष्ठुः पशुपतेः पुरीतत् ॥ ३॥
लोमभ्यः स्वाहा लोमभ्यः स्वाहा त्वचे स्वाहा त्वचे स्वाहा लोहिताय स्वाहा लोहिताय स्वाहा
मेदोभ्यः स्वाहा मेदोभ्यः स्वाहा मांसेभ्यः स्वाहा मांसेभ्यः स्वाहा स्नावभ्यः स्वाहा स्नावभ्यः स्वाहा
अस्थभ्यः स्वाहा अस्थभ्यः स्वाहा मज्जभ्यः स्वाहा मज्जभ्यः स्वाहा ॥
रेतसे स्वाहा पायवे स्वाहा ॥ ४॥
आयासाय स्वाहा प्रायासाय स्वाहा संयासाय स्वाहा वियासाय स्वाहोद्यासाय स्वाहा ॥
शुचे स्वाहा शोचते स्वाहा शोचमानाय स्वाहा शोकाय स्वाहा ॥ ५॥
तपसे स्वाहा तप्यते स्वाहा तप्यमानाय स्वाहा तप्ताय स्वाहा घाय स्वाहा ॥
निष्कृत्यै स्वाहा प्रायश्चित्यै स्वाहा भेषजाय स्वाहा ॥ ६॥
यमाय स्वाहा अन्तकाय स्वाहा मृत्यवे स्वाहा ॥
ब्रह्मणे स्वाहा ब्रह्महत्यायै स्वाहा विश्वेभ्यो देवेभ्यः स्वाहा द्यावापृथिवीभ्यां स्वाहा ॥ ७॥
इति रुद्रे सप्तमोऽध्यायः ॥ ७
🔴 ।। अथ अष्टमोऽध्यायः ॥🔴
॥ चमकप्रश्नः ॥
वाज॑श्च मे प्रसवश्च मे प्रय॑तिश्च मे प्रसितिश्च मे धीतिश्च मे क्रतुश्च मे स्वरश्च मे
श्लोकश्च मे श्रवश्च मे श्रुतिश्च मे ज्योतिश्च मे स्वश्च मे यज्ञेन कल्पन्ताम् ॥ १॥
प्राणश्च मेऽपानश्च मे व्यानश्च मेऽसुश्च मे चित्तञ्च मेऽधीतं च मे वाक्च मे मनश्च मे
चक्षुश्च मे श्रोत्रं च मे दक्षश्च मे बलं च मे यज्ञेन कल्पन्ताम् ॥ २॥
ओजश्च मे सहश्च मात्मा च मे तनूश्च मे शर्म च मे वर्म च मेऽङ्गानि च
मेऽस्थीनि च मे परूंषि च मे शरीराणि च म आयुश्च मे जरा च मे यज्ञेन कल्पन्ताम् ॥ ३॥
ज्यैष्ठ्ंय च माधिपत्यं च मे मन्युश्च मे भाम॑श्च मे अम्भश्च जेमा च मे
महिमा च मे वरिमा च मे प्रथिमा च मे वर्षिमा च मे द्राधिमा च मे
वृद्धं च मे वृद्धिश्च मे युज्ञेन कल्पन्ताम् ॥ ४॥
सत्यं च मे श्रद्धा च मे जगच्च मे धनं च मे विश्वं च मे महश्च मे क्रीडा च मे
मोद॑श्च मे जातं च मे जनिष्याणं च मे सूक्तं च मे सुकृतं च मे यज्ञेन कल्पन्ताम् ॥ ५॥
ऋतं च मेऽमृतं च मे युक्ष्मं च मे नामयच्च मे जीवातुश्च मे दीर्घायुत्वं च मे
ऽनमित्रं च मेऽभयं च मे सुखं च मे शय॑नं च मे सूषाश्च मे सुदिनं च मे
यज्ञेन कल्पन्ताम् ॥ ६॥
यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वं च मे महश्च मे सँविच्च मे
ज्ञात्रं च मे प्रसूश्च मे प्रसूश्च मे सीर च मे लय॑श्च मे यज्ञेन कल्पन्ताम् ॥ ७॥
शं च मे मयश्च मे प्रियं च मेऽनुकामश्च मे कामश्च मे सौमनसश्च मे
भगश्च मे द्रविणं च मे भद्रं च मे श्रेयश्च मे वसीयश्च मे यशश्च मे यज्ञेन कल्पन्ताम् ॥ ८॥
ऊर्क्च मे सूनृता च मे पयश्च मे रसश्च मे घृतं च मे मधु च मे सग्धिश्च मे
सपीतिश्च मे कृषिश्च मे वृष्टिश्च मे जैत्र च मे औद्भिद्यं च मे यज्ञेन कल्पन्ताम् ॥ ९॥
रयिश्च मे रायश्च मे पुष्टं च मे पुष्टिश्च मे विभु च मे प्रभु च मे पूर्णं च मे
पूर्णतरं च मे कुयवं च मेऽक्षितं च मेऽन्नं च मे क्षुच्च मे यज्ञेन कल्पन्ताम् ॥ १०॥
वित्तं च मे वेद्यं च मे भूतं च मे भविष्यच्च मे सुगं च मे सुपथ्य च मे ऋद्धं च मे
ऋद्धिश्च मे क्लृप्तं च मे क्लृप्तिश्च मे मतिश्च मे सुमतिश्च मे यज्ञेन कल्पन्ताम् ॥ ११॥
व्रीहयश्च मे यवाश्च मे माषाश्च मे तिलाश्च मे मुद्गाश्च मे खल्वाश्च मे प्रियङ्गवश्च मे
अणवश्च मे श्यामाकाश्च मे नीवाराश्च मे गोधूमाश्च मे मसूराश्च मे यज्ञेन कल्पन्ताम् ॥ १२॥
अश्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे सिकताश्च मे वनस्पतयश्च मे
हिरण्यं च मेऽयश्च मे श्यामं च मे लोहं च मे सीसं च मे त्रपु च मे यज्ञेन कल्पन्ताम् ॥ १३॥
अग्निश्च मे आपश्च मे वीरुधश्च मे ओषधयश्च मे कृष्टपच्याश्च मेऽकृष्टपुच्याश्च मे
ग्राम्याश्च मे पशवः आरण्याश्च मे वित्तं च मे वित्तिश्च मे भूतं च मे भूतिश्च मे यज्ञेन कल्पन्ताम् ॥ १४॥
वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मेऽर्थश्च मे एमश्च मे
इत्या च मे गतिश्च मे यज्ञेन कल्पन्ताम् ॥ १५॥
अग्निश्च मे इन्द्रश्च मे सोम॑श्च मे इन्द्रश्च मे सविता च मे इन्द्रश्च मे सरस्वती च मे
इन्द्रश्च मे पूषा च मे इन्द्रश्च मे बृहस्पतिश्च मे इन्द्रश्च मे यज्ञेन कल्पन्ताम् ॥ १६॥
मित्रश्च मे इन्द्रश्च मे वरुणश्च मे इन्द्रश्च मे धाता च मे इन्द्रश्च मे त्वष्टा च मे
इन्द्रश्च मे मरुतश्च मे इन्द्रश्च मे विश्वेदेवाश्च च मे इन्द्रश्च मे यज्ञेन कल्पन्ताम् ॥ १७॥
पृथिवी च मे इन्द्रश्च मे अन्तरिक्षं च मे इन्द्रश्च मे द्यौश्च मे इन्द्रश्च मे समाश्च मे
इन्द्रश्च मे नक्षत्राणि च मे इन्द्रश्च मे दिशश्च मे इन्द्रश्च मे यज्ञेन कल्पन्ताम् ॥ १८॥
अंशुश्च मे रश्मिश्च मेऽदाभ्यश्च मेऽधिपतिश्च मेऽउपांशुश्च मेऽन्तर्यामश्च मे
ऐन्द्रवायवश्च मे मैत्रावरुणश्च मे आश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे
मन्थी च मे यज्ञेन कल्पन्ताम् ॥ १९॥
आग्रयणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च मे
ऐन्द्राग्नश्च मे मुहावैश्वदेवश्च मे मरुत्वतीयाश्च मे
निष्केवल्यश्च मे सावित्रश्च मे सारस्वतश्च मे पात्क्नीवतश्च मे
हारियोजनश्च मे यज्ञेन कल्पन्ताम् ॥ २०॥
स्रुचश्च मे चमसाश्च मे वायव्यानि च मे द्रोणकलशश्च मे ग्रावाणश्च
मेऽधिषवणे च मे पतभृच्च मे आधवनीय॑श्च मे वेदिश्च मे बर्हिश्च मेऽवभृथश्च मे
स्वगाकारश्च मे यज्ञेन कल्पन्ताम् ॥ २१॥
अग्निश्च मे घर्मश्च मेऽर्कश्च मे सूर्यश्च मे प्राणश्च मेऽश्वमेधश्च मे पृथिवी च
मेदितिश्च मेऽदितिश्च मे द्यौश्च मेऽङ्गुलय शक्वरयो दिशश्च मे यज्ञेन कल्पन्ताम् ॥ २२॥
व्रतं च मे ऋतवश्च मे तपश्च मे संवत्सरश्च मेऽहोरात्रे ऊर्वष्ठीवे
बृहद्रथन्तरे च मे यज्ञेन कल्पन्ताम् ॥ २३॥
एका च मे तिस्रश्च मे तिस्रश्च मे पञ्च च मे पञ्च च मे सप्त च मे सप्त च मे
नव च मे नव च मे एकादश च मे एकादश च मे त्रयोदश च मे त्रयोदश च मे
पञ्चदश च मे पञ्चदश च मे सप्तदश च मे सप्तदश च मे नवदश च मे नवदश च म
एकविंशतिश्च मे एकविंशतिश्च मे त्रयोविंशतिश्च मे त्रयोविंशतिश्च मे पञ्चविंशति च मे
पञ्चविंशतिश्च मे सप्तविंशतिश्च मे सप्तविंशतिश्च मे नवविंशतिश्च मे नवविंशतिश्च मे
एकत्रिंशच्च म एकत्रिंशच्च मे त्रयस्त्रिंशच्च मे यज्ञेन कल्पन्ताम् ॥ २४॥
इति रुद्रेऽष्टमोऽध्यायः ॥ ८
🔴।।अथ रुद्रे नवमोऽध्यायः ॥ 🔴
( शान्तिमन्त्राः )
ऋचं वाचं प्रपद्ये मनो यजुः प्रपद्ये सामप्राणं प्रपद्ये चक्षुः श्रोत्रं प्रपद्ये ॥
वागोजः सहौजो मयि प्राणापानौ ॥ १॥
यन्मे छिद्रं चक्षुषो हृदयस्य॒ मनसो वाऽतितृणं म्बृहस्पतिर्मे दधातु ॥
शं नो भवतु भुवनस्य यः पतिः ॥ २॥
भूर्भुवः स्वः । तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि ॥ धियो यो नः प्रचोदयात् ॥ ३॥
कया नश्चित्र आभुवदूतीः सदावृधः सखा । कया शचिष्ठया वृता ॥ ४॥
कस्त्वा । सत्यो दानां महिष्ठो मत्सदन्धसः ॥ दृढाचिदारुजे वसु ॥ ५॥
अभीषुणः सखीनामधिता जरितृणाम् ॥ शतं भवास्यूतिभिः ॥ ६॥
कया त्वं न ऊत्याऽभिप्रमन्दसे वृषन् । कया स्तोतृभ्यः आभर ॥ ७॥
इन्द्रो विश्वस्य राजति ॥ शं नोऽअस्तु द्विपदे शं चतुष्पदे ॥ ८॥
शं नो मित्रः शं वरुणः शं नो भवत्वर्यमा ॥ शं न इन्द्रो बृहस्पतिः शं नो विष्णुरुरुक्रमः ॥ ९॥
शं नो वातः पवतां शं नस्तपतु सूर्यः ॥ शं नः कनिक्रदद्देवः पर्जन्योऽभिवर्षतु ॥ १०॥
अहानि शं भवन्तु नः शं-रात्रीः प्रतिधीयताम् ॥
शं न इन्द्राग्री भवतामवोभिः शं न इन्द्रावरुणा रातहव्या ॥
शं न इन्द्रापूषणा वाजसातौ शं इन्द्रासोमा सुविताय शं योः ॥ ११॥
शं नो देवीरभिष्टये आपो भवन्तु पीतये ॥
शं योरभिस्रवन्तु नः ॥ १२॥
स्योना पृथिवि नो भवानुक्षरा निवेशनी ॥ यच्छा नः शर्म सप्रथाः ॥ १३॥
आपो हिष्ठामयोभुवस्ताः नः ऊर्जे दधातन ॥ महे रणाय चक्षसे ॥ १४॥
यो वः शिवतमो रसस्तस्य भाजयतेह न उशतीरिव मातर ः ॥ १५॥
तस्मै अरं गमाम वो यस्य क्षयाय जिन्वथ ॥ आपो जनयथा च नः ॥ १६॥
द्यौः शान्तिरन्तरिक्षः शान्तिः पृथिवी शान्तिरापः शान्तिरोषधयः शान्तिः ॥
वनस्पतयः शान्तिर्विश्वेदेवाः शान्तिर्ब्रह्म शान्तिः सर्वं शान्तिः शान्तिरेव शान्तिः
सा मा शान्तिरेधि ॥ १७॥
दृते-दृंह मा मित्रस्य मा चक्षुषा सर्वाणि भूतानि समीक्षन्ताम् ॥
मित्रस्याहं चक्षुषा सर्वाणि भूतानि समीक्षे ॥ मित्रस्य चक्षुषा समीक्षामहे ॥ १८॥
दृते-दृंह मा । ज्योक्ते सन्दृशि जीव्यासं ज्योक्ते सन्दृशि जीव्यासम् ॥ १९॥
नमस्ते हरसे शोचिषे नमस्तेऽस्त्वर्चिषे ॥ अन्याँस्तेऽस्मत्तपन्तु हेतयः पावकोऽस्मभ्यं शिवो भव ॥ २०॥
नमस्ते । अस्तु विद्युते नमस्ते स्तनयित्नवे ॥ नमस्ते भगवन्नस्तु- यतः स्वः समीहसे ॥ २१॥
यतो यतः समीहसे ततो नोऽभयं कुरु ॥
शं नः कुरु प्रजाभ्योऽभयं नः पशुभ्यः ॥ २२॥
सुमित्रिया न आपः ओषधयः सन्तु दुर्मित्रियास्तस्मै सन्तु योऽस्मान्द्वेष्टि यं च वयं द्विष्मः ॥ २३॥
तच्चक्षुर्देवहितं पुरस्ताच्छुक्रमुच्चरत् ॥ पश्येम शरदः शतं ज्जीवेम शरदः-शतं
शृणुयाम शरदः शतं प्रब्रवाम शरदः शतमदीनाः स्याम शरदः शतं भूयश्व शरदः शतात् ॥ २४॥
इति रुद्रे शान्त्यध्यायः ॥ ९
🔴 ।।अथ रुद्रे दशमोऽध्यायः ॥ 🔴
॥ अथ प्रार्थनामन्त्राः ॥
ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ॥
स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥ १॥
पयः पृथिव्यां पय ओषधीषु पयो दिव्यन्तरिक्षे पयो धाः ।
पयस्वतीः प्रदिशः सन्तु मह्यम् ॥ २॥
विष्णो रराटमसि विष्णोः श्नप्त्रेस्थो विष्ष्णोः स्यूरसि विष्णोर्धृवोऽसि ॥
वैष्णवमसि वैष्णवे त्वा ॥ ३॥
अग्निर्देवता वातौ दे॒वता सूर्यो देवता चन्द्रमा देवता वसवो देवता
रुद्रा देवताऽऽदित्या देवता मरुतो देवता विश्वेदेवा देवता बृहस्पतिर्देवतेन्द्रो देवता वरुणो देवता ॥ ४॥
सद्योजातं प्रपद्यामि सद्योजाताय वै नमो नमः ॥ भवे भवे नातिभवे भवस्व मां भवोद्भयाय नमः ॥ ५॥
वामदेवाय नमो ज्येष्ठाय नमः श्रेष्ठाय नमो रुद्राय नमः कालाय नमः कलविकरणाय नमः
बलविकरणाय नमो बलाय नमो बलप्रमथनाय नमः सर्वभूतदमनाय नमो मनोन्मनाय नमः ॥ ६॥
अघोरेभ्योऽथ घोरेभ्यो धोरघोरतरेभ्यः । सर्वेभ्यः सर्वशर्वेभ्यो नमस्तेऽस्तु रुद्ररूपेभ्यः ॥ ७॥
तत्पुरुषाय विद्महे महादेवाय धीमहि । तन्नो रुद्रः प्रचोदयात् ॥ ८॥
ईशानः सर्वविद्यानामीश्वरः सर्वभूतानाम् ।
ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा शिवो मेऽस्तु सदाशिवोऽम् ॥ ९॥
शिवोनामासि स्वधितिस्ते पिता नमस्तेऽस्तु मां मा हिंसीः ॥
निवर्तयाम्यायुषेऽन्नाद्याय प्रजननाय रायस्पोपाय सुप्रजास्त्वाय सुवीर्याय ॥ १०॥
विश्वानि देव सवितर्दुरितानि परासुव ॥ यद्भद्रं तन्न आसुव ॥ ११॥
द्यौः शान्तिरन्तरिक्षः शान्तिः पृथिवी शान्तिरापः शान्तिरोषधय शान्ति ।
वनस्पतयः शान्तिर्विश्वेदेवाः शान्तिर्ब्रह्मशान्तिः सर्वं शान्तिः शान्तिरेव शान्तिः सामाशान्तिरेधि ॥ १२॥
अनेन रुद्राभिषेककर्मणा भवानीशङ्करः प्रीयतां न मम इति
रुद्राष्टाध्यायी समाप्ता ॥
इति श्रीशुक्लयजुर्वेदीय रुद्राष्टाध्यायी समाप्ता ।
🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
.
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें